सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

चतुर्थोऽध्यायः
प्रथमः खण्डः
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ चतुर्थाध्यायस्य प्रथमानुवाके पञ्चविंशब्राह्मगोक्ताद् द्वादशाहाद्
विविक्तस्य व्यूढद्वादशाहस्य धर्मा निरूप्यन्ते । तत्र प्रथमम् आद्यन्तयोः
प्रायणीयोदयनीययोर्द्वोः सर्वयज्ञसाधारणत्वात् अवशिष्टानामह्नां मध्ये दशमस्या-
प्यतिक्रियत्वात् तत्रापि न किंचिद्वक्तव्यमस्तीत्यतोऽवशिष्टस्य नवरात्र-
स्यैवात्र भेदा अनुवर्ण्यन्ते ॥
तत्र प्रथमं प्रथमत्रिरात्रस्य धर्मविशेषमाह—
स्वरान्तः प्रथमस्त्रिरात्रो गायत्री ॥ १ ॥
प्रथमस्त्रिरात्रः स्वरान्तः स्वरितमक्षरम् अन्ते यस्य सः, तथोक्तः ।
त्रिरात्रसंबन्धी पवमानः स्वरान्त इति भावः । तथा च पञ्चविंशब्राह्मणे
आर्भवपवमाने सामविध्यन्तरमाम्नायते— स्वारमु स्वरेण (तां.ब्रा. ११.५.२६)
इति । तथा छन्दो गायत्री । तत्रत्यं छन्दो गायत्रीप्रमुखमित्यर्थः ॥ १ ॥
3. M. om. यस्य...महेश्वरम्.
5. J. om. अथ; M. om. चतुर्थाध्यायस्य प्रथमानुवाके; RIS.
०वाकेन for ०वाके; RJIS. ब्राह्मणोक्त० for ब्राह्मगोक्ताद्; M. ०हद्विविधोक्तस्य
for ०हाद्विविक्तस्य.
8. RIS ०कृतत्वात्, MK ०क्रयत्वात् for ०क्रियत्वात्; JM. om. अतः;
J. ०रात्रस्य धर्म०, MK. ०रात्रस्यैव न for ०रात्रस्यैवात्र; S ०रात्रभेदा for
रात्रस्यैवात्र भेदा.
10. RJM. om. प्रथम०.
13. J ०संबन्धिनः, KSIT ०संबन्धः for ०संबन्धी; J. पवमानाः
स्वरान्ताः for पवमानः स्वरान्तः.
14. K. अभ्यव० for आर्भव०; KJS ०मान for ०माने; MK. ०समा०
for ०साम०; J. स्वारमुख्येन, MT. स्वरमुख्येण for स्वारमु स्वरेण.
15. RIS तत्र for तत्रत्यं.

[Header]
१३२ षड्विंशब्राह्मणम्

प्रायशो गायत्रत्वात् प्रातःसवनस्य तदुभयं प्रशंसति—
प्राणो वै गायत्री । प्रजापतिः स्वरः । प्रजापति-
मेवाप्नोति ॥ २ ॥
गायत्री प्राण एव । प्राणापानव्यानैः त्रिवृत्प्राणः । गायत्र्यपि त्रिपदा ।
अतो गायत्र्याः प्राणसाम्यम् । अथवा मुखे प्राणो गायत्र्यपि मुखादुत्पन्नेति
प्राणसाम्यं द्रष्टव्यम् । तस्मात् तेन च्छन्दसा यजमानः सर्वमायुरेतीति शेषः ।
स्वरः प्रजापतिरेव । तयोस्तादात्म्यं शास्त्रसिद्धमेव । तेन स्वरेण देहान्ते
यजमानः प्रजापतिमेवाप्नोति ॥ २ ॥
द्वितीयत्रिरात्रधर्ममाह—
निधनान्तो द्वितीयस्त्रिष्टुप् ॥ ३ ॥
द्वितीयः त्रिरात्रेः निधनान्तः निधनम् अन्ते यस्य सः, तथोक्तः ।
द्वितीयाः पवमाना निधनान्ता इत्यर्थः । तथोक्तं पञ्चविंशब्राह्मणे—निधनान्ताः
पवमाना भवन्ति (तां.ब्रा. १३.५.२८) इति । तथा त्रिष्टुप् तदीयच्छन्दोव्यूहेन
त्रिष्टुप्प्रमुखम् ॥ ३ ॥
तदुभयं प्रशंसति—
वीर्यं वै त्रिष्टुप् । त्रैष्टुभः पुरुषः [निधनम्] ।
पुरुषमेवाप्नोति ॥ ४ ॥
त्रिष्टुब् वीर्यमेव । इन्द्रेण सहोत्पन्नत्वात् । पुरुषस्त्रैष्टुभः । चतुष्पाद्भ्यो
वीर्यवत्तमत्वात् । निधनं निधानं तदास्थितः पुमान् । तेनाश्रयाश्रयिसंबन्धेन
पुरुषशब्देन निधनं लक्ष्यते । तथा च निधनं त्रैष्टुभमित्यर्थः । तेन यजमानः
पुरुषं पुत्रपौत्रादिकमेवाप्नोति ॥ ४ ॥


पादटिप्पण्यः (Footnotes):

  1. J. om. प्रायशो०.. प्रशंसति.
  2. J प्राणो वै प्राण एव गायत्री for गायत्री प्राण एव.
  3. RIS. om. यजमानः.
  4. KMT ०विरुद्धम् for ०सिद्धम्.
  5. J जगती० for तदीय०.
  6. MK. प्राङ्मुखम् for प्रमुखम्.
  7. निधनं See CN.
  8. MK. विर्य(M. वीर्ये) वर्तमान for वीर्यवत्तमत्वात्; J तदाश्रितः for तदास्थितः; MITSK श्रयाश्रयिसंबन्धेन for ०श्रयाश्रयिसंबन्धेन.

