सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 135, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 135

चतुर्थोऽध्यायः (१) १३५
एता विभिन्नच्छन्दस्का ऋचः अन्योन्यस्यै लोकं व्यूहेन परस्परस्थान-
मभ्यध्यायन् । अधितिष्ठन्त्येव । एनाः विभक्तिपरिणामः । एताभिः परस्परं लोकं
प्राप्ताभिः ऋग्भिः कामम् अभीष्टमेव यजमानो गमयति गच्छति । तस्यैव
विवरणम् । यस्मै कामाय यं कामं प्राप्तुम् एष द्वादशाह आदियते
अनुष्ठीयते तं काममाप्नोति ॥ १० ॥
अथ प्रथमत्रिरात्रस्य प्रसृतच्छन्दस्त्वं द्वितीयतृतीययोर्व्यूढच्छन्दस्त्वं
च स्तौति—
तस्माद्युजौ न सहग्वहतस्तस्माद्विपरिणीतौ वहीयांसौ
भवतस्तस्मादुभयतोदन्तः स्यदन्ते ॥ ११ ॥
अतो यतो यज्ञात्मकस्य रथस्य वाहनस्थानीयानि गायत्र्यादीनि
च्छन्दांसि वैषम्येण तं वहन्ति तस्माद्युजौ विषमबलौ गजाश्वावेकत्र युक्तौ सन्तौ
सहक् समानं न वहत इत्येतेन प्रथमे ऽहनि सवनत्रयस्य यज्ञवहनद्वारा
प्रसृतच्छन्दस्त्वं स्तुतं भवति । यस्माच्छन्दांसि अन्योऽन्यस्थानं प्राप्तान्येव
यज्ञहारीणि वहन्ति । तस्माल्लोके विपरिणीतौ कालप्रभेदेन अन्योऽन्यस्थानं
प्राप्तौ पूर्वाह्णे दक्षिणतो युक्तमनड्वाहं विमुच्य मध्याह्ने तत्स्थाने उत्तरतोऽवस्थिते
युक्ते तत्स्थानेऽपि दक्षिणतः स्थिते युक्ते सति उभावपि वहीयांसौ वोढृतरी
1 M. adds अपि वा after एता०; J विच्छिन्न० for विभिन्न०;
M. adds एकैकस्य after अन्योन्यस्यै; M. adds अध्यायन् after लोकम् .
2. RI एनां विपरिमाणं, KT एनामपि भक्तिपरिमाणः for एनाः
विभक्तिपरिणामः.
6. MK. प्रथमस्य for प्रथम० ; J. om. द्वितीय...च्छन्दस्त्वं च;
MTK व्यूह० for व्यूढ.
11. J. भवन्ति for तं वहन्ति.
12. J. अनेन for एतेन; J नवरात्रस्य for सवनत्रयस्य.
13. RIS. om. प्रसृत०...पूर्वाह्णे; K प्रसूतां M प्रसृत्वं for प्रसृत
च्छन्दस्त्वं; KM. om. स्तुतं भवति । ...दक्षिणतो; J. ०च्छन्दः for ०च्छन्दस्त्वम् .
15. RI प्रातः for दक्षिणतो०; S. om. दक्षिणतो०; S. प्रयुक्तं for युक्ते;
I तत्तत् for तत्; RI उत्तर० for उत्तरतो०.
16. RI. om. अपि; RIK दक्षिण० for दक्षिणतः.