सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

षष्ठ नर्तनाध्याय: रस, भाव, आंगिक अभिनय एवं सङ्गीतदर्पण उपसंहार

3185
अग्रतः क्षेपणाद्राजा पीड्यते दक्षिणेसभा ।
गुरुःपृष्ठे ततो रङ्गपीठान्तर्वामतः क्षिपेत् ॥ १८ ॥
रङ्गपीठान्तरं यस्मात् ब्रह्माख्यमधिष्ठितः ।
केचित्पुष्पाञ्जलौ संख्यां पुष्पाणामाचचक्षिरे ॥ १९ ॥
एकविंशतिमन्येतु नियमेनैव मेनिरे ।
प्रायशो नर्तनारम्भे संहतं च लताकरौ
चतुरश्रं भवेदङ्गं विशेषस्त्वयमुच्यते ॥ २० ॥
-अथवा समपादम्
वपुः स्वाभाविकं पादौ वितस्त्यन्तरितावृजू ।
तत्र तत्समपादं स्यात् चतुराननदैवतम् ॥ २१ ॥
-तत्र संहतलक्षणम्
देहः स्वभाविकोऽङ्गुष्ठौ पादयोश्चेन्मिथो युतौ ।
गुल्फौ च संहतौ तत्स्यात् पुष्पाञ्जलिविसर्जने ॥ २२ ॥
-तत्र लताकरलक्षणम् ।
पताकौ दोलितौ तिर्यक्प्रसृतौ तौ लताकरौ ।
संहतं च परित्यज्य चतुरश्रं ततः श्रयेत् ॥ २३ ॥
-तत्रचतुरश्र लक्षणम्
नन्द्यावर्तस्य चेदङ्घ्र्यो र्भवेदष्टादशाङ्गुलम् ।
अन्तरं चतुरैःस्थानं चतुरश्रं तदोदितम् ॥ २४ ॥
24

186
-तत्र नन्द्यावर्तलक्षणम् ।
वर्धमानस्य चेदङ्घ्योरन्तरंस्यात्षडङ्गुलम् ।
वितस्तिमात्रमथवा नन्द्यावर्तं तदोदितम् ॥ २५ ॥
-तत्र वर्धमान लक्षणम् ।
वर्धमानेतु चरणौ तिर्यञ्चौ पार्ष्णिसङ्गतौ ॥
ततनीत्वासुलूगात्रं पात्रं सौष्ठवराजितम् ॥ २६ ॥
-तत्र सुलूलक्षणम् ।
मन्दानलचलद्दीप शिखेवाङ्गस्य चालनम् ।
सुलूशब्देन तत्त्वज्ञैः नटैस्तत्प्रतिपाद्यते ॥ २७ ॥
-तत्रसौष्ठवम् ।
कटीजानुसमायत्र कूर्परांसशिरस्समम् ।
उरस्समुन्नतं सन्नं गात्रं तत्सौष्ठवं भवेत् ॥ २८ ॥
-तत्रसन्नम्
सन्नं स्वस्थाननिष्क्रान्तं निष्षण्णं त्वचलस्थितिः ।
तलपुष्पपुटाख्येन ततः पुष्पाञ्जलिंक्षिपेत् ॥ २९ ॥
-तत्र तलपुष्पपुट लक्षणम् ।
चार्याध्यर्धिकया पादे विनिष्क्रामतिदक्षिणे ।
व्यावर्तनात्करयुगे दक्षिणं पार्श्वमागते ॥ ३० ॥
परिवर्तनतो वामपार्श्वं सन्नतमाश्रिते ।
तत्कुचक्षेत्रसंविष्टो यस्य पुष्पपुटः करः ॥ ३१ ॥

