षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 140, कुल 226 में से
संदर्भ में पढ़ें१४० षड्विंशब्राह्मणम्
यथोक्तमर्थं प्रशंसति—
इन्द्राग्नी वै देवानामोजिष्ठौ ता उ अयातयामानौ
तावेव तद्युनक्ति स्वर्गस्य लोकस्य समष्ट्यै ॥ १८ ॥
देवानां मध्ये इन्द्राग्नी एव ओजिष्ठौ ओजस्वितरौ तावेवायातायामानौ
अप्रतिहतसामर्थ्यौ तत् तस्मात् तावेव युनक्ति यागेन यजमानः स्वर्गस्य
लोकस्य समष्ट्यै प्राप्त्यै ॥ १८ ॥
पक्षान्तरमाह—
सौर्यं ब्रह्मवर्चसकाम आलभेत ॥ १९ ॥
यो ब्रह्मवर्चसकामः स सौर्यं सूर्यदेवत्यं पशुमालभेत ॥ १९ ॥
तत्प्रशंसति—
एतस्यां वा एकादशिन्यामादित्याः सूर्यमजनयन् ।
स तेजो ब्रह्मवर्चसमवरुन्धते । ओजस्वी ब्रह्मवर्चसी
भवति । य एवं वेद ॥ २० ॥
एतस्यां प्रसिद्धायां पशुसंबन्धिन्याम् एकादशिन्यामादित्याः सर्वे सूर्य-
मजनयन् उदपादयन् । स सूर्यः तस्यां तेजः प्रकाशं ब्रह्मवर्चसं चावरुन्ध-
[ते] अदधात् । अतो य एवं वेद स तेजस्वी ब्रह्मवर्चस्वी भवति ॥ २० ॥
कल्पान्तरं दर्शयति—
अथो खल्वाहुराग्नेय एवालम्भ्य इति । अग्निर्वै सर्वा
देवतास्तेन न देवतानां कांचनान्तरेति ॥ २१ ॥
- J. स्तौति for प्रशंसति.
- RJ om. एव ; K. ओजस्विनौ for ओजस्वितरौ.
- R. adds तावेव तद् युनक्ति before अप्रति०.
- J. चावरुन्दन्त्य०, T. चावारुद्ध्यत्य०, I. चावारुन्ध० for चावरुन्धते