षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 142, कुल 226 में से
संदर्भ में पढ़ेंद्वितीयः खण्डः
इत ऊर्ध्वमनुवाकचतुष्टयेन श्येनादिनामकाश्चत्वार आभिचारयज्ञा
विधीयन्ते । तत्र प्रथमं श्येनयागं विधातुं प्रतिजानीते —
अथैष श्येनः ॥ १ ॥
अथ विकृतिभूतद्यूतद्वादशाहधर्मनिरूपणानन्तरं प्रसङ्गात् एष
वक्ष्यमाणः श्येनः विकृतिभूतः श्येनाख्यो यागो निरूप्यते ॥ १ ॥
एवं प्रतिज्ञाय श्येनयागं विधत्ते —
अभिचरन् यजेत ॥ २ ॥
अभिचरन् भ्रातृव्यहिंसां कर्तुकाम एतेन श्येनेन यजेत श्येननामधेयेन
यागेन भ्रातृव्यहिंसां भावयेदित्यर्थः । ननु भवेदेवं यदि श्येनशब्दः कर्मनामधेयं
स्यात् । न त्वेवम् । पक्षिविशेषेऽत्यन्तरूढत्वात् । अतः ज्योतिष्टोमादौ
गुणविधिः । यद्यपि तत्रोत्पत्तिशिष्टं सोमादिद्रव्यमस्ति, तथापि काम्यत्वाद्
अनेन तस्य बाधः । गोदोहनेनेव चमसस्य । अथवा श्येनविशिष्टं
कर्मान्तरमत्र विधीयते । श्येनवता यजतेति मत्वर्थलक्षणापि श्रेयसी ।
यद्यपि यथा श्येन आददीतेत्यादिवाक्यशेषप्रतिपादितसादृश्येन कर्मणि
गौणी वृत्तिः श्येनशब्दस्य संभवति तथाप्यस्याः अत्यन्तविप्रकृष्टत्वात्
9. RMIS. om. अभिचरन् ; J. om. कर्तुकाम...भ्रातृव्यहिंसां; M.
तेन for एतेन; T. ०कामतोऽनेन for ०काम एतेन.
10. J. om. ननु...०त्ययमेवार्थः; (p. 143 L. 6); M. ०धेयः for ०धेयं.
11. T. विशेषणे, I. विशेष्ये for विशेषे; M. ०त्यन्तं निरूढत्वात् for
०त्यन्तरूढत्वात् K. ०निरूढत्वात् for ०रूढत्वात् .
12. T. द्रष्टव्यम् for ०द्रव्यम् .
13. RIS om. इव.
14. M. after यजतेति । adds. मत्वर्थलक्षणायाः प्रसिद्धत्वात् ।
कल्पना and T. मत्वर्थ लक्षणाप्रसिद्धकल्पन[...] ।
16. R. श्येनस्य for श्येनशब्दस्य ; T. तस्याः for तथाप्यस्या ; K.
०त्यन्तं प्रकृष्टत्वात् for ०त्यन्तविप्रकृष्टत्वात् .