187

तलपुष्पपुटं तत्स्यात् पादेग्रतलचञ्चरे ।
एतत्पुष्पाञ्जलित्यागे लज्जायां च नियुज्यते ॥ ३२ ॥
-तत्र अध्यर्धिकाचारी लक्षणम् ।
सव्यस्य पृष्ठदेशे स्या द्दामः सव्यस्य पार्श्वगः ।
सार्धतालान्तरस्थश्च एवं वामस्य दक्षिणः ।
यत्र साध्यर्धिकान्वर्था प्रोक्तान्यैर्हंसपादिका ॥ ३४ ॥
-तत्र पुष्पपुट लक्षणम्
सर्पशीर्षौ मिलद्वाह्यपार्श्वौ पुष्पपुटो भवेत् ॥ ३५ ॥
-तत्राग्रतलसञ्चर लक्षणम्
यस्योत्क्षिप्तोभवेत्पार्ष्णिंरङ्गुष्ठः प्रसृतस्तथा ।
अङ्गुल्यो न्यञ्चिताःसस्यात्पादोऽग्रतलसञ्चरः ॥ ३६ ॥
किञ्चिच्चाभिनयेन्नान्दीं पुष्पाञ्जलिविसर्जने ॥ ३७ ॥
“ भवतां भूतये भूयाद्भवानी भववल्लभा ।
अङ्गीकृत सुसङ्गीत भङ्गी मुदित मानसा ” ॥ ३८ ॥
-तत्रश्लोकाभिनयः ।
भवतां-पुरोदेशगतेन पताकेन ।
भूतये-शिरोदेशगताभ्यामलपल्लवाभ्यां ।
भूयात्-उद्वेष्टिताधोमुखगतेन पताकेन ।
भवानी-शिरोगतेन अञ्जलिना ।

188

भव-मस्तकगत सूच्या
वल्लभा-हृदयगत चतुरेण ।
अंगीकृत-मुखस्थेन कपोतेन
सुसंगीत-मुखदेशगतेन हंसास्येन
भंगी-कंपित पुरोदेशगतेन त्रिपताकेन ।
मुदित-अलपल्लवेन
मानसा-हृदय गतेनव्यावृत्त-परिवर्तित सन्दंशेन ।
मुखचारीगतं पाटं जकारादिक मुच्चरेत् ।
“ जाहाङ्कने माहाङ्कने ”।
तत आविर्भवद्भावं नर्तनं मनसान्वितम् ॥ ३९ ॥
तत्तु सञ्चत्रययुतं नृत्तहस्तै र्विभूषितम् ।
तालै र्द्वित्रि चतुर्भिश्च स्यात्कटेरन्तरं भुवः ॥ ४० ॥
तलमध्योर्ध्वसंचास्स्यु स्तालमात्रा वितस्तिका ।
अङ्गुष्ठमध्यमाङ्गुल्यौ येहस्तस्यप्रसारिते ॥ ४१ ॥
तदग्रयोरन्तरालं तालमाहुर्मनीषिणः ।
चारीकरण संयुक्तं स्थानकैश्च समन्वितम् ॥ ४२ ॥
अङ्गैस्तथैवोपाङ्गैश्च प्रत्यङ्गैश्चाति सुन्दरम् ।
दक्षिणे प्राग्गतिं नीत्वा ततो वामे ततः पुरः ॥ ४३ ॥

189
ततः सकलदिक्कचक्राभिमुखं गतिमाचरेत् ।
त्र्यस्रां च चतुरस्रां च गतिं सर्वत्र दर्शयेत् ॥ ४४ ॥
लहरी चक्रकादींश्च चालकान् कतिचिन्नयेत् ।
अत्रक्रियामनोहारि बाह्वोश्चालकमुच्यते ॥ ४५ ॥
तत्र लहरी चक्र सुन्दरस्य लक्षणम् ।
नाभिक्षेत्रसमीपस्थे तिर्यग्लुठतिचैकके ॥ ४६ ॥
अपरन्तु पराचीन मान्दोलितककर्मणा ।
नीत्वा वामांसपर्यन्तं बहिरेव प्रसार्य च ॥ ४७ ॥
अमुमन्तःसमाक्षिप्य मूर्ध्नासव्यपसव्यमोः ।
विलोल्य पार्श्वयोर्मन्दं विलासेन तु यद्भवेत् ॥ ४८ ॥
प्रकीर्तितं तुतद्वीरै लहरीचक्रसुन्दरम् ।
रासकेनैव तालेन लयत्रितयसंयुतम् ॥ ४९ ॥
लघ्वादिताळो लोकेऽसौ रास इत्यभिधीयते ।
इत्यादिताळः
क्रियान्तरविश्रान्ति र्लयस्स त्रिविधो मतः ॥ ५० ॥
द्रुतो मध्यो विलम्बस्तु द्रुतश्शीघ्रतमोमतः ।
द्विगुण द्विगुणौ ज्ञेयौ तस्मान्मध्यविलम्बितौ ॥ ५१ ॥
विधाय नर्तनं हंसास्येन मानमथाचरेत् ।
इति मुखचालिः ।
Sl. 8. 'Prabhu' or the Patron presiding over the
performance.
Sl 9-14. 'Brinda' or the group of singers and
orchestra.
Sl. 14-51. 'Mukhachāli' or the Introductory Dance;
'Pushpānjali' or the flower-offering; and 'Nāndi' or the
Benedictory verse.