[Header] चतुर्थोऽध्यायः (१) १३३

तृतीयत्रिरात्रधर्ममाह—
इडान्तस्तृतीयो जगती ॥ ५ ॥
तृतीयत्रिरात्र इडान्तः इडा अन्ते यस्य सः, तथोक्तः । तदीयाः
पवमाना इडान्ता इत्यर्थः । तथा चोक्तं पञ्चविंशब्राह्मणे—इडान्ताः पावमानाः
भवन्ति (तां. ब्रा. १४. ५. ३१.) इति । जगती तदीयच्छन्दोव्यूहेन जगती-
प्रमुखमित्यर्थः ॥ ५ ॥
तदुभयं प्रशंसति—
पशवो वा इडा । पशवो जगती । जागताः पशवः ।
पशूनेवाप्नोति ॥ ६ ॥
अतिरोहितार्थमेतत् ॥ ६ ॥
ननु यदि गायत्रः प्रथमत्रिरात्रः तर्हि प्रथमे विनियुक्ताया एव गायत्र्या
द्वितीयतृतीययोरप्यह्नोः प्रयोगात् तस्य यातयामत्वं भवेदित्यत आह—
प्रसृतच्छन्दाः प्रथमस्त्रिरात्रः। तेन सोऽयातयामा ॥ ७ ॥
सत्यम् । तथापि प्रथमत्रिरात्रः प्रसृतच्छन्दाः प्रसृतानि विस्तीर्णानि
गायत्र्यादीनि च्छन्दांसि यस्मिन्निति स तथोक्तः । प्रातःसवनस्य गायत्रत्वात् ।
माध्यंदिनसवनस्य त्रैष्टुभत्वात् । तृतीयसवनस्य जागतत्वाच्च । तेनैव च्छन्दो-
भेदेन सोऽयं त्रिरात्रोऽयातयामः । गतसारो न भवतीत्यर्थः ॥ ७ ॥
अथ द्वितीयत्रिरात्रस्य च्छन्दोविभागेनायातयामत्वं दर्शयति—
अथोत्तरस्य च्छन्दांसि व्यूहन्ति । त्रिष्टुभः प्रतिपदो
भवन्ति । त्रिष्टुभां लोके जगत्यो जगतीनां गायत्र्यस्तेन
सोऽयातयामा ॥ ८ ॥
अथशब्दो वाक्योपक्रमे । उत्तरस्य द्वितीयत्रिरात्रस्य च्छन्दांसि
व्यूहन्ति । व्यूहेन विभिन्नानि कार्याणि कुर्युः । तस्यैव विवरणम् । त्रिष्टुभः


३. MTK अन्तो for अन्ते.
१९. Sh Ms. जगत्यः प्रतिपदो भवन्ति । जगतीनां लोके त्रिष्टुभस्त्रिष्टुभां
for त्रिष्टुभः...जगतीनां.
11

१३४ षड्विंशब्राह्मणम्

त्रिष्टुप्छन्दस्काः प्रतिपद्यन्ते प्रारभ्यन्ते आभिः ऋग्भिरिति प्रतिपद् आद्या
भवन्ति । तत्र बहिष्पवमानानाम् आज्यगणानां गायत्रीणां स्थाने त्रिष्टुभो
भवन्तीत्यर्थः । त्रिष्टुभां लोके स्थाने माध्यंदिनपवमानान्तेषु जगत्यो भवन्ति ।
जगतीनां लोके आर्भवपवमानान्तेषु गायत्र्यो भवन्ति । तेनैव छन्दोव्यूहेन
सोऽयं द्वितीयत्रिरात्रोऽयातयामा ॥ ८ ॥
अथ तृतीयत्रिरात्रस्यापि च्छन्दोव्यूहेनायातयामत्वं दर्शयति—
अथोत्त॒मस्य॒ च्छन्दाँ॑सि॒ व्येवो॑हन्ति । जग॑त्यः
प्र॒तिपदो॑ भवन्ति । जग॑तीनां लो॒के त्रि॒ष्टुभः॑ । त्रि॒ष्टुभां
गा॑य॒त्र्यः॑ । तेनो॑ ए॒व सोऽया॑तयामा ॥ ९ ॥
अथ उत्तमस्य तृतीयत्रिरात्रस्य च्छन्दांसि व्यूहन्त्येव । कथम् ? तत्र
बहिष्पवमानाज्येषु जगत्यः प्रतिपदो भवन्ति । जगतीनां स्थाने त्रिष्टुभो
भवन्ति । त्रिष्टुभां स्थाने गायत्र्यः तेनैव च सोऽयं तृतीयत्रिरात्रोऽयातयामा
भवेदिति ॥ ९ ॥
यथोक्तमर्थं स्तौति—
अपि॑ वा ए॒ता अ॒न्यो॒न्यस्यै॑ लो॒कम॒भ्यध्या॑यन् ।
काम॑मेवैना गमयति । आप्नो॑ति॒ तं कामं॒ यस्मै॒ कामा॒यैष
आ॒ह्रियते॑ ॥ १० ॥

  1. J. adds ऋचः before प्रति०; RISK. om. प्रारभ्यन्ते ; MTISK
    om. ऋग्भिः; J om. इति.
  2. RIS अत्र for तत्र; J. आज्यानां च तद्गतानां for आज्यगणानाम्.
  3. J. om. लोके; J. स्थानेषु for स्थाने.
  4. TK. अजगतीनां for जगतीनां; J. स्थाने आर्भवान्ते for लोके
    आर्भवपवमानान्तेषु ; J adds इति after भवन्ति.
  5. K. om. द्वितीयत्रिरात्रः.
  6. KJT. व्यूहत्वेन for व्यूहेन.
  7. Sh Ms. त्रिष्टुभः प्रतिपदो भवन्ति । त्रिष्टुभां लोके जगतीनां for
    जगत्यः...०त्रिष्टुभां.
  8. M. adds एतत् before कथम्.
  9. MJTRIS. अभि for अपि.

