षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 138, कुल 226 में से
संदर्भ में पढ़ेंएतमेव साम्नः पोषं वयं विद्म जानीम इति यस्मात् तस्माद् वयमप्रति-
गृह्णन्तः कुतोऽपि धनादिप्रतिग्रहनिरपेक्षाः सन्तः सहस्रपोषादपरिमितयाः
पुष्टेर्न च्यवामहै न प्रच्युता भवेम । इतिशब्दो मुञ्जस्य वाक्यसमाप्तिद्योतनार्थः ॥
यथोक्तस्य दार्ढ्यार्थमाचार्यान्तरसंमतिं दर्शयति—
तदु ह स्माह वासिष्ठश्चैकितानेयः । साम ह वै नूनं
भूयांसं पोषं पुष्यति । तमनुपोषं पोषुकॊ भवति ।
विधवाया इव त्वे(इवेत्ये ?) वैतज्जन्म यदसाम्नी चतुर्थी । एवं ह
वा एते विदुरिति । तस्मादेतेषां युवानः श्रोत्रियाः पुरायुषः
प्रमायुका भवन्ति । युवतयो जाया विधवा भवन्ति इति ।
यत्तृचेऽन्यत्साम भवत्येकर्चेऽन्यद्यद्वाव चतसृष्वेकं साम स
एव चतुरृच इति । १६ ॥
वासिष्ठ वसिष्ठगोत्रोत्पन्नश्चैकितानेयो नामतस्तदेवाह स्म । कथम् ? ।
साम ह वै चतुरृचे गीयमानं सामैव नूनम् अवश्यं भूयांसं पोषं पुष्यति ।
तं साम्नः पोषमनु यजमानोऽपि पोषुकॊ भवति । किं च चतुर्थी अध्यास्या
ऋक् असाम्नी तृचाश्रितसामरहितेति यत्, एतत् विधवाया गतभर्तृकाया जन्म
- RI om. यस्मात् ; TMISK प्रति० for अप्रति०.
- R. गृह्णन्तोऽ० for ०गृह्णन्तः ; J. ऋते