190
சு. 8. நாட்டிய அரங்கின் தலைவர்.
சு. 9-14. பாடகர், வாத்தியக்காரர்களின் கோஷ்டி.
சு. 14-51. 'முகசாலி' என்னும் ஆரம்ப நர்த்தனம்; 'புஷ்
பாஞ்சலி' அல்லது மலர் சொரிதல்; 'நாந்தி' என்னும் மங்கள
சுலோகம்.
अथेदानीनर्तनस्य भेदमाह :—
नाट्यं नृत्यं ताण्डवं च नृत्तं लास्यमिमा भिदाः ।
नर्तनस्याथ नृत्येषु विषमं विकटं लघु ।
पेरणी गोण्डली चैव नृत्यं दशविधं स्मृतम् ॥ ५३ ॥
-तत्र नाट्यलक्षणम् ॥
चतुर्धामिनयोपेतं नाट्यमुक्तं मनीषिभिः ।
अथवा ; नाटकस्थितवाक्यार्थ पदार्थाभिनयात्मकम् ।
तदाद्यं भरतेनोक्तं रसभावसमन्वितम् ॥ ५४ ॥
-तत्र रस लक्षणम् ॥
विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः
आनीयमानः स्वादुत्वं स्थायीभावो रसः स्मृतः ॥ ५५ ॥
-तत्र भाव लक्षणम् ।
निर्विकारस्य चित्तस्य भाव स्या दादिविक्रिया ।
-तत्र विभाव लक्षणम् ।
तत्रज्ञेयो विभावस्तु रसज्ञापनकारणम् ॥ ५६ ॥
बुधैर्ज्ञेयोयमालम्ब उद्दीपन इति द्विधा ।
आलम्बनं नायक नायिकादि । उद्दीपनम्।—
चन्द्रकिरण भूषणालङ्कारादि धारागृह ताम्बूलादि ॥ ५७ ॥

191
-तत्रानुभावः ।
भावं मनोगतं साक्षात् स्वहेतुं व्यञ्जयन्ति ये ।
तेऽनुभावा इति ख्याताः कटाक्षहसितादयः ॥ ५८ ॥
-तत्र सात्त्विकः ।
सर्वेषामपि भावानां यैस्तु सत्त्वं विभाव्यते ।
ते भावा भावतत्त्वज्ञैस्सात्त्विकाः समुदाहृताः ॥ ५९ ॥
तेतु स्तम्भ स्वेदादयः ।:-
स्तम्भस्स्वेदोऽथ रोमाञ्चःस्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ ६० ॥
-तत्र व्यभिचारिणः ।
विशेषेणाभिमुख्येन भवन्ति स्थायिनं प्रति ।
वागङ्ग सत्त्वाभिनयै ज्ञेयास्ते व्यभिचारिणः ॥ ६१ ॥
तेतु त्रयस्त्रिंशन्निर्वेदादयः ।
-तत्र रसः ।
शृङ्गारहास्य करुणा रौद्रवीरभयानकाः
बीभत्साद्भुतशान्ताश्च रसानाट्येनिरूपिताः ॥ ६२ ॥
-तत्र तु स्थायिभावाः ।
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयन्तथा ।
जुगुप्सा विस्मयशमाः स्थायिभावाः प्रकीर्तिताः ।