चतुर्थोऽध्यायः (१) १३५
एता विभिन्नच्छन्दस्का ऋचः अन्योन्यस्यै लोकं व्यूहेन परस्परस्थान-
मभ्यध्यायन् । अधितिष्ठन्त्येव । एनाः विभक्तिपरिणामः । एताभिः परस्परं लोकं
प्राप्ताभिः ऋग्भिः कामम् अभीष्टमेव यजमानो गमयति गच्छति । तस्यैव
विवरणम् । यस्मै कामाय यं कामं प्राप्तुम् एष द्वादशाह आदियते
अनुष्ठीयते तं काममाप्नोति ॥ १० ॥
अथ प्रथमत्रिरात्रस्य प्रसृतच्छन्दस्त्वं द्वितीयतृतीययोर्व्यूढच्छन्दस्त्वं
च स्तौति—
तस्माद्युजौ न सहग्वहतस्तस्माद्विपरिणीतौ वहीयांसौ
भवतस्तस्मादुभयतोदन्तः स्यदन्ते ॥ ११ ॥
अतो यतो यज्ञात्मकस्य रथस्य वाहनस्थानीयानि गायत्र्यादीनि
च्छन्दांसि वैषम्येण तं वहन्ति तस्माद्युजौ विषमबलौ गजाश्वावेकत्र युक्तौ सन्तौ
सहक् समानं न वहत इत्येतेन प्रथमे ऽहनि सवनत्रयस्य यज्ञवहनद्वारा
प्रसृतच्छन्दस्त्वं स्तुतं भवति । यस्माच्छन्दांसि अन्योऽन्यस्थानं प्राप्तान्येव
यज्ञहारीणि वहन्ति । तस्माल्लोके विपरिणीतौ कालप्रभेदेन अन्योऽन्यस्थानं
प्राप्तौ पूर्वाह्णे दक्षिणतो युक्तमनड्वाहं विमुच्य मध्याह्ने तत्स्थाने उत्तरतोऽवस्थिते
युक्ते तत्स्थानेऽपि दक्षिणतः स्थिते युक्ते सति उभावपि वहीयांसौ वोढृतरी
1 M. adds अपि वा after एता०; J विच्छिन्न० for विभिन्न०;
M. adds एकैकस्य after अन्योन्यस्यै; M. adds अध्यायन् after लोकम् .
2. RI एनां विपरिमाणं, KT एनामपि भक्तिपरिमाणः for एनाः
विभक्तिपरिणामः.
6. MK. प्रथमस्य for प्रथम० ; J. om. द्वितीय...च्छन्दस्त्वं च;
MTK व्यूह० for व्यूढ.
11. J. भवन्ति for तं वहन्ति.
12. J. अनेन for एतेन; J नवरात्रस्य for सवनत्रयस्य.
13. RIS. om. प्रसृत०...पूर्वाह्णे; K प्रसूतां M प्रसृत्वं for प्रसृत
च्छन्दस्त्वं; KM. om. स्तुतं भवति । ...दक्षिणतो; J. ०च्छन्दः for ०च्छन्दस्त्वम् .
15. RI प्रातः for दक्षिणतो०; S. om. दक्षिणतो०; S. प्रयुक्तं for युक्ते;
I तत्तत् for तत्; RI उत्तर० for उत्तरतो०.
16. RI. om. अपि; RIK दक्षिण० for दक्षिणतः.

१६६ षड्विंशब्राह्मणम्

भवत इत्यनेनोत्तरयोस्त्रिरात्रयोश्छन्दसां व्यूहनं स्तुतं भवति । यस्मात् नवरात्रस्य
च्छन्दांसि विलक्षणस्थानावस्थितानि तस्मादेव उभयतोदन्तोऽश्वादयः स्यदन्ते
एकतोदद्भ्यो गवादिभ्योऽधिकं गच्छन्तीत्यनेन नवरात्रस्य च्छन्दसां स्थानवैषम्यं
स्तुतं भवतीति वाक्यत्रयस्याप्यर्थवत्ता ॥ ११ ॥
इदानीं प्रकृतिभूते द्वादशाहे परीतो षिञ्चता सुतम् (सा. ५१२)
अभि सोमास आयवः (सा. ५१८) इति साध्यासयोः प्रगाथयोः प्रगाथांशे
प्रग्रथनेन तिसृष्वेकं साम गीयते । अध्यास्यायां द्विपदायामन्यत् । अत्र
व्यूढद्वादशाहे विकृतिभूते न तथा । किं तु अध्यास्यायामयुक्ते चतुरृचे एकमेव
साम गेयमिति दर्शयितुमाह—
तृचे वा अन्य ऋषयो विराजमपश्यन् । वसिष्ठश्च
चतुरृचे ॥ १२ ॥
वसिष्ठाद् अन्ये ऋषयः तृचे ककुबुत्तरतया गीते प्रगाथे विराजम् ।
तत्राद्या बृहती चतुष्पदा। उत्तरे ककुभौ प्रत्येकं त्रिपदे। इत्यनेन प्रकारेणावाप्तदश-
संख्यामपश्यन् । दशाक्षरा विराड् (श.ब्रा. १.१.२२.२; ऐ.ब्रा. ३.४१.४)
इति श्रुतेः । वसिष्ठस्तु — साध्यासे चतुरृचे प्रथमा बृहती षट्त्रिंशदक्षरा
प्रग्रथनेन संपन्ना उत्तरास्तिस्रः ककुभः प्रत्येकमष्टाविंशत्यक्षरा इत्येवं विंशत्युत्तर-
शतमक्षराणि भवन्ति । एवं च द्वादश विराजो भवन्तीत्यक्षर्यां हि विराजम्
अपश्यत् ॥ १२ ॥

  1. J after इत्यनेन adds: उत्तरयोस्त्रिरात्रयोश्छन्दसां व्यूहनं यस्मात् ·
    J. ऋक्छन्दसो for छन्दसां.
  2. J. साध्यास्ययो: for साध्यासयोः.
  3. T. प्रग्रन्थेनेन for प्रग्रथनेन ; J. trans. अन्यद् befoe अध्यास्यायां.
  4. J. अयुक्तं for अयुक्ते.
  5. J. ककुबुत्तरपदतया अतीते for ककुबुत्तरतया गीते
  6. J. ऋचौ for ककुभौ; J पादाङ्गतो for (अ)वाप्त०.
  7. MTK. ०संख्यायां पश्यन् for ०संख्यामपश्यन्.
  8. MK. साध्यास्ये for साध्यासे; J. om. प्रथमा...अनेन (p.137.L.1)
  9. M. om. संपन्ना...अनेन (p.137.L.1)
  10. K. अक्षर्य्यां for अक्षर्यां.
  11. Kl. अपश्यन for अपश्यत् .

