षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 147, कुल 226 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः (२) १४७
यं भ्रातृव्यं परां परावतमतिदूरम् इयात् गच्छेत् न क्वापि
प्रतितिष्ठेदिति यो यजमानः कामयेत तस्य पवमाने रथन्तरं कुर्यात् ।
तदेतदाह द्राह्यायणः — पवमाने रथन्तरं कुर्यादिति बृहत्यां एकर्चानां
स्थाने स्यात् । तद्धि बार्हतानां स्थानम् ( ) इति । अस्यार्थः —
श्येनकल्पे ये बृहत्यामेकर्चाः रौरवमेकस्यां यौधाजयमेकस्यां वषट्-
कारणिधनमेकस्याम् (म. सू. ३.७) इति तेषां स्थाने रथन्तरं कार्यम् । तद्धि
बार्हतानां साम्नां स्थानम् । रथन्तरं च बृहत्यामुत्पन्नमिति । तथा पृष्ठं बृहत्
कुर्यात् । ब्रह्मसाम प्लवं साम कुर्यात् । ततश्च एनं भ्रातृव्यं बृहद्रथन्तराभ्या-
मेव एभ्यो लोकेभ्य उद्धृत्य प्लवेन साम्ना प्रप्लावयति गमयति अप्रतिष्ठं
कुर्यादित्यर्थः । सोऽपि परां परावतम् अतिदूरमेति गच्छति न कचित्
प्रतितिष्ठति ॥ १४ ॥
पुनर्भ्रातृव्यस्य हिंसाकामस्यैव प्रयोगविशेषं दर्शयति —
वार्षाहरे पवमानमुखे भवतः । सफौपगवे नानदं
क्रूराणि सामानि संभरन्ति स्तुत्यै ॥ १५ ॥
पवमानमुखे उक्तयोः माध्यंदिनार्भवयोः पवमानयोः मुखे वार्षाहरे
एतन्नामधेये सामनी भवतः । गायत्रसाम्न ऊर्ध्वं वार्षाहरयोः साम्नोः निवेशः
सर्वत्र । गायत्रस्याप्रच्युतत्वात् । तथा माध्यंदिनपवमाने अर्षो सोम द्युमत्तम
- MTIK. इति for अति.
- RISM. स्यात् for तस्य; RMISR om. पवमाने...कुर्यात् .
- TK. एकार्थानां for एकर्चानाम् .
- RIS om. ये; MK. ०कचै for ०कचौः ; J. before वषट्कार० adds: कल्पकारेण क्लृप्ताः पुनानः सोम धारयेति.
- J. trans. रौरवमेकस्यां यौधाजयमेकस्यां after ०णिधनमेकस्याम् .
- J M. स्थाने for स्थानम् ; R om. बृहत्.
- RI after साम कुर्यात् adds इति.
- KIS. ०तिष्ठितं for ०तिष्ठं.
- RIS om. अति०.
- MTIK. संभवन्ति for संभरन्ति.
- MRISK om. पवमानमुखे; RIS om. पवमानयोः; M om. उक्तयोः माध्यंदिन.
- M after ०धेये adds सामधेये; JMTK om. निवेशः.
- KT सर्वकृत्त्वात् , M. सर्वत्र कृतत्वात् for सर्वत्र ; KMT. प्रच्युतत्वात् for गायत्रस्याप्रच्युतत्वात् .