सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

97
करेणुवदनाकारं वदने दोषवर्जितम् ।
शृङ्गतन्माहिषं स्निग्धं श्लक्ष्णं सुघटितं कृतम् ॥ ५७५ ॥
विशेषस्त्वन्यतोज्ञेयो वाद्यं गोपालकेलिषु ।
निर्दोषस्योत्खातनाभेः शंखस्यै कादशाङ्गुलम् ॥ ५७६ ॥
शिखरं निर्मितं धातुसिक्थकाभ्यां मनोरमम् ।
रंध्र मर्धाङ्गुलमितं शिखरस्य मुखेभवेत् ॥ ५७७ ॥
अन्तेतु माषमात्रं स्यात् शंखमेवंविधंसुधीः ।
धृत्वा कर्कटहस्तेन भूरिश्वासभृतोदरम् ।
हुंभुं भोंद्गिद्गित्येतद्वर्णान् शंखेन योजयेत् ॥ ५७८ ॥
(570—578) The other wind instruments— (1) Murali
(2) Madhukari (3) Kahala, (4) Sringa, (5) Sankha,
(சு 570—578) மற்ற துளைக்கருவிகள்— (1) முரளீ, (2)
மதுகரீ, (3) காஹளம், (4) ச்ருங்கம், (5) சங்கு.
मार्गदेशीगतत्वेन पटहो द्विविधोभवेत् ।
निर्माण कथनन्तस्य ज्ञातृत्वे नोपयुज्यते ॥ ५७९ ॥
तदुपेक्ष्य ततः पाटाः कथ्यन्ते तत्तदुद्भवाः ।
हस्तोद्भवास्त एवात्र हस्तपाटाः प्रकीर्तिताः ॥ ५८० ॥
सद्योजातादिपञ्चभ्यः मुखेभ्यः पार्वतीपतेः ।
नागबंधादयोजाताः तस्मान्मुख्याः प्रकीर्तिताः ॥ ५८१ ॥
13

98
अष्टाशीतिरिमे हस्तपाटाः शास्त्रे प्रकीर्तिताः :—
१. वनगिनगिननगि ५. खिरिट
२. दुगिडदगिथदथों ६. खिरि खिरि
३. गिडगिधादधै ७. नरकि थरकि
४. किटतत — इति अघोरोद्भवाः
५. नदनु १. दरगिड गिडगिरा
६. खिरंतकिट २. टकुटड्ड
७. थोंगि थोंगि ३. नन गिन खरि खिरि
— इति सद्योजातोद्भवाः ४. दखें खें
१. ततकिट ५. थोंगिनगि थोंगिनगि
२. थोहन्ता ६. तत्ता
३. थोंगिन थोंथोंगिन ७. धि धि
४. थोंथों गोंगों — इति तत्पुरुषोद्भवाः
५. थों गिणतत्ता १. तडे नझें झें
६. किट थोंथों गिनखेंखें २. तिरिखु तिरिखु
७. टकुडेंडें ३. कणकणकि
— इति वामदेवोद्भवाः ४. धिधिकिटकि
१. नन गिड गिड दगिदा- ५. दिगि नगि
२. दथरिकि दथरिकि ६. थरकट
३. त कि धि कि ७. धों न कट
४. ट ग नु खु — इति ईशानोद्भवाः¹

  1. मातृकासु पाटाक्षरपाठभेदाः बहवः सन्ति तेषां मतभेदान् क्रोडीकृत्य
    अयं पाठः उद्धृतः । अपिच अयं पाठः संगीतरत्नाकरस्थात् पाठात् कचित्
    भिद्यते

99
अत्रान्ये हस्तपाटास्तु ज्ञेयाग्रंथान्तराद्बुधैः¹ ॥ ५८२ ॥
( 580—583 et seq: ) The 35 original 'hastapatas' that
were born from the five faces of Lord Siva.
(சு-580—583ம், பிந்திய உரை நடையும்) ஆதியில் பரமசிவ
னுடைய ஐந்து முகங்களினின்றும் பிறந்த 35-ஹஸ்த பாடங்கள்.
वाद्यप्रबंधाः कथ्यन्ते पाटाक्षर विनिर्मिताः
येषूद्ग्राहादिकं सर्वं ज्ञेयं गीत प्रबंधवत् ॥ ५८३ ॥
यति रोताच गजरो रिगोणी कवितं पदम् ।
मेलापक श्चोपशमोद्ग्राहप्रहरणा न्यथ ॥ ५८४ ॥
अवत्सकश्छंडणश्च तुड्डुका मलपं ततः ।
इत्यादयोऽवपाठान्ताः त्रिचत्वारिंशदीरिताः ॥ ५८५ ॥
तेषांलक्ष्यस्वरूपञ्च मर्दलादिषुवादनम् ।
ज्ञेयंतदन्यतोलोके कथ्यतेमोहराख्यया ॥ ५८६ ॥
इति वाद्यप्रबंधाः ।
(584—587) The 43 Vadya Prabhandas or compositions
made up of hastapatas.
(சு-584—587) ஹஸ்த பாடங்களின் சேர்க்கையால் உண்டா
கும் 43 விதமான வாத்ய பிரபந்தங்கள்.
1 आनन्दाश्रम मुद्रणालये प्रकाशिते संगीतरत्नाकरे षष्ठे वाद्याध्याये
570 to 577 पुटानि द्रष्टव्यानि यत्र अष्टाशीति हस्तपाटलक्षणंतत्तदु-
त्पादनप्रकारेण सह विवृतम् ।