भवत्वेवम् । अनेन चतुरृक्चे सामकरणं कथं सिध्यतीत्यत्राह—
न तेन स चतुरृक्चः । यत्तृचेऽन्यत् साम भवति
एकर्चेऽन्यद्यद्भाव । चतसृष्वेकं साम स एव चतुरृक्चः ॥ १३ ॥
तृचेऽन्यत् साम एकर्चे एकस्यामृचि अन्यत् साम भवतीति यत्
तेन स विवक्षितः चतुरृक्चो न भवति । किंतु चतसृषु एव ऋक्षु एकं साम
भवतीति यत् स एवात्र विवक्षितश्चतुरृक्च इति ॥ १३ ॥
यदुक्तं चतुरृक्चे साम गेयमिति तत् प्रशंसति—
साम भूयांसं पोषं पुष्यति । तमनु पोषं पोषुकॊ भवति ॥ १४ ॥
तत्रैव गीयमानं साम भूयांसं पोषं महतीं पुष्टिं पुष्यति प्राप्नोति । तं
साम्नः पोषमनु पश्चात् यजमानः पोषुकः पुष्टिवान् भवतीति ॥ १४ ॥
तदेतदसांप्रदायिकमित्याशङ्क्य श्रुति

एतमेव साम्नः पोषं वयं विद्म जानीम इति यस्मात् तस्माद् वयमप्रति-
गृह्णन्तः कुतोऽपि धनादिप्रतिग्रहनिरपेक्षाः सन्तः सहस्रपोषादपरिमितयाः
पुष्टेर्न च्यवामहै न प्रच्युता भवेम । इतिशब्दो मुञ्जस्य वाक्यसमाप्तिद्योतनार्थः ॥
यथोक्तस्य दार्ढ्यार्थमाचार्यान्तरसंमतिं दर्शयति—
तदु ह स्माह वासिष्ठश्चैकितानेयः । साम ह वै नूनं
भूयांसं पोषं पुष्यति । तमनुपोषं पोषुकॊ भवति ।
विधवाया इव त्वे(इवेत्ये ?) वैतज्जन्म यदसाम्नी चतुर्थी । एवं ह
वा एते विदुरिति । तस्मादेतेषां युवानः श्रोत्रियाः पुरायुषः
प्रमायुका भवन्ति । युवतयो जाया विधवा भवन्ति इति ।
यत्तृचेऽन्यत्साम भवत्येकर्चेऽन्यद्यद्वाव चतसृष्वेकं साम स
एव चतुरृच इति । १६ ॥
वासिष्ठ वसिष्ठगोत्रोत्पन्नश्चैकितानेयो नामतस्तदेवाह स्म । कथम् ? ।
साम ह वै चतुरृचे गीयमानं सामैव नूनम् अवश्यं भूयांसं पोषं पुष्यति ।
तं साम्नः पोषमनु यजमानोऽपि पोषुकॊ भवति । किं च चतुर्थी अध्यास्या
ऋक् असाम्नी तृचाश्रितसामरहितेति यत्, एतत् विधवाया गतभर्तृकाया जन्म

  1. RI om. यस्मात् ; TMISK प्रति० for अप्रति०.
  2. R. गृह्णन्तोऽ० for ०गृह्णन्तः ; J. ऋते

न (with ि on it -> नि)
Wait, does that spell ऽहनि?
YES! ह + नि = हनि!
Wait, look at line 13 again:
उत्तमेऽहनि एकः पशुः आलब्धव्यः ।
YES! "उत्तमेऽहनि एकः पशुः आलब्धव्यः ।"
That makes 100% perfect sense!
In Sanskrit: "उत्तमेऽहनि एकः पशुः आलब्धव्यः" = "On the last day, one animal is to be sacrificed."
And look at footnote 16 again:
16. R. अहनि, T. अन्वये for (अ)ह्नि;
In line 16, MS R had अहनि for (अ)ह्नि. Here in line 13, the main text printed उत्तमेऽहनि!
Wait, let me look at उत्तमेऽहनि:
Is it उत्तमेऽहनि?
Let's re-verify: उ त्त मे ऽ ह नि एकः पशुः आलब्धव्यः ।
Yes! उत्तमेऽहनि!

Now let's check line 14:
`विकल्पेनालभ्यं पशुं दर्शयितुं प्रथम

१४० षड्विंशब्राह्मणम्
यथोक्तमर्थं प्रशंसति—
इन्द्राग्नी वै देवानामोजिष्ठौ ता उ अयातयामानौ
तावेव तद्युनक्ति स्वर्गस्य लोकस्य समष्ट्यै ॥ १८ ॥
देवानां मध्ये इन्द्राग्नी एव ओजिष्ठौ ओजस्वितरौ तावेवायातायामानौ
अप्रतिहतसामर्थ्यौ तत् तस्मात् तावेव युनक्ति यागेन यजमानः स्वर्गस्य
लोकस्य समष्ट्यै प्राप्त्यै ॥ १८ ॥
पक्षान्तरमाह—
सौर्यं ब्रह्मवर्चसकाम आलभेत ॥ १९ ॥
यो ब्रह्मवर्चसकामः स सौर्यं सूर्यदेवत्यं पशुमालभेत ॥ १९ ॥
तत्प्रशंसति—
एतस्यां वा एकादशिन्यामादित्याः सूर्यमजनयन् ।
स तेजो ब्रह्मवर्चसमवरुन्धते । ओजस्वी ब्रह्मवर्चसी
भवति । य एवं वेद ॥ २० ॥
एतस्यां प्रसिद्धायां पशुसंबन्धिन्याम् एकादशिन्यामादित्याः सर्वे सूर्य-
मजनयन् उदपादयन् । स सूर्यः तस्यां तेजः प्रकाशं ब्रह्मवर्चसं चावरुन्ध-
[ते] अदधात् । अतो य एवं वेद स तेजस्वी ब्रह्मवर्चस्वी भवति ॥ २० ॥
कल्पान्तरं दर्शयति—
अथो खल्वाहुराग्नेय एवालम्भ्य इति । अग्निर्वै सर्वा
देवतास्तेन न देवतानां कांचनान्तरेति ॥ २१ ॥

  1. J. स्तौति for प्रशंसति.
  2. RJ om. एव ; K. ओजस्विनौ for ओजस्वितरौ.
  3. R. adds तावेव तद् युनक्ति before अप्रति०.
  4. J. चावरुन्दन्त्य०, T. चावारुद्ध्यत्य०, I. चावारुन्ध० for चावरुन्धते

चतुर्थोऽध्यायः (१) १४१
अथो अथवा ब्रह्मवादिन एवमाहुः । उदयनीयेऽह्नि आग्नेय अग्निदेवत्य
एवालम्भ्यः खलु। यस्मादग्निर्वै अग्निरेव सर्वा देवताः । तत्प्रमुखत्वात् ।
तेन सर्वासां देवतान मन्तरा मध्ये कांचन अन्यां देवतां न कुर्यादिति शेषः ।
इतिशब्दः पक्षान्तराभावद्योतनार्थः । अत एवाह भगवानापस्तम्बः—आग्नेय-
मुदयनीय ऐन्द्राग्नं वा सौर्यं ब्रह्मवर्चसकामः (आ.श्रौ.सू. २१.१४.९-१०)
इति ॥ २१ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥


  1. J. इदानीमन्त्ये० for उदयनीये.
  2. KTS. ०लभ्यः for ०लम्भ्यः ; RK add उत् (उ ?) before खलु;
    M. सर्वदेवात्मकः for सर्वा देवताः.

