षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 149, कुल 226 में से
संदर्भ में पढ़ेंसवनीयपशौ विशेषं दर्शयति—
अग्नये रुद्रवते लोहितः ॥ १८ ॥
यो ह्यग्नये रुद्रवते सवनीयः पशुः स लोहितवर्णो भवेत् ॥ १८ ॥
उपांश्वन्तर्यामग्रहयोः सादने विशेषं दर्शयति —
सादयन्त्युपांश्वन्तर्यामौ ॥ १९ ॥
उपांश्वन्तर्यामाख्यौ ग्रहौ प्रकृतौ होमादनन्तरं सादयन्ति । अत्र
तु न तथा । किं तु होमात् पूर्वं सोमग्रहणानन्तरं सादयन्ति सादनं
कुर्युः ॥ १९ ॥
बर्हिर्विशेषं दर्शयति—
शरमयं बर्हिः शीत्यै ॥ २० ॥
शरः सुषिरदण्डः गुल्मविशेषः तन्मयं बर्हिः कार्यम् । शीत्यै
भ्रातृव्यहिंसार्थम् । शीत्यै इति शरस्तुतिः । उभयोरपि शृणातेर्निष्पन्नतत्वेन
शब्दसामान्यम् ॥ २० ॥
इध्मविशेषं दर्शयति—
वैभीतक इध्मो विभीत्यै ॥ २१ ॥
विभीतकोऽक्षदारुः तद्विकारो वैभीतकः स इध्मः कार्यः विभीत्यै
भ्रातृव्यस्य । अत्रापि शब्दसामान्यात् विभीतकस्तुतिः ॥ २१ ॥
ऋत्विक्षु धर्मविशेषमाह—
लोहितोष्णीषा लोहितवाससो निवीता ऋत्विजः
प्रचरन्ति स्तुत्यै ॥ २२ ॥
येऽत्र ऋत्विजः ते लोहितोष्णीषा लोहितवर्णमुष्णीषं शिरोवेष्टनं येषां
ते तथोक्ताः । तथा लोहितवाससः लोहितं वासः परिधानीयमुत्तरीयं च येषां
11. J. असुर०, M. शर० for सुषिर०.
12. RISK. इति च for स्तुतिः ; MTIK. शृणोतेर् for शृणातेर्.
13. J. ०सामान्यात for सामान्यम् .
15. M. विधुत्यै for विभीत्यै.
22. J. लोहितवर्णानि for लोहितं वासः.