सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 145, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 145

114
एकमात्रा चित्रतरेद्रुतश्चित्रतमे मतः ।
अतिचित्रतमे मार्गे ऽणुद्रुतः परिकीर्तितः ॥ ६५७ ॥
चतुर्भागे तदर्धास्यात्कलांशकलिकाकृतिः ।
त्रुटिस्तदर्धभागःस्यात्तदर्धस्यादनुत्रुटिः ॥ ६५८ ॥
तदर्धं घर्षणेचस्यात्तदर्धं चानुघर्षणे ।
एतदर्धं स्वरे प्रोक्तम् सूक्ष्मसत्त्वार्थवेदिभिः ॥ ६५९ ॥
एकवृत्तिर्दक्षिणे स्यात् ततो द्वेद्वे प्रयोजयेत् ।
यदालक्ष्येण सहितं कमनीयन्तदाभवेत् ॥ ६६० ॥
(642-660) The 2nd Prana of Tala - 'Marga;
(சு-642-660) தாளத்தின் இரண்டாவது பிராணமாகிய
'மார்க்கம்'
इति मार्गाः द्वितीयः प्राणः ॥
निश्शब्दा शब्दयुक्ताच क्रियाच द्विविधा मता ।
निश्शब्दाच कला प्रोक्ता चतुर्धा सा प्रकीर्तिता ॥ ६६१ ॥
आवापादिप्रभेदेन तल्लक्षणमथोच्यते ।
आवापश्चाथ निष्कामो विक्षेपश्च प्रवेशकः ॥ ६६२ ॥
निश्शब्देति चतुर्धोक्ता सशब्दापि चतुर्विधा ।
ध्रुवः शम्पा तथा तालः सन्निपात इतीरिता ॥ ३६३ ॥