द्वितीयः खण्डः
इत ऊर्ध्वमनुवाकचतुष्टयेन श्येनादिनामकाश्चत्वार आभिचारयज्ञा
विधीयन्ते । तत्र प्रथमं श्येनयागं विधातुं प्रतिजानीते —
अथैष श्येनः ॥ १ ॥
अथ विकृतिभूतद्यूतद्वादशाहधर्मनिरूपणानन्तरं प्रसङ्गात् एष
वक्ष्यमाणः श्येनः विकृतिभूतः श्येनाख्यो यागो निरूप्यते ॥ १ ॥
एवं प्रतिज्ञाय श्येनयागं विधत्ते —
अभिचरन् यजेत ॥ २ ॥
अभिचरन् भ्रातृव्यहिंसां कर्तुकाम एतेन श्येनेन यजेत श्येननामधेयेन
यागेन भ्रातृव्यहिंसां भावयेदित्यर्थः । ननु भवेदेवं यदि श्येनशब्दः कर्मनामधेयं
स्यात् । न त्वेवम् । पक्षिविशेषेऽत्यन्तरूढत्वात् । अतः ज्योतिष्टोमादौ
गुणविधिः । यद्यपि तत्रोत्पत्तिशिष्टं सोमादिद्रव्यमस्ति, तथापि काम्यत्वाद्
अनेन तस्य बाधः । गोदोहनेनेव चमसस्य । अथवा श्येनविशिष्टं
कर्मान्तरमत्र विधीयते । श्येनवता यजतेति मत्वर्थलक्षणापि श्रेयसी ।
यद्यपि यथा श्येन आददीतेत्यादिवाक्यशेषप्रतिपादितसादृश्येन कर्मणि
गौणी वृत्तिः श्येनशब्दस्य संभवति तथाप्यस्याः अत्यन्तविप्रकृष्टत्वात्
9. RMIS. om. अभिचरन् ; J. om. कर्तुकाम...भ्रातृव्यहिंसां; M.
तेन for एतेन; T. ०कामतोऽनेन for ०काम एतेन.
10. J. om. ननु...०त्ययमेवार्थः; (p. 143 L. 6); M. ०धेयः for ०धेयं.
11. T. विशेषणे, I. विशेष्ये for विशेषे; M. ०त्यन्तं निरूढत्वात् for
०त्यन्तरूढत्वात् K. ०निरूढत्वात् for ०रूढत्वात् .
12. T. द्रष्टव्यम् for ०द्रव्यम् .
13. RIS om. इव.
14. M. after यजतेति । adds. मत्वर्थलक्षणायाः प्रसिद्धत्वात् ।
कल्पना and T. मत्वर्थ लक्षणाप्रसिद्धकल्पन[...] ।
16. R. श्येनस्य for श्येनशब्दस्य ; T. तस्याः for तथाप्यस्या ; K.
०त्यन्तं प्रकृष्टत्वात् for ०त्यन्तविप्रकृष्टत्वात् .

स्वार्थपरित्यागेन श्रुतिर्बाधितव्येति च मत्वर्थलक्षणैव युक्ता । अतः सोमेन
यजेतित्र[स]त्यपि गौरवे गत्यभावाद्दि[शि]ष्टः विधिरेवेति । तदनुपपन्नम् ।
गुणविधिपरत्वे य एव गुणो विधीयते स एव स्तोतव्यः इति श्येनद्रव्य-
विशेषस्यैव स्तुतिः स्यात् न चात्र यथा श्येन आदीतेत्यादिवाक्यशेषे
तस्य स्तुतिः । स्वेनैव स्वस्योपमानेन स्तुतेरयुक्तत्वात् । अतस्तद्व्यपदेशाद्वाक्यशेष-
नैरर्थक्यपरिहाराय विप्रकृष्टार्थेनापि गौण्या वृत्त्या श्येनशब्दः कर्मणि वर्तते ।
अतः स(ग?)तिसंभवे गौरवात् सोमादिवत् विशिष्टविध्यङ्गीकरणमयुक्तम् ।
इत्यलमप्रसङ्गेन । अतः श्येनेनामधेयेन यागेन शत्रुहिंसां भावयेदि-
त्ययमेवार्थः ॥ २ ॥
श्येनशब्दस्य यागे प्रवृत्तिं दर्शयितुं प्रसिद्धश्येनसादृश्येन यागं स्तौति—
श्येनो वै वयसां क्षेपिष्ठः । यथा श्येन आदीतै-
मेवैनमेतेनादत्ते ॥ ३ ॥
वयसां पक्षिणां मध्ये श्येनो वै श्येनाख्यः पक्ष्येव क्षेपिष्ठः क्षिप्रतमः।
किंच यथा श्येनो निपत्य पक्ष्यन्तराणि हन्तुमाददीत स्वीकरोति एवमेवा-
भिचरन् एनं भ्रातृव्यम् एतेन यागेनादत्ते । यद्यप्यादाने यागस्य करणता
प्रतीयते तथापि तदादानस्य हिंसार्थत्वात् भ्रातृव्यहिंसाकरणतैवात्र विधीयते ॥ ३ ॥
तत्र पवमानेषु सश्रंसं त्रिवृत्स्तोमं विधत्ते—
त्रिवृतः पवमाना भवन्ति ॥ ४ ॥
तत् प्रशंसति—
त्रिवृद्वै स्तोमानां क्षेपिष्ठः । यत्त्रिवृद्भवत्याशीय
स्तृणवा इति ॥ ५ ॥


पादटिप्पण्यः (Footnotes):
4. R. नवा० for न चा०
11. M. adds ह before वै.
13. J. om. एव.
16. KLM. ०करणं तेनैव for ०करणतैव.
17. P. प्रशसनं for सश्रंसं; J. विधीयते for विधत्ते.
21. Sh KRIS. ०स्त्रिणवा० for ०स्तृणवा०.