100
अथ मर्दललक्षणम्
निर्दोषबीजवृक्षोत्थः मर्दलः परिकीर्तितः ।
रक्तचन्दनजोयद्वा खादिरोऽन्यैरयं मतः ॥ ५८७ ॥
विनिर्माणप्रकारोऽस्य पाटोत्पत्तिरतोयथा ।
वादकश्चरसादिस्तुज्ञेयं ग्रंथान्तराद्बुधैः¹ ॥ ५८८ ॥
(588—589) 'Mardala' (mirdanga) and its make.
(சு-588—589) மிருதங்க லக்ஷணம்.
अथ मार्दलिकलक्षणम्
चतुर्विधोमार्दलिकः वादकोमुखरीतथा ।
ततः प्रतिमुख्याख्यः तुर्योगीतानुगोमतः ॥ ५८९ ॥
वादकः (स्या) च्छुल्लवट्पर्यायः कथितोबुधैः ।

  1. मृदङ्गलक्षणस्य पाठान्तरमपि 11499-11500 अङ्कित मातृ-
    कयोः वाद्याध्यायारंभात्प्राक् वर्तते तद्यथा :—
    अनीरतीर जातस्य रक्तचन्दनकस्यथ ।
    खादिरस्य शिरीषस्य बीजवृक्षस्य वापुनः ॥ १ ॥
    ग्रंथिव्रण विहीनस्य सुपक्वस्य समस्य च ।
    मृदङ्गो घट्यते लक्ष्यवेदिना च मृदङ्गिणा ॥ २ ॥
    हरीतक्याकृतिः सम्यक् सदृशञ्चसचिक्कणत् ।
    चतुस्तालस्त्वसौदैर्घ्ये पिण्डेत्वङ्गुलसंमितः ॥ ३ ॥
    एकादशांगुलमितं कर्तव्यं दक्षिणेमुखम् ।
    वदनं वामतः किन्तु द्वादशाङ्गुलसंमितम् ॥ ४ ॥

101
मुखरी प्रेति मुखरी पर्यायोऽभार¹उच्यते ॥ ५९० ॥
गीतानुगस्यपर्यायः डव²ण इति कथ्यते ।
तत्र वादक शुद्धवट्ट लक्षणम् ।
वादको वादकर्तास्यात् वादः पक्षपरिग्रहः ॥ ५९१ ॥
छागस्यारोगिणः कृत्त्वा पारिजाठरचर्मणः ।
अतिस्वच्छतराः शुद्धाः विधेयावर्तुलास्तुषट् ॥ ५ ॥
निक्षिप्यपारिकास्तास्तु किंचिदुष्णजलेपुनः ।
कराभ्यां मर्दयेत्तज्ज्ञः कोमलं मलवर्जितम् ॥ ६ ॥
तिस्रस्तिस्रः पारिकास्तु प्रत्येकंवदनेन्यसेत् ।
तन्त्रद्वे महिषीचर्म कषमल्लसिताभिदा ॥ ७ ॥
तेहृत्य (त्वा) द्विगुणीकृत्य वेणिवन्मेलयेद्दृढम् ।
एवं जलधरध्वानगंभीरो भवतिध्वनिः ॥ ८ ॥
कांस्य ताले ......................।
धं भौ धां धां धलां मेयां डमं डमरुकेततः ॥ ९ ॥
रुञ्जौ रुंधु च ढक्कायां डकुल्यां तु चकंबुरे (?) ।
धुंकारमथतुंबक्यां धडिनिस्साणकेधडाम् ॥ १० ॥
सल्लोकेपि त्रिघ ल्यां धौं घनतालेतकस्ततः ।
करटायान्तु डेमेवं प्रधांनाक्षरयोजना ॥ ११ ॥
शेषाः साधारणाः पाटाः सर्ववाद्येयथोचिताः ।
तेचानन्त्यान्नशक्यन्ते प्रत्येकं वेदितुंबुधैः ॥ १२ ॥