।192
-तत्र रतिलक्षणं
यूनोरन्योन्यविषया स्थायिनी रति रुच्यते ॥ ६४ ॥
अन्योन्यमभिलाषः स्त्रीपुंसयो वासनामयः ।
भावः कटाक्षादिहेतुः शृङ्गारे बीज मुच्यते ।
प्रेमा मानः प्रणयः स्नेहो रागोऽनुराग इत्युक्तः ।
अङ्कुर पल्लव कलिका प्रसूनफलभोगभागियं क्रमशः ॥६५॥
-तत्र कटाक्ष लक्षणम् ॥
यद्गतागत विश्रान्ति वैचित्र्येण विवर्तनम् ।
तारकायाः कलाभिज्ञाः तं कटाक्षं प्रचक्षते ॥ ६६ ॥
तत्र त्रिविधः कटाक्षः । श्वेतः ।
श्यामः । श्वेतश्यामश्च ।
तत्र श्वेतः ।
करे वेणी मेणीसदृशनयना स्नानविरतौ
दधाना हर्म्याग्रे हरनयनतेजोहतमपि ।
इयं मुग्धा दुग्धाम्बुधिबहळकलोलसदृशा
दृशा वारंवारं मनसिजतरुं पल्लवयति ॥ ६८ ॥
-श्यामः ।
शिलासम्य क्धौतोज्ज्वलधवळधारापरिसरा
निमानन्तःश्यामा निवकुसुमबाणस्य विशिखान् ।

193
दृढप्रज्ञावर्माप्यपि हृदयमर्माणिरुजतः
कटाक्षाणेणाक्ष्याः मुनिरपि न सोढुं प्रभवति ॥ ७० ॥
श्वेतश्यामः ।
अदृश्यन्त पुरस्तेन लेखाखञ्जनपङ्क्तयः ।
अस्मार्यन्त विनिश्श्वस्य प्रियानयनविभ्रमाः ॥ ७१ ॥
तत्र चतुर्धाऽभिनय लक्षणम् ।
आङ्गिको वाचिकस्तद्वदाहार्यस्सात्विकोपरः ।
चतुर्धाभिनयस्तत्राङ्गिकोऽङ्गैर्दर्शितोमतः ॥ ७२ ॥
त्रिविधस्त्वाङ्गिकोदृष्टः शारीरो मुखजस्तथा ।
तथाचेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥ ७३ ॥
शारीरः शिरोहस्तकरणादिरङ्गविषयः ।
मुखजो नेत्र भ्रूविकारादिरूपाङ्गविषयः ॥ ७४ ॥
चेष्टाकृतस्तु निश्वसितोच्छूसिताक्षिपुटसम्मीलन
चमत्कारपतनघूर्णनादिः ।
तत्र शाखेति विख्याता विचित्रा करवर्तना ॥ ७५ ॥
॥ इति शाखा । इत्याङ्गिकः ।
वाचा विरचितः काव्य नाटकादिस्तु वाचिकः ।
इति वाचिकः ।
आहार्यो हार केयूर किरीटादि विभूषणम् ॥ ७६ ॥
इत्याहार्यः ।
25

194
सात्विक स्सात्विकैर्भावैर्भावुकेन विभावितः ।
इति सात्विकः ।
-तत्र अभिनय लक्षणम् ।
अभिपूर्वस्तु णीङ् धातुराभिमुख्यार्थ निर्णये ॥ ७७ ॥
अस्मात्प्रयोगं नयति तस्मादभिनयः स्मृतः ।
अर्थानामभिमुखीकरण मभिनयशब्दार्थः ॥ ७८ ॥
इति अभिनय लक्षणम् ।
-तत्र लोकधर्मी नाट्यधर्मीच ।
इतिकर्तव्यता तस्य द्विविधा परिकीर्तिता ।
लोकधर्मी नाट्यधर्मीत्येते च द्विविधे पुनः ॥ ७९ ॥
चित्तवृत्त्यर्पिका काचिद्वाह्यवस्त्वनुकारिणी ।
इति भेदद्वयं प्राहुः लोकधर्म्याः पुरातनाः ॥ ८० ॥
-तत्र चित्तवृत्त्यर्पिका
अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुहुर्कुलीकृतैः
क्षणमभिमुखै र्लज्जालोलै र्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः ।
कथयसुकृती कोयं मुग्धेत्वयाद्यविलोक्यते ॥ ८१ ॥
अथवा :-सत्रासा इव सालसा इव लसद्दुर्वा इवार्द्रा इव
व्याजिह्मा इव लज्जिता इवपरिश्रान्ताइवार्ताइव ।
त्वद्रूपे निपतन्ति कुन्तलपते वामभ्रुवामुल्लस
द्धातावर्तित नर्तितोत्पल दळ द्रोणी द्रुहो दृष्टयः ॥ ८२ ॥

orद्ग? Wait, look at the letter: does it have र्वाafter it? Yes,र्वा. So द्ग+र्वा=द्गर्वा! Wait, let's look at द्ग: why does it have a loop? Wait, look closely at line 8: लसद्गर्वा? Wait, look at the conjunct: It has द्then a loop below to the left, likeद्र? Wait, if it's लसद्गर्वा, let's check if the word is लसद्गर्वा`:
In Sanskrit poetry:
"सत्रासा ... सालसा ... लसद्गर्वा ... आर्द्रा ... व्याजिह्मा ... लज्जिता ..."
Yes! The heroine's glances:

  • सत्रासा (fearful)
  • सालसा (languid)
  • लसद्गर्वा (shining with pride / haughty) -> मदिरा दृष्टिः
  • आर्द्रा (tender / moist with love) -> स्निग्धा दृष्टिः
  • व्याजिह्मा (crooked / deceptive) -> क्रुद्धा दृष्टिः
  • लज्जिता (shy / bashful) -> लज्जिता दृष्टिः
    Look how beautifully that fits the semantic set of bhāvas / nāyikā-avasthās!
  1. सत्रासा (with fear) -> त्रस्ता / शङ्किता
  2. सालसा

?
Wait, could it be 'प्ता'? Compare with 'प्ता' in line 10 "त्रिपताकाभ्यां" (no, that's 'ता').
Compare with line 10 "त्रिपताकाभ्यां": त्रि, प, ता, का, भ्यां.
Line 11: "त्रिपताकेन": त्रि, प, ता, के, न.
Line 15: "त्रिपताकेन": त्रि, प, ता, के, न.
Line 17: "त्रिपताकेन": त्रि, प, ता, के, न.
Now look at the word in line 17:
"बहिः क्षिसाङ्गुलि" vs "बहिः क्षिप्ताङ्गुलि" vs "बहिः क्षिप्राङ्गुलि":
Wait, look at line 17 again:
"अथवा बहिः क्षि"
Then: there is a 'स' with 'ा' and anusvara? No, it looks like:
स + ा + ङ्गु + ल ्रि + द् + द्व ?
Wait! Look at line 17:
Letter 1: अ
Letter 2: थ
Letter 3: वा
Space
Letter 4: ब
Letter 5: हि
Letter 6: ः
Letter 7: क्षि
Letter 8: It looks like 'प्ता' or 'सा'? There is a 'स' shape, but wait! Look at the letter below the

197
कस्तूरी-नासादेशगतेन विचित्रवर्तनया हंसास्येन ।
तिलकम्-मस्तकदेशगतेन त्रिपताकेन ।
बाले-हृदयगतकाङ्गूलस्वस्तिकाभ्यां । भाले-शिरोदेशगत
पताकाभ्याम् । भल्ली-पृष्ठदेशगतेन खटकामुखेन ।
इव-नतोन्नत कर्तरीमुखेन ! राजते -
पुरोदेशगतेन विचित्रकरवर्तनयालपल्लवेन ।
भ्रूलता-भ्रूदेशगतात्कर्णपर्यन्तं खटकामुखेन ।
चापं-शिखरेण ।
आकृष्य-पुरोगतात् कर्णपर्यन्तं खटकामुखेन
नजाने-कम्पितपताकेन । कं-विचित्रवर्तनया चतुरेण ।
हनिष्यसि-अधोमुखगतेन पताकेन ।
अथवा । इदं रुणद्धि मां पद्ममन्तःकूजितषट्पदम् ।
मयादष्टाधरं तस्याः ससीत्कारमिवाननम् ॥ ९१ ॥
इति लोकधर्मी ।
अथनाट्यधर्मी ।
आश्रित्य कैशिकीं वृत्तिं एकां नाट्योपयोगिनीम् ।
तद्योग्यां लौकिकीं शोभां करोत्यावेष्टितादिभिः ॥ ९२ ॥
अंशेनैवोपजीवन्ती लोकमन्या प्रवर्तते ।
नाट्यधर्मी अपि प्राज्ञा भेदद्वंद्वमिदं जगुः ॥ ९३ ॥
इति नाट्यधर्मी