१४४ षड्विंशब्राह्मणम्
यत् यस्मात् स्तोमानां मध्ये त्रिवृत् स्तोम एव क्षेपिष्ठः फलदाने
क्षिप्रतमः तस्मादाशीयः आशुतरः स्तृणवै, —स्तृ हिंसायां—, भ्रातृव्यं
हिनसानीति त्रिवृद् भवति । त्रिवृदेव स्तोमः कार्यः । पवमानान्नान्यः प्राकृतः
पञ्चदशादिस्तोमः कार्य इत्यर्थः ॥ ५ ॥
५ प्रकृतौ विशेषान्तरं विधत्ते—
रथौ हि हविर्धाने भवतः । रथवज्रमेवास्मै तत्
प्रवर्तयति स्तृत्यै ॥ ६ ॥
अत्रत्ये हविर्धाने रथौ भवतः । यथा प्रकृतौ हविर्धाने शकटाकारे, न
तथा । किंतु रथाकारे कुर्यादित्यर्थः । तत् तथा सति अस्मै भ्रातृव्याय रथवज्रं
१० चतुरङ्गे युद्धपरिकरे रथात्मकं हिंसासाधनमेव प्रवर्तयति । स्तृत्यै भ्रातृव्यस्य
हननायेति ॥ ६ ॥
तत्र साम विधत्ते—
वषट्कारणिधनं भवति ॥ ७ ॥
पुनानः सोम धारय (सा. ५११) इत्येतस्यामृचि वषट्कारणिधनं
१५ साम कुर्यादित्यर्थः ॥ ७ ॥
तत्प्रशंसति--
एष वै वज्राणामोजिष्ठो यत्साम वज्रः । यं बहवो
१८ वषट्कुर्वन्ति । तमेवास्मै वज्रं प्रहरति स्तृत्यै ॥ ८ ॥
2. R. त्रि, I तृ for स्तृ.
3. RSK. हिंसाश्रीति for हिनसानीति; J. after भवति adds इति;
M. after कार्यः adds एव; M. स्तोमानां for पवमानात् ; K. प्रकृतः for प्राकृतः.
5. RIS. प्रकृतेः for प्रकृतौ.
9. J om. अर्थः । तत् ; M. वज्रे, K. रथवज्रे for रथवज्रं.
10. J. चतुरं, K. च तुरगे, T. चरतु । रङ्गे for चतुरङ्गे.
12. M. after साम adds ब्रह्म.

चतुर्थोऽध्यायः (२) १४५
• वज्राणां हिंसासाधनानां मध्ये एष वै अयमेव ओजिष्ठः ओजस्वितमः
यत् यः सामात्मको वज्रः । किं च यं वषट्कारं बहवो होत्रादयो
वषट्कुर्वन्ति प्रयुञ्जते । सर्वे निधनमुपयन्ति (द्रा. श्रौ. सू. २. २. १० ?)
इति वचनात् । सोऽपि [तमेव] वज्रमेव उभयात्मकं वज्रमस्मै भ्रातृव्याय
प्रहरति । साम्ना वषट्कारनिधनेनेति शेषः । स्तृत्यै भ्रातृव्यहननायेति ॥ ८ ॥
सप्रशंसं विशेषान्तरमाह—
उभे बृहद्रथन्तरे भवतः उभाभ्यामेवास्मै बृहद्रथन्त-
राभ्यां वज्रं प्रहरति स्तृत्यै ॥ ९ ॥
ब्रह्मसाम बृहत् । रथन्तरं होतुः पृष्ठम् । ते उभे अपि अत्र भवतः ।
ताभ्याम् उभाभ्यां बृहद्रथन्तराभ्याम् एव अस्मै वज्रं हिंसासाधनं प्रहरति
स्तृत्यै तस्येति ॥ ९ ॥
उक्ते बृहद्रथन्तरे पराचीष्वेव कुर्यादिति नियमयति—
पराचीषु रथन्तरं भवति ॥ १० ॥
यथा पृष्ठस्थाने रथन्तरं क्रियते तथा पृष्ठानां त्रिकत्वात् पराचीष्वनभ्य-
स्तासु तिसृषु ऋक्षु रथन्तरं भवति । एतद् बृहतोऽप्युपलक्षणम् । बृहदपि
पराचीष्वेव कुर्यादित्यर्थः ॥ १० ॥
अथोक्तार्थं प्रशंसति—
पराञ्चमेवास्मै वज्रं प्रहरति स्तृत्यै ॥ ११ ॥
तथा सति अस्मै भ्रातृव्याय पराञ्चम् अनावृतं वज्रमेव प्रहरति
तस्य स्तृत्यै ॥ ११ ॥
विशेषमाह—
2. J. अयं for यत् यः; M om. यत् •
5. R. स्मृत्या इति for साम्ना; KM. om. साम्ना...शेषः.
12. MK. निधनमिति for नियमयति.
14. R before यथा adds: यदा पृष्ठस्थाने रथन्तरं भवतीति; RJIS यदा
for यथा; RJIS तदा for तथा.
15. RIS om. तिसृषु; R त्रिषु for तिसृषु; J ग्रहणं for बृहतोऽपि.
16. RIS after कुर्यादित्यर्थः adds:—एतत् त्रिवृतः परिवर्तन्त्यपेक्षया
उक्तमाचार्यैः वस्तुतः पराचीष्वेवाध्ययनादित्यपि द्रष्टव्यम् ।
21. MTISK om. विशेषमाह...बृहत् कुर्यात् • (p. 146 L. 3)
५० 10

