षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 144, कुल 226 में से
संदर्भ में पढ़ें१४४ षड्विंशब्राह्मणम्
यत् यस्मात् स्तोमानां मध्ये त्रिवृत् स्तोम एव क्षेपिष्ठः फलदाने
क्षिप्रतमः तस्मादाशीयः आशुतरः स्तृणवै, —स्तृ हिंसायां—, भ्रातृव्यं
हिनसानीति त्रिवृद् भवति । त्रिवृदेव स्तोमः कार्यः । पवमानान्नान्यः प्राकृतः
पञ्चदशादिस्तोमः कार्य इत्यर्थः ॥ ५ ॥
५ प्रकृतौ विशेषान्तरं विधत्ते—
रथौ हि हविर्धाने भवतः । रथवज्रमेवास्मै तत्
प्रवर्तयति स्तृत्यै ॥ ६ ॥
अत्रत्ये हविर्धाने रथौ भवतः । यथा प्रकृतौ हविर्धाने शकटाकारे, न
तथा । किंतु रथाकारे कुर्यादित्यर्थः । तत् तथा सति अस्मै भ्रातृव्याय रथवज्रं
१० चतुरङ्गे युद्धपरिकरे रथात्मकं हिंसासाधनमेव प्रवर्तयति । स्तृत्यै भ्रातृव्यस्य
हननायेति ॥ ६ ॥
तत्र साम विधत्ते—
वषट्कारणिधनं भवति ॥ ७ ॥
पुनानः सोम धारय (सा. ५११) इत्येतस्यामृचि वषट्कारणिधनं
१५ साम कुर्यादित्यर्थः ॥ ७ ॥
तत्प्रशंसति--
एष वै वज्राणामोजिष्ठो यत्साम वज्रः । यं बहवो
१८ वषट्कुर्वन्ति । तमेवास्मै वज्रं प्रहरति स्तृत्यै ॥ ८ ॥
2. R. त्रि, I तृ for स्तृ.
3. RSK. हिंसाश्रीति for हिनसानीति; J. after भवति adds इति;
M. after कार्यः adds एव; M. स्तोमानां for पवमानात् ; K. प्रकृतः for प्राकृतः.
5. RIS. प्रकृतेः for प्रकृतौ.
9. J om. अर्थः । तत् ; M. वज्रे, K. रथवज्रे for रथवज्रं.
10. J. चतुरं, K. च तुरगे, T. चरतु । रङ्गे for चतुरङ्गे.
12. M. after साम adds ब्रह्म.