षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 134, कुल 226 में से
संदर्भ में पढ़ें१३४ षड्विंशब्राह्मणम्
त्रिष्टुप्छन्दस्काः प्रतिपद्यन्ते प्रारभ्यन्ते आभिः ऋग्भिरिति प्रतिपद् आद्या
भवन्ति । तत्र बहिष्पवमानानाम् आज्यगणानां गायत्रीणां स्थाने त्रिष्टुभो
भवन्तीत्यर्थः । त्रिष्टुभां लोके स्थाने माध्यंदिनपवमानान्तेषु जगत्यो भवन्ति ।
जगतीनां लोके आर्भवपवमानान्तेषु गायत्र्यो भवन्ति । तेनैव छन्दोव्यूहेन
सोऽयं द्वितीयत्रिरात्रोऽयातयामा ॥ ८ ॥
अथ तृतीयत्रिरात्रस्यापि च्छन्दोव्यूहेनायातयामत्वं दर्शयति—
अथोत्त॒मस्य॒ च्छन्दाँ॑सि॒ व्येवो॑हन्ति । जग॑त्यः
प्र॒तिपदो॑ भवन्ति । जग॑तीनां लो॒के त्रि॒ष्टुभः॑ । त्रि॒ष्टुभां
गा॑य॒त्र्यः॑ । तेनो॑ ए॒व सोऽया॑तयामा ॥ ९ ॥
अथ उत्तमस्य तृतीयत्रिरात्रस्य च्छन्दांसि व्यूहन्त्येव । कथम् ? तत्र
बहिष्पवमानाज्येषु जगत्यः प्रतिपदो भवन्ति । जगतीनां स्थाने त्रिष्टुभो
भवन्ति । त्रिष्टुभां स्थाने गायत्र्यः तेनैव च सोऽयं तृतीयत्रिरात्रोऽयातयामा
भवेदिति ॥ ९ ॥
यथोक्तमर्थं स्तौति—
अपि॑ वा ए॒ता अ॒न्यो॒न्यस्यै॑ लो॒कम॒भ्यध्या॑यन् ।
काम॑मेवैना गमयति । आप्नो॑ति॒ तं कामं॒ यस्मै॒ कामा॒यैष
आ॒ह्रियते॑ ॥ १० ॥
- J. adds ऋचः before प्रति०; RISK. om. प्रारभ्यन्ते ; MTISK
om. ऋग्भिः; J om. इति. - RIS अत्र for तत्र; J. आज्यानां च तद्गतानां for आज्यगणानाम्.
- J. om. लोके; J. स्थानेषु for स्थाने.
- TK. अजगतीनां for जगतीनां; J. स्थाने आर्भवान्ते for लोके
आर्भवपवमानान्तेषु ; J adds इति after भवन्ति. - K. om. द्वितीयत्रिरात्रः.
- KJT. व्यूहत्वेन for व्यूहेन.
- Sh Ms. त्रिष्टुभः प्रतिपदो भवन्ति । त्रिष्टुभां लोके जगतीनां for
जगत्यः...०त्रिष्टुभां. - M. adds एतत् before कथम्.
- MJTRIS. अभि for अपि.