सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 145, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 145

चतुर्थोऽध्यायः (२) १४५
• वज्राणां हिंसासाधनानां मध्ये एष वै अयमेव ओजिष्ठः ओजस्वितमः
यत् यः सामात्मको वज्रः । किं च यं वषट्कारं बहवो होत्रादयो
वषट्कुर्वन्ति प्रयुञ्जते । सर्वे निधनमुपयन्ति (द्रा. श्रौ. सू. २. २. १० ?)
इति वचनात् । सोऽपि [तमेव] वज्रमेव उभयात्मकं वज्रमस्मै भ्रातृव्याय
प्रहरति । साम्ना वषट्कारनिधनेनेति शेषः । स्तृत्यै भ्रातृव्यहननायेति ॥ ८ ॥
सप्रशंसं विशेषान्तरमाह—
उभे बृहद्रथन्तरे भवतः उभाभ्यामेवास्मै बृहद्रथन्त-
राभ्यां वज्रं प्रहरति स्तृत्यै ॥ ९ ॥
ब्रह्मसाम बृहत् । रथन्तरं होतुः पृष्ठम् । ते उभे अपि अत्र भवतः ।
ताभ्याम् उभाभ्यां बृहद्रथन्तराभ्याम् एव अस्मै वज्रं हिंसासाधनं प्रहरति
स्तृत्यै तस्येति ॥ ९ ॥
उक्ते बृहद्रथन्तरे पराचीष्वेव कुर्यादिति नियमयति—
पराचीषु रथन्तरं भवति ॥ १० ॥
यथा पृष्ठस्थाने रथन्तरं क्रियते तथा पृष्ठानां त्रिकत्वात् पराचीष्वनभ्य-
स्तासु तिसृषु ऋक्षु रथन्तरं भवति । एतद् बृहतोऽप्युपलक्षणम् । बृहदपि
पराचीष्वेव कुर्यादित्यर्थः ॥ १० ॥
अथोक्तार्थं प्रशंसति—
पराञ्चमेवास्मै वज्रं प्रहरति स्तृत्यै ॥ ११ ॥
तथा सति अस्मै भ्रातृव्याय पराञ्चम् अनावृतं वज्रमेव प्रहरति
तस्य स्तृत्यै ॥ ११ ॥
विशेषमाह—
2. J. अयं for यत् यः; M om. यत् •
5. R. स्मृत्या इति for साम्ना; KM. om. साम्ना...शेषः.
12. MK. निधनमिति for नियमयति.
14. R before यथा adds: यदा पृष्ठस्थाने रथन्तरं भवतीति; RJIS यदा
for यथा; RJIS तदा for तथा.
15. RIS om. तिसृषु; R त्रिषु for तिसृषु; J ग्रहणं for बृहतोऽपि.
16. RIS after कुर्यादित्यर्थः adds:—एतत् त्रिवृतः परिवर्तन्त्यपेक्षया
उक्तमाचार्यैः वस्तुतः पराचीष्वेवाध्ययनादित्यपि द्रष्टव्यम् ।
21. MTISK om. विशेषमाह...बृहत् कुर्यात् • (p. 146 L. 3)
५० 10