  1. ‘पर्यायो भारः’ इति वा पाठः
  2. ‘श्रवण’ इति वापाठः

102
स्वपक्षसाधने तद्वत् परपक्षस्यदूषणम्
वादेषु वादनं कार्यं प्रथमंत्रो³टनाभिधम् ॥ ५९२ ॥
मर्दलंतोलसहितं वोहणेन विना ध्वनिः ।
(यो देहडडगित्यादि कृतोऽसौ लाटनं मतं⁴) ॥ ५९३ ॥
⁵चच्चत्पुटादितालैस्तु मार्गषट्केनयोजितः ।
कर्तरीसहितो यत्र वादकस्सतु कथ्यते ॥ ५९४ ॥
इति वादकशुद्धवटुलक्षणम्
शब्दप्रबंधान् सततं वादयेत्तालसंयुतान् ।
बोहणेन विना तल मुखर्यादिकमुच्यते ॥ ५९५ ॥
सएव भारसंज्ञो हि कथ्यतेतुविचक्षणैः
इति मुखरीप्रतिमुखरीभारलक्षणम्
मेलापकं तथा चाली नियमंवा यथाक्रमम् ।
विचित्रशब्दकैन्यासं कालमानयुतञ्चतत् ॥ ५९६ ॥
बोहणेन समायुक्तं रञ्जकं सर्वसौख्यदम् ।
शुद्धसालगसंकीर्ण

103
गीतानुगमिति प्रोक्तं डवणादिकेचन ।
इति गीतानुगडवणालक्ष्म
इति चतुर्विध मार्दलिक लक्षणम्¹
(589—598) The four types of playing on Mardala
(Mridanga)
(சு-589 to 591) மத்தளம் வாசிப்பதில் நான்குவகை.

  1. मार्दलिकलक्षणस्य पाठान्तरमपि 11499—11500—अङ्कित-
    मातृकयोः दृश्यते—तद्यथाः—
    ध्वनिमेलविदा पाटतालादि गुणवेदिना ।
    मृदंगोवायतेयेन समृद्धंगीतिगीयते ॥ १ ॥
    हस्तपाटप्रकारज्ञः गीतवादनकोविदः ।
    यतिताललयाभिज्ञः पाटज्ञः पञ्चसङ्गवित् ॥ २ ॥
    दशहस्तगुणोपेतः पात्रा (गात्र) भिप्रेतवादकः ।
    वाद्येसमप्रभेदज्ञः रूपरेखान्वितस्तथा ॥ ३ ॥
    उद्घुष्टनपटु स्सर्वं वाद्यभेदविवेचकः ।
    (उत्फुल्लनवमः इति 11499—मातृकायाम्)
    नादवृद्धिक्षयापत्तिकोविदः प्रतिभापटुः ॥ ४ ॥
    गुणाभार्दंगिकस्यैते दोषःस्यात्तद्विपर्ययः ।
    अतालज्ञ मरक्तिज्ञ मशास्त्रंचैववादकम् ॥ ५ ॥
    परित्यजन्तुविद्वांसः कोमलं (केवलं) चर्मघातकम् ।
    (1—5) The qualifications of a player in Mridanga
    (சு-1—5) மிருதங்கம் வாசிப்பவரின் லக்ஷணங்கள்.
    अथ सञ्चलक्षणम्

104
स्कंधकूर्परयोस्तद्वत् अंगुष्ठमणिबंधयोः ॥ ६ ॥
वामस्य चरणस्यापि कंपः सञ्चोऽभिधीयते ।
श्रेष्ठोमार्दंगिकस्सञ्चात् अंगुष्ठमणिबंधयोः ॥ ७ ॥
सञ्चाभ्यां मणिबंधाभ्यां कूर्पराभ्यांचमध्यमः ।
स्कंधकूर्परसञ्चस्तु नीचोमार्दंगिकोभवेत् ॥ ८ ॥
वामांध्रिसञ्चतः श्रेष्ठः सदा मार्दंगिकोभवेत् ।
एतदुक्तविपर्यासात् वरोहौडुक्किकोमतः ॥ ९ ॥
(6 to 9) The parts of the arm and left leg which
move when the performer plays in the Mridangam:—
(1) The shoulder joint (2) The elbw joint (3) The wrist
(4) the thumb and (5) the left foot. The best player
moves only the last three.
(சு-6—9) மிருதங்கம் வாசிக்கும்போது அசைகின்ற ஐந்து
உறுப்புகள்:— (1) தோள் (2) முழங்கை (3) மணிக்கட்டு (4)
பெருவிரல் (5) இடதுபாதம், உத்தம வாத்யங்காரரிடம் கடைசி
3 உறுப்புகளே அசையும்
अथ हस्तगुणाः
पञ्चानुगौ दृढौ व्यक्तौ स्निग्धौ दृढनखौ लघू ।
विधेयाङ्गुलिसञ्चारौस्वेदहीनौ जितश्रमौ ॥ १० ॥
युक्तप्रहारौ च करौ प्रोक्तौ दशगुणाविति ।
(10) The ten good features of a Mridangi's hand.
(சு-10) மிருதங்கம் வாசிப்பவருடைய ஹஸ்த குணங்கள் 10.
अथ पाटलक्षणम्
पाटो वाद्योद्भवश्शब्दः (स्वरैः षोडशभिर्युतः) ।
'ङ' वर्जितः कवर्गश्च 'ट' 'त' वर्गौ 'र' 'हो' मतौ (यलौ) ॥ ११ ॥