१४६ षड्विंशब्राह्मणम्
तस्य रथन्तरं पृष्ठम् । बृहत् ब्रह्मसाम । एष वै
साम वज्रः । तमेवास्मै वज्रं प्रहरति स्तृत्यै ॥ १२ ॥
होतुः पृष्ठं रथन्तरं कुर्यात् । ब्रह्मसाम बृहत् कुर्यात् ॥ १२ ॥
एवं भ्रातृव्यहिंसाकामस्य होतुः पृष्ठं रथन्तरं, ब्रह्मसाम बृहदिति
दर्शयित्वा इदानीं जीवत एव भ्रातृव्यस्य पश्चादिराहित्यम् इच्छतो यजमानस्य
प्रयोगविशेषं दर्शयति—
यं कामयेत क्षीयेतेति तस्य बृहत् पृष्ठं कुर्यात् । रथन्तरं
ब्रह्मसाम । क्षत्रं वै बृहत् । पशवो रथन्तरम् । क्षत्रेणैवास्य
पशून् हन्ति । अपशुर्भवति क्षीयते ॥ १३ ॥
यं भ्रातृव्यं जीवन्तं क्षीयते पश्चादिभिर्हीयेतेति यो यजमानः कामयेत
तस्य होतुः पृष्ठं बृहत् कुर्यात् । ब्रह्मसाम रथन्तरम् । यतः क्षत्रं वीर्यमेव
बृहत् । प्रवृद्धत्वात् । पशव एव रथन्तरम् । कार्यकारणभावात् । तस्मात्
क्षत्रेणैवास्य भ्रातृव्यस्य पशून् हन्ति । तथा सति भ्रातृव्योऽपशुः पशु-
रहितो भवति । अतः क्षीयते अपक्षयं प्राप्नोति ॥ १३ ॥
अथ जीवत एव भ्रातृव्यस्य अप्रतिष्ठाकामस्य यजमानस्य प्रयोगविशेषं
विधत्ते—
यं कामयेत परां परावतामियान्न° प्रतितिष्ठेदिति
पवमाने रथन्तरं कुर्यात् । बृहत् पृष्ठम् । प्लवं ब्रह्मसाम ।
बृहद्रथन्तराभ्यामेवैनमेभ्यो लोकेभ्य उद्धृत्य प्लवेन
प्रप्लावयति । परां परावतमेति । न प्रतितिष्ठति ॥ १४ ॥
3. R om. होतुः...बृहत् कुर्यात् .
5. M. रहितस्य, T. राहित्यस्य for राहित्यम् .
6. J. प्रयोगं for प्रयोगविशेषं.
7. M. यः for यं; J. जीयेतेति for क्षीयेतेति ; RISK om. तस्य.
9. JR. जीयते for क्षीयते.
10. J. जीयेत for क्षीयेते.
12. R. बृद्धत्वात्, J. बृहत्त्वात् for प्रवृद्धत्वात् .
14. RSI. ॰हीनो॰ for ॰रहितो॰.
15. J. प्रयोगं for प्रयोगविशेषं.

चतुर्थोऽध्यायः (२) १४७

यं भ्रातृव्यं परां परावतमतिदूरम् इयात् गच्छेत् न क्वापि
प्रतितिष्ठेदिति यो यजमानः कामयेत तस्य पवमाने रथन्तरं कुर्यात् ।
तदेतदाह द्राह्यायणः — पवमाने रथन्तरं कुर्यादिति बृहत्यां एकर्चानां
स्थाने स्यात् । तद्धि बार्हतानां स्थानम् ( ) इति । अस्यार्थः —
श्येनकल्पे ये बृहत्यामेकर्चाः रौरवमेकस्यां यौधाजयमेकस्यां वषट्-
कारणिधनमेकस्याम् (म. सू. ३.७) इति तेषां स्थाने रथन्तरं कार्यम् । तद्धि
बार्हतानां साम्नां स्थानम् । रथन्तरं च बृहत्यामुत्पन्नमिति । तथा पृष्ठं बृहत्
कुर्यात् । ब्रह्मसाम प्लवं साम कुर्यात् । ततश्च एनं भ्रातृव्यं बृहद्रथन्तराभ्या-
मेव एभ्यो लोकेभ्य उद्धृत्य प्लवेन साम्ना प्रप्लावयति गमयति अप्रतिष्ठं
कुर्यादित्यर्थः । सोऽपि परां परावतम् अतिदूरमेति गच्छति न कचित्
प्रतितिष्ठति ॥ १४ ॥
पुनर्भ्रातृव्यस्य हिंसाकामस्यैव प्रयोगविशेषं दर्शयति —
वार्षाहरे पवमानमुखे भवतः । सफौपगवे नानदं
क्रूराणि सामानि संभरन्ति स्तुत्यै ॥ १५ ॥
पवमानमुखे उक्तयोः माध्यंदिनार्भवयोः पवमानयोः मुखे वार्षाहरे
एतन्नामधेये सामनी भवतः । गायत्रसाम्न ऊर्ध्वं वार्षाहरयोः साम्नोः निवेशः
सर्वत्र । गायत्रस्याप्रच्युतत्वात् । तथा माध्यंदिनपवमाने अर्षो सोम द्युमत्तम


  1. MTIK. इति for अति.
  2. RISM. स्यात् for तस्य; RMISR om. पवमाने...कुर्यात् .
  3. TK. एकार्थानां for एकर्चानाम् .
  4. RIS om. ये; MK. ०कचै for ०कचौः ; J. before वषट्कार० adds: कल्पकारेण क्लृप्ताः पुनानः सोम धारयेति.
  5. J. trans. रौरवमेकस्यां यौधाजयमेकस्यां after ०णिधनमेकस्याम् .
  6. J M. स्थाने for स्थानम् ; R om. बृहत्.
  7. RI after साम कुर्यात् adds इति.
  8. KIS. ०तिष्ठितं for ०तिष्ठं.
  9. RIS om. अति०.
  10. MTIK. संभवन्ति for संभरन्ति.
  11. MRISK om. पवमानमुखे; RIS om. पवमानयोः; M om. उक्तयोः माध्यंदिन.
  12. M after ०धेये adds सामधेये; JMTK om. निवेशः.
  13. KT सर्वकृत्त्वात् , M. सर्वत्र कृतत्वात् for सर्वत्र ; KMT. प्रच्युतत्वात् for गायत्रस्याप्रच्युतत्वात् .

(सा. ५०३) इति एकस्यां गायत्रं परस्यां वार्षाहरम् । आर्भवपवमाने यस्ते
मदो वरेण्यः (सा. ४७०) इति गायत्रवार्षाहरे एकस्यामेवेति कल्पकार-
वचनान्निश्चीयते । तथा सफौपगवे सामनी पवस्व (सा. ४७९) इन्द्र-
मच्छा (सा. ५६६) इत्यनयोः ऋचोः; नानदं—पुरोजिती वो
अन्धसः (सा. ५४५) इत्यस्याम् ऋचीति क्रूराणि शत्रुहिंसाकारीणि
सामानि संभरन्ति उद्गातारः संपादयन्ति । स्तुत्यै भ्रातृव्यस्येति ॥ १५ ॥
अथानुवाकशेषे यूपादीनां श्येनयागे प्राकृतेभ्यो विकारा अभिधीयन्ते ।
तत्र यूपस्य विकारं प्रथमं दर्शयति—
तैल्वको वा बाधको वा यूपः स्फचाग्रः ॥ १६ ॥
तिल्वको नामाप्रक्षीरः कश्चिद् वृक्षविशेषः तद्विकारो वा, बाधको नाम
राजवृक्षः तद्विकारो वा यूपः कर्तव्यः ।

सवनीयपशौ विशेषं दर्शयति—
अग्नये रुद्रवते लोहितः ॥ १८ ॥
यो ह्यग्नये रुद्रवते सवनीयः पशुः स लोहितवर्णो भवेत् ॥ १८ ॥
उपांश्वन्तर्यामग्रहयोः सादने विशेषं दर्शयति —
सादयन्त्युपांश्वन्तर्यामौ ॥ १९ ॥
उपांश्वन्तर्यामाख्यौ ग्रहौ प्रकृतौ होमादनन्तरं सादयन्ति । अत्र
तु न तथा । किं तु होमात् पूर्वं सोमग्रहणानन्तरं सादयन्ति सादनं
कुर्युः ॥ १९ ॥
बर्हिर्विशेषं दर्शयति—
शरमयं बर्हिः शीत्यै ॥ २० ॥
शरः सुषिरदण्डः गुल्मविशेषः तन्मयं बर्हिः कार्यम् । शीत्यै
भ्रातृव्यहिंसार्थम् । शीत्यै इति शरस्तुतिः । उभयोरपि शृणातेर्निष्पन्नतत्वेन
शब्दसामान्यम् ॥ २० ॥
इध्मविशेषं दर्शयति—
वैभीतक इध्मो विभीत्यै ॥ २१ ॥
विभीतकोऽक्षदारुः तद्विकारो वैभीतकः स इध्मः कार्यः विभीत्यै
भ्रातृव्यस्य । अत्रापि शब्दसामान्यात् विभीतकस्तुतिः ॥ २१ ॥
ऋत्विक्षु धर्मविशेषमाह—
लोहितोष्णीषा लोहितवाससो निवीता ऋत्विजः
प्रचरन्ति स्तुत्यै ॥ २२ ॥
येऽत्र ऋत्विजः ते लोहितोष्णीषा लोहितवर्णमुष्णीषं शिरोवेष्टनं येषां
ते तथोक्ताः । तथा लोहितवाससः लोहितं वासः परिधानीयमुत्तरीयं च येषां
11. J. असुर०, M. शर० for सुषिर०.
12. RISK. इति च for स्तुतिः ; MTIK. शृणोतेर् for शृणातेर्.
13. J. ०सामान्यात for सामान्यम् .
15. M. विधुत्यै for विभीत्यै.
22. J. लोहितवर्णानि for लोहितं वासः.

१५० षड्विंशब्राह्मणम्
ते तथोक्ताः । तथा निवीताः कण्ठलम्बितब्रह्मसूत्रोत्तरीयाः सन्तः प्रचरन्ति
कर्म्मानुतिष्ठेयुरित्यर्थः । स्तुत्यै भ्रातृव्यस्येति ॥ २२ ॥
ऋत्विग्दक्षिणायां विशेषमाह—
नवनव दक्षिणा भवन्ति ॥ २३ ॥
नवनवेति वीप्सा । एकैकस्मै ऋत्विजे नववर्गाः दक्षिणा भवन्ति ।
तथा च द्राह्मायणः—नवनव दक्षिणा इति नववर्गान् यथोत्साहं दद्यात्
काणखोरकूटपाण्डानाम् इति । अस्यार्थः—नवकाणान् स एको वर्गः ।
नवखोरान् स एको वर्गः । नवकूटान् सोऽप्येकः । नवपाण्डान् स एकः ।
इत्येतान् वर्गान् यथोत्साहं दद्यादिति ॥ २३ ॥
तत् प्रशंसति—
नावयन्त्येवैनं तत् ॥ २४ ॥
तत् तेन यथोक्तदक्षिणादानेन एनं भ्रातृव्यं नावयन्ति शरीरान्तर-
प्रापणेन नूतनं कुर्वन्त्येवेत्यर्थः । श्येनप्रयोगं सविशेषं कल्पसूत्रकारो
दर्शयामास—पवमानस्य जिघ्नतः (सा. १३१०), पुनानो अक्रमीद-
भि (सा. ४८८), पवमानस्य ते कवे (सा. ६५७), अग्निमूर्धा (सा. २७),
अग्निर्वृत्राणि जङ्घनत् (सा. ४), मित्रं हुवे पूतदक्षम् (सा. ८४७),
उ त्वा मन्दन्तु सोमाः (सा. १९४) ता हुवे ययोरिदम् (सा. ८५३),
अर्षा सोम द्युमत्तमः (सा. ५०३) इति गायत्रमेकस्यां वार्षाहरमेकस्यां
शाकरवर्णमेकस्याम् । पुनानः सोम धारया (सा. ५११) इति वषट्कार-
निधनमेकस्याम्, रौरवमेकस्यां यौधाजयमेकस्याम्, औशनमन्त्यं, रथन्तरं
च वामदेव्यं च बृहच्च कालेयं च । यस्ते मदो वरेण्यः (सा. ४७०) इति
गायत्रवार्षाहरे । पवस्व (सा. ५७८) इन्द्रमच्छ (सा. ५६६) इति
सफौपगवे । पुरोजिती वो अन्धसः (सा. ५४५) इति नानदान्धीगवे ।
5. J om. नव०...द्राह्मायणः.
7. TM. काणात् for काणान्.
8. MT. ॰खोरात् for खोरान् ; MT. कूटात् for कूटान्, MT· for पण्डात् for पाण्डान्.
12. RISK om. यथोक्त.
13. M. नवीनं for नूतनं.