198
आङ्गिकाभिनयैरेव भावानेवव्यनक्तियत ।
तन्नृत्यं मार्गशब्देन प्रसिद्धं नृत्यवेदिनाम् ॥ ९४ ॥
गात्रविक्षेपमात्रन्तु सर्वाभिनयवर्जितम् ।
आङ्गिकोक्तप्रकारेण नृत्तं नृत्तविदोविदुः ॥ ९५ ॥
नृत्तं तत्कथितं तज्ज्ञैरर्थहीनं सुरेखकम् ।
केवलं तत्प्रयोक्तव्यं नृत्तं ताललयाश्रितम् ॥ ९६ ॥
इति नृत्यनृत्तलक्षणम् ।
-तत्र अङ्गप्रत्यङ्गोपाङ्गभेदः । सङ्गीतरत्नावळ्यां ।-
शिरोवक्षः करौपार्श्वं कटिश्चरणइत्यपि ।
षडङ्गानिभवन्त्येव कथितानि विपश्चिता ॥ ९७ ॥
उपाङ्गानि श्रुवौनेत्रे नासागण्डस्थलाधरम् ।
चिबुकंचेतिषट् प्राहुर्नृत्ये नृत्यविशारदाः ।
प्रत्यङ्गानि पुनर्ग्रीवा बाहू पृष्ठं तथोदरम् ।
ऊरूजङ्घायुतंचेति षडुक्तानि मनीषिभिः ॥ ९८ ॥
तथाचरत्नाकरः ।
अङ्गान्यत्रशिरोहस्तौवक्षः पार्श्वे कटीतटम् ।
पादाविति षडुक्तानि स्कन्धावप्यपरे जगुः ॥ ९९ ॥
प्रत्यङ्गानिस्विहग्रीवा बाहूपृष्ठे तथोदरम् ।
ऊरूजङ्गेषडित्याहुरपरे मणिबन्धकौ ॥ १०० ॥
जानुनी कूर्पराणीति त्रयमप्यधिकंजगुः
दृष्टिश्रूपुटताराश्च कपोलौनासिकाहनूः ॥ १०१ ॥

199
अधरोदशनाजिह्वा चिबुकं वदनं तथा ।
उपाङ्गानि द्वादशेति शिरस्यङ्गान्तरेषुतु ॥ १०२ ॥
पाष्र्णीगुल्फौ तथाङ्गुल्यः करयोः पादयोस्तले ।
मुखरागश्च करयोः प्रचारः करणानिच ॥ १०३ ॥
इति रत्नाकरमते अङ्गप्रत्यङ्गोपाङ्गभेदः ।
अथाङ्गिकोक्तप्रकारमाह ।
शिरो नेत्रकरादीनामङ्गानां मेलने सति ।
कायस्थितिर्मनोनेत्रहारीत्वेषा प्रकीर्तिता ॥ १०४ ॥
कटाक्षेणयुतेनेत्रे निर्मलं भ्रुकुटिद्वयम् ।
सुहासंवदनंचैव रूपमेतदुदाहृतम् ॥ १०५ ॥
अथवा । अङ्ग प्रत्यङ्गाकानां यः सन्निवेशो यथोचितः ।
सैवोक्ता जनताचित्तनयनानन्ददायिनी । इति रेखा ॥
प्रमाणं गीतवाद्याभ्यां नृत्यस्य समता भवेत् । इति प्रमाणम् ।
सम्प्रदायानुसरणं मुद्राहृदयरञ्जनी । इति मुद्रा ॥ १०७ ॥
जवत्वं स्थिरता रेखा भ्रमरीदृष्टिरश्रमः ।
प्रीतिर्मेधावचो गीतिः पात्रप्राणा दशस्मृताः ॥ १०८ ॥
इति दशप्राणाः ।
यन्नमध्येन सञ्चेन नैरन्तर्येण नर्तनम्
प्रमाणरेखया युक्तं मट्टनृत्यं प्रचक्षते ॥ १०९ ॥ इति मट्टः ।
यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततोमनः ।
यतोमनस्ततो भावः यतो भावस्ततो रसः ॥ ११० ॥

201
vi. Nritya (Dance accompanied by Abhinaya) and
Nritta (Pure Dance with graceful poses) (Sl. 94-96)
vii. The Angas (principal features), Upangas and
pratyangas (subsidiary features) used for Abhinaya
(97-103).
viii. A few technical terms in Dance:—
(a) Rekha (attractive pose).
(b) Pramāna (rhythm and harmony with vocal
music and orchestra).
(c) Mudra (grace and faithfulness to tradition
in gestures etc.) (104-107).
xi. The 10 good points of a dancer:—
Quickness, firmness, attractive pose, easy rotat-
ion of body, expressive look, endurance, affability,
intelligence and memory, clear enunciation and sweet
music. (107-109).
x. Matta Nritya (the most common