105
झघावितिचवर्णानां विंशतिः पाटसंज्ञकाः ।
हस्तोद्भवाः पाटभेदाः हस्तपाटाः प्रकीर्तिताः ॥ १२ ॥
(11—12) The twenty consonants which in conjunc-
tion with the sixteen vowels are produced in Mridanga
and other leather - covered instruments.
(சு-11-12) மிருதங்கம் முதலிய தோற்கருவிகளில் பேசும்
'பாடங்கள்' என்னும் சப்தங்களின் விவரம்:—16 உயிரெழுத்துக்
களுடன் சேர்ந்த 20 மெய்யெழுத்துக்கள்.
तत एव हुडुक्कादिवाद्यस्यापिच लक्षणम् ।
तथा निस्साणभेर्यादिलक्षणं ज्ञेयमन्यतः ॥ ॥ ५९८ ॥
गुणदोषाश्च काष्ठस्य चर्मणश्च तथैवते ।
कांस्यादि निर्मितं वाद्यं 'घन' मित्यभिधीयते ॥ ५९९ ॥
गृहीत्वा शुद्धकांस्यंतत् पूर्वमग्नौ विशोधयेत् ।
तालद्वयं प्रकुर्वीत तस्य शास्त्रोक्तमानतः ॥ ६०० ॥
तालःस्याद्द्वातुलस्तत्र सपादद्व्यङ्गुलाननः ।
मध्योऽस्याङ्गुलविस्तारः नाभौ रंध्रञ्चमध्यमे ॥ ६०१ ॥
पादोनगुञ्जामात्रंस्यात् पिण्डस्तु यवमात्रकः ।
सार्धाङ्गुलः स्यादुत्सेधः समकायाकृतिस्तथा ॥ ६०२ ॥
गुरुत्वञ्च यथानादो भवेच्छ्रुतिमनोहरः ।
ज्ञातव्यंलोकतस्सर्वं डोरिकाधारणादिकम् ॥ ६०३ ॥
ईदृक् तालद्वयंकृत्वा तत्रैकं तिर्यगानतम् ।
धृत्वा तस्याग्रभागेन मध्यमन्यस्य ताडयेत् ॥ ६०४ ॥
14

106
शिवेनताडयेच्छक्तिं नतुशक्त्या शिवंकचित् ।
अल्प¹नादा भवेच्छक्तिः भूरिनादः शिवोभवेत् ॥ ६०५ ॥
वामेन धारयेच्छक्तिं शिवं दक्षिणपाणिना ।
अश्वमेधफलञ्चैव प्राप्नुयाद्दोषमन्यथा ॥ ६०६ ॥
देवता तुम्बुरुयुता शक्तौशक्तिः शिवेशिवः ।
द्रुतादिसिद्धस्तन्नाद् मङगुलीभिर्विधारयेत् ॥ ६०७ ॥
पाटानत्र विजानीयात् सर्वानपि विचक्षणः ।
(599-608) The ‘ Ghanatala ’ (small heavy cymbals)
described.
(சு-599-608) ஜாலராவின் லக்ஷணம்.
पद्मिनीपत्रसङ्काशौ कांस्यतालसमाकृती ॥ ६०८ ॥
त्रयोदशाङ्गुलो वक्त्रे कर्तव्यौ द्व्यङ्गुलो तले ।
मध्येऽङ्गुलमिते निम्नौ लक्ष्यशेषंतु तालवित् ॥ ६०९ ॥
झें झें किटादयः पाटाः मुख्याश्चान्ये निदर्शनात् ।
नारदो देवता चात्र कथिता पूर्वसूरिभिः ॥ ६१० ॥
घण्टादि वाद्यजातस्य लक्षणं ज्ञेयमन्यतः ।
(609-611) The ‘ Kamsyatala ’ (big brass cymbals)
described.
(சு-609-611) பெரிய தாளம்.
गम्भीरनादमधुरं समं गीतादिरक्तिकृत् ॥ ६११ ॥

  1. अभ्र-इति-11499-अंकितमातृकायांपाठः

107
स्फुटप्रहारमित्यादि गुणैः स्याद्वाद्यमुत्तमम् ।
हस्तपाटप्रहारज्ञः गीतवाद्यादिकोविदः ॥ ६१२ ॥
लयतालकलाभिज्ञः गात्राभिप्रेतवादकः ।
समादिग्रहविज्ञश्च पाटज्ञो ध्वनितत्त्ववित् ॥ ६१३ ॥
गीतवादनतत्त्वज्ञः छिद्राच्छादनपण्डितः ।
ग्रहमोक्षप्रदेशज्ञः गीतनृत्तप्रमाणवित् ॥ ६१४ ॥
नादवृद्धिक्षयाभिज्ञः उत्तमोवादकोभवेत् ।
गुणैः कतिपयैर्हीनः सर्वैर्वा वादकोऽधमः ॥ ६१५ ॥
(611-615) The good features of instruments and
players in general-
(சு. 611-615) வாத்தியங்களின் குணங்களும், வாசிப்
பவர்களின் குணங்களும்.
इति श्रीमल्लक्ष्मीधरसुत चतुरदामोदरविरचिते
संगीतदर्पणे वाद्याध्यायः पञ्चमः समाप्तः ॥

guruं प्रणम्य शिरसा सन्मार्गसन्दर्शकं

  • कीर्तिप्रीतिकरं जनस्य लघुना कालेन कामप्रदम् ।
  • सेव्यं सद्यतिभिः द्रुतप्लुतपदन्यासाप्तलोकत्रयं
  • तालानां कथयामि लक्षणमिदं पूर्वोक्तशास्त्रक्रमात् ॥
  • इतिचूडामणिः ॥ ६१९ ॥
  • कमलभवविराजमानमध्यं सुललितविग्रहमक्षरं त्रिमूर्तिम् ।
  • सुभगशिखिरुहाश्चदुत्तमाङ्गं घनकमनीयमहं मुकुन्दमीडे ॥
  • तौर्यत्रिकं च मत्तेभस्तालं तस्याङ्कुशंविदुः ।
  • न्यूनाधिकप्रमाणन्तु प्रमाणं क्रियतेयतः ॥ ६२१ ॥
  • इति कात्यायनः ।
  • वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
  • तालज्ञश्चाप्रयासेन मोक्षमार्गं सगच्छति ॥ ६२२ ॥
  • इति याज्ञवल्क्यः ।
  1. Double check formatting:
    • "Prefix each line with line marker

109
तथाचामरः । तालः कालक्रियामानं लयस्साम्यं अथस्त्रियाम् ।
ताण्डवं नटनं नाट्यं लास्यंनृत्तं च नर्तने ॥ ६२३ ॥
अथ सङ्गीतार्णवमतम् । कालः क्रियाच मानंच सम्भवन्ति यथासह ।
तथा तालस्य सम्भूतिरितिज्ञेयं विचक्षणैः ॥ ६२४ ॥
कालः क्षणादिको ज्ञेयः तालयोर्घटनं क्रिया ।
क्रिययोरन्तरं यत्तु विश्रामो मानमुच्यते ॥ ६२५ ॥
तथा च शिवकिङ्करः । तालोलध्वादिमितया क्रियया सम्मितो मितिम् ।
गीतादे र्विदधत्काळः सचद्वेधाबुधैः स्मृतः ॥ ६२६ ॥
हरिभट्टः । तालः कालइति ख्यातो ह्यावापादिक्रियामितः ।
प्राणैस्तु दशभिर्युक्तः तौर्यत्रयमितोभवेत् ॥ ६२७ ॥
तथाच विनोदः । हस्तद्वयस्यसंयोगे वियोगेचापि वर्तते ।
व्याप्यमानो दशप्राणै स्स कालस्ताळसंज्ञकः ॥ ६२८ ॥
अथ तालशब्दस्यनिष्पत्तिमाह । ताळस्तलप्रतिष्ठायां इति
धातोर्व्यञ्जिस्मृतः । गीतं वाद्यं तथानृत्यं यतस्ताले प्रतिष्ठितं ॥६२९॥
(621-629) What is 'tala'?
(சு. 621-629) 'தாளம்' என்றால் என்ன ?
मार्गदेशीगतत्वेन तालोऽसौद्विविधोमतः ।
शुद्धसालगसङ्कीर्णा स्तालभेदाः क्रमान्मताः ॥ ६३०॥
(630) Classification of talas :-
A. (1) Marga (classical) & (2) Desi (popular)
B. (1) Suddha (pure) (2) Salaga (mixed)
(3) Sankirna (Promiscuous)

110
(சு, 630) தாளங்களின் வகைகள்;—
A. (1) மார்க்க தாளங்கள் (பழைய நூல்களில்
உள்ளவை. (2) தேசீ தாளங்கள் (பிற்காலத்தவை)
B. (1) சுத்த (2) ஸாலக (கலந்தவை) (3) ஸங்
கீர்ண (பல கலப்புடையவை)
अथ दशप्राणा उच्यन्ते ॥
कालो मार्गः क्रियाङ्गानि ग्रहो जातिः कलालयाः ।
यतिः प्रस्तारकश्चेति तालप्राणा दशस्मृताः ॥ ६३१ ॥
(631) The ten ‘pranas’ or elements of talas:—
(1) Kala (time), (2) Marga (Provincial modes)
(3) Kriya (Marking time by beats and other movements
of the hands), (4) Anga (the constituent units of
particular varieties of tala), (5) Graha (the point in the
particular tala where the musical piece begins) (6) Jati
(the number of steps into which each constituent unit
of a tala is divided (7) (Kala the mode of creating subvar
ieties of tala by using multiples of the constituent units)
(8) Laya (the speed of the tala), (9) Yati (the rhythmic
arrangement of slow and quick speed), (10) Prastara
(permutation and combination of Constituent units to
make up a single variety of tala)
(சு-631) தாளத்தின் பத்து ‘பிராணன்கள்’ அல்லது
உறுப்புகள்;— (1) காலம் (கால அளவை) (2) மார்க்கம்
(நாட்டுக்கு நாடு மாறு படும் தாள நடை) (3) க்ரியா (காலத்தை
அளக்கும் தட்டு, வீச்சு முதலியன), (4) அங்கம் (ஒவ்வொரு
தாளத்தையும் தொகுக்கும் கால அளவை உறுப்புகள்),
(5) க்ரஹம் (தாளத்தின் எந்த இடத்தில் பாட்டு ஆரம்பிக்கப்
படுகிறதோ அந்த ‘இடம்’ அல்லது எடுப்பு) (6) ஜாதி (ஒவ்வொரு
தாளத்திலும் உள்ள அங்கங்களின் உள்நடை) (7) கலா (தாள
த்தின் அங்கங்களைப் பெருக்கிப் புதியதாளங்கள் அமைக்கும்
முறை) (8) லயம் (தாளத்தின் வேகம் ; ) ‘துரிதம்’ ‘விளம்பம்,
முதலியகதி) (9) யதி (தாளத்தின் விளம்பம், துரிதம், முதலிய

111
கதிகளை அழகாக அமைக்கும் முறை) (10) ப்ரஸ்தாரம் (ஒரே
தாளத்தின் அங்கங்களைப் பலவகையாக அமைக்கும் வரிசைக்
கிரமம்)
क्षणादिरूपो यः कालः स प्राणत्वेन कीर्त्यते ।
गीतादेस्तु मितिं कुर्वन् स एवायाति तालताम् ॥ ६३२ ॥
अणुद्रुतं समारभ्य ताळकालोलकथ्यते ।
क्षणादिरूपकालेन तालो नेतुं नशक्यते ॥ ६३३ ॥
तालः कालजनिः प्रोक्तः सोऽवच्छिन्नो द्रुतादिभिः ।
गीतादिमानकर्ता स्यात् सद्भैधा कथितो बुधैः ॥ ६३४ ॥
अथ ताळसमूलतां दर्शयति ।
शिवशक्त्यात्मकं पुण्यं यशस्यं भुक्तिमुक्तिदम् ।
दशप्राणात्मकं ताळं यो जानाति स तत्ववित् ॥ ६३५ ॥
दशप्राणपरिज्ञानप्रवीण स्तालधारकः ।
नृत्यादिषु प्रशस्तःस्यादितरस्तु मृतोपमः ॥ ६३६ ॥
तकारे शङ्करः प्रोक्तो लकारे पार्वतीस्मृता ।
शिवशक्तिसमायोगात्ताळइत्यभिधीयते ॥ ६३७ ॥
(632-637) Detailed Definition of the Concept of Tala
(சு-632-637) 'தாளம்' என்பதன் விவரணம்.
तथा च आञ्जनेयः । पद्मपत्रशतैकैकच्छेदकालः क्षणःस्मृतः ।
लवः क्षणैरष्टभिः स्या त्काष्ठास्या दष्टभिर्लवैः ॥ ६३८ ॥

112

स्यान्निमेषोऽष्टकाष्ठाभिः निमेषैरष्टभिः कला ।
कलाद्वयाच्चतुर्भागः स एव त्रुटिरुच्यते ॥ ६३९ ॥
चतुर्भागद्वयेनैव बिन्दोरर्धं प्रकीर्तितम् ।
अणुद्वयाद्द्रुतः प्रोक्तः तद्द्वयाच्चलघुः स्मृतः ॥ ६४० ॥
लघुद्वयात्तु वक्रः स्यात् लत्रयेण प्लुतो मतः ।
इति ताळगतिः प्रोक्ता ताळज्ञैः पूर्वसूरिभिः ॥ ६४१ ॥
(638-641) The first 'Prana' of Tala - 'Kala'
(சு-638-641) தாளத்தின் முதல் பிராணமாகிய 'காலம்;
इति कालोत्पत्तिः प्रथमः प्राणः ।
तथा च रत्नाकरः । मार्गाःस्युस्तत्र चत्वारो ध्रुवश्चित्रश्चवार्तिकः ॥६४२॥
दक्षिणश्चेति तत्रस्यात् ध्रुवके मात्रिका कला ।
शेषेषु द्वेचतस्रोष्टौ क्रमान्मात्राकलाभवेत् ॥ ६४३ ॥
ध्रुवका सर्पिणी कृष्या पद्मिनी च विसर्जिता ।
विक्षिप्ताख्या पताका च मालास्यात्पतिताऽष्टमी ॥ ६४४ ॥
सशब्दातुध्रुवाज्ञेया सर्पिणी वामगामिनी ।
कृष्यादक्षिणतः पाता पद्मिनीस्यादधोगता ॥ ६४५ ॥
विसर्जिताबहिर्याता विक्षिप्ताकुञ्चनात्मिका ।
पताकातूर्ध्वगमनात्पतिताकरपातनात् ॥ ६४६ ॥
ध्रुवपातेप्रयोज्यास्ताः नावापादौ कदाचन ।
ध्रुवकापतिताचित्रे वार्तिकेत्वादिमे उभे ।
अन्त्ये द्वेच प्रयोक्तव्ये क्रमादष्टौचदक्षिणे ॥ ६४७ ॥

113
तथा च चूडामणिः । दक्षिणो वार्तिकश्चित्रो ध्रुवश्चित्रतरस्तथा ।
अथ चित्रतमश्चेति षण्मार्गाः शास्त्रसम्मताः ॥ ६४८ ॥
ध्रुवकादिकलाष्टौच मार्गे दक्षिणसंज्ञके ।
ध्रुवकासर्पिणीचैव पताका पतितातथा ॥ ६४९ ॥
चतस्रो वार्तिकेज्ञेया श्चित्रेथपुनरुच्यते ।
ध्रुवका पतिताचेति योजनीया विशेषतः ॥ ६५० ॥
ध्रुवे कलैका विज्ञेया शार्ङ्गदेवेन कीर्तिता ।
अथ चित्रतरे मार्गे कलाच द्रुतसम्मिता ॥ ६५१ ॥
मार्गे चित्रतमे ज्ञेया कलाकरजसम्मिता ।
तथा च मणिदर्पणः । दक्षिणो वार्तिकश्चित्रो ध्रुवश्चित्रतरस्तथा ॥
अथचित्रतमश्चैव षण्मार्गोऽत्रप्रकीर्तितः ।
[ चित्रतमश्चातिचित्रतमश्चैव प्रकीर्तितः इति वापाठः ]
चतुर्भागस्त्रुटि श्चैवानुत्रुटिर्घर्षण स्तथा ॥ ६५३ ॥
अनुघर्षणकश्चैव स्वर श्चापि प्रकीर्तितः ।
सर्वेषां मतमाश्रित्य मार्गा द्वादशधा कृताः ॥ ६५४ ॥
तेषां मार्गप्रभेदानां कलाभेदान्प्रचक्ष्महे ।
तदर्धार्थप्रभेदेन शास्त्रतस्संप्रदायतः ॥ ६५५ ॥
तत्र दक्षिणमार्गे तु मात्राष्टकमुदाहृतम् ।
वार्तिके तु चतुर्मात्रा श्चित्रमार्गो द्विमात्रकः ॥ ६५६ ॥
15

114
एकमात्रा चित्रतरेद्रुतश्चित्रतमे मतः ।
अतिचित्रतमे मार्गे ऽणुद्रुतः परिकीर्तितः ॥ ६५७ ॥
चतुर्भागे तदर्धास्यात्कलांशकलिकाकृतिः ।
त्रुटिस्तदर्धभागःस्यात्तदर्धस्यादनुत्रुटिः ॥ ६५८ ॥
तदर्धं घर्षणेचस्यात्तदर्धं चानुघर्षणे ।
एतदर्धं स्वरे प्रोक्तम् सूक्ष्मसत्त्वार्थवेदिभिः ॥ ६५९ ॥
एकवृत्तिर्दक्षिणे स्यात् ततो द्वेद्वे प्रयोजयेत् ।
यदालक्ष्येण सहितं कमनीयन्तदाभवेत् ॥ ६६० ॥
(642-660) The 2nd Prana of Tala - 'Marga;
(சு-642-660) தாளத்தின் இரண்டாவது பிராணமாகிய
'மார்க்கம்'
इति मार्गाः द्वितीयः प्राणः ॥
निश्शब्दा शब्दयुक्ताच क्रियाच द्विविधा मता ।
निश्शब्दाच कला प्रोक्ता चतुर्धा सा प्रकीर्तिता ॥ ६६१ ॥
आवापादिप्रभेदेन तल्लक्षणमथोच्यते ।
आवापश्चाथ निष्कामो विक्षेपश्च प्रवेशकः ॥ ६६२ ॥
निश्शब्देति चतुर्धोक्ता सशब्दापि चतुर्विधा ।
ध्रुवः शम्पा तथा तालः सन्निपात इतीरिता ॥ ३६३ ॥

115
पात: कलाच सा ज्ञेया तासां लक्ष्माभिधीयते ।
आवापस्तलहस्तस्योत्तानस्याङ्गुलिकुञ्चनात् ॥ ६६४ ॥
निष्क्रामोधस्तलस्यस्यादङ्गुलीनां प्रसारणम् ।
क्षेपोदक्षिणपार्श्वस्थोत्तानस्य प्रसृताङ्गुले: ॥ ६६५ ॥
विक्षेपोऽधस्तलस्यस्यात् प्रवेशोऽङ्गुलिकुञ्चनं ।
ध्रुवोहस्तस्य पाट:स्यात् छोटिकाशब्दपूर्वक: ॥ ६६६ ॥
शम्पादक्षिणहस्तस्य तालो वामकरस्य तु ।
उभयो: सन्निपातः स्यात् तासां मार्गवशान्मितिः ॥ ६६७ ॥
(661—667) The 3rd prana of Tala—' Kriya '
(661—667) தாளத்தின் மூன்றாவது பிராணனாகிய ' க்ரியா '
इति क्रिया तृतीयः प्राणः ॥
द्रुतो लघुर्गुरुश्चैव प्लुतश्चेति यथाक्रमं ।
चत्वार्यङ्गानि नृत्यज्ञैः कथितानि विचक्षणैः' ॥ ६६८ ॥
अणुद्रुतो द्रुतश्चेति विरामद्रुत स्तथा ।
लविरामो गुरुश्चेति प्लुतश्चेति यथाक्रमम् ॥ ६६९ ॥
सप्ताङ्गानि क्रमात्ताळे ज्ञातव्यानिसदाबुधैः ।
अणुद्रुतो वातजातो द्रुतश्च जलसम्भवः ॥ ६७० ॥
(1) 11499 अंकितमातृकायां पत्रप्रांते लिखितमेतत् ।

116
समीरजलसम्भूतो द्रविरामोहि कथ्यते ॥ ६७१ ॥
लघुरग्निभवः प्रोक्तो ल्विरामोऽजलाग्निना ।
गुरु राकाशसम्भूतो दीप्तो धरणिसम्भवः ॥ ६७२ ॥
अणुद्रुते चन्द्रदेवः द्रुते शम्भुर्विधीयते ।
द्रविरामे कुमारःस्यात् लघौ देवी स्मृता बुधैः ॥ ॥ ६७३ ॥
ल्विरामे स्मृतो जीवो गुरौ गौरीयुतश्शिवः ।
दीप्तेत्रयो विरिञ्चाद्या देवतामुनिभिः स्मृताः ॥ ६७४ ॥
तित्तिरिश्छटकश्चैव बकश्चाषश्च कोकिलः ।
वायसः कुक्कुटश्चैव क्रमादुच्चारयन्त्यमी ॥ ६७५ ॥
अण्वाद्यक्षरकै र्ज्ञेयाः सन्तिसंज्ञान्तराण्यपि ।
अणुद्रुत श्चार्धचन्द्रः करजश्चार्धबिन्दुकम् ॥ ६७६ ॥
अर्धद्रुतञ्चाणुसंज्ञं अङ्कुशञ्च धनुः क्रमात् ।
अणावेतानि नामानि कथितानि विपश्चिता ॥ ६७७ ॥
बिन्दुकं व्यञ्जनंशून्यं द्रुद्रुतं चार्थमात्रकम् ।
सुवृत्तञ्च तथाज्ञेयं आकाशञ्च तथोत्तमम् ॥ ६७८ ॥
खं कूपं वलयं ज्ञेयं द्रुते नामान्यनुक्रमात् ।
व्यापकः सरलो ह्रस्वः शरोदण्डोलमात्रिकः ॥ ६७९ ॥
^२ द्यौर्मेरुरिमाः संज्ञाः बाणाख्याः शास्त्रसंमताः ।
दीर्घोवक्रोद्विमात्रस्स्यात् पूज्योगोथकलाभिधः ॥ ६८० ॥
२. 'लघोर्मेरुरिमाः' इति च पाठः