षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
DevanagariSanskritpublished226 पृष्ठ
पृष्ठ 136, कुल 226 में से
संदर्भ में पढ़ेंपृष्ठ 136भवत इत्यनेनोत्तरयोस्त्रिरात्रयोश्छन्दसां व्यूहनं स्तुतं भवति । यस्मात् नवरात्रस्य
१६६ षड्विंशब्राह्मणम्
भवत इत्यनेनोत्तरयोस्त्रिरात्रयोश्छन्दसां व्यूहनं स्तुतं भवति । यस्मात् नवरात्रस्य
च्छन्दांसि विलक्षणस्थानावस्थितानि तस्मादेव उभयतोदन्तोऽश्वादयः स्यदन्ते
एकतोदद्भ्यो गवादिभ्योऽधिकं गच्छन्तीत्यनेन नवरात्रस्य च्छन्दसां स्थानवैषम्यं
स्तुतं भवतीति वाक्यत्रयस्याप्यर्थवत्ता ॥ ११ ॥
इदानीं प्रकृतिभूते द्वादशाहे परीतो षिञ्चता सुतम् (सा. ५१२)
अभि सोमास आयवः (सा. ५१८) इति साध्यासयोः प्रगाथयोः प्रगाथांशे
प्रग्रथनेन तिसृष्वेकं साम गीयते । अध्यास्यायां द्विपदायामन्यत् । अत्र
व्यूढद्वादशाहे विकृतिभूते न तथा । किं तु अध्यास्यायामयुक्ते चतुरृचे एकमेव
साम गेयमिति दर्शयितुमाह—
तृचे वा अन्य ऋषयो विराजमपश्यन् । वसिष्ठश्च
चतुरृचे ॥ १२ ॥
वसिष्ठाद् अन्ये ऋषयः तृचे ककुबुत्तरतया गीते प्रगाथे विराजम् ।
तत्राद्या बृहती चतुष्पदा। उत्तरे ककुभौ प्रत्येकं त्रिपदे। इत्यनेन प्रकारेणावाप्तदश-
संख्यामपश्यन् । दशाक्षरा विराड् (श.ब्रा. १.१.२२.२; ऐ.ब्रा. ३.४१.४)
इति श्रुतेः । वसिष्ठस्तु — साध्यासे चतुरृचे प्रथमा बृहती षट्त्रिंशदक्षरा
प्रग्रथनेन संपन्ना उत्तरास्तिस्रः ककुभः प्रत्येकमष्टाविंशत्यक्षरा इत्येवं विंशत्युत्तर-
शतमक्षराणि भवन्ति । एवं च द्वादश विराजो भवन्तीत्यक्षर्यां हि विराजम्
अपश्यत् ॥ १२ ॥
- J after इत्यनेन adds: उत्तरयोस्त्रिरात्रयोश्छन्दसां व्यूहनं यस्मात् ·
J. ऋक्छन्दसो for छन्दसां. - J. साध्यास्ययो: for साध्यासयोः.
- T. प्रग्रन्थेनेन for प्रग्रथनेन ; J. trans. अन्यद् befoe अध्यास्यायां.
- J. अयुक्तं for अयुक्ते.
- J. ककुबुत्तरपदतया अतीते for ककुबुत्तरतया गीते
- J. ऋचौ for ककुभौ; J पादाङ्गतो for (अ)वाप्त०.
- MTK. ०संख्यायां पश्यन् for ०संख्यामपश्यन्.
- MK. साध्यास्ये for साध्यासे; J. om. प्रथमा...अनेन (p.137.L.1)
- M. om. संपन्ना...अनेन (p.137.L.1)
- K. अक्षर्य्यां for अक्षर्यां.
- Kl. अपश्यन for अपश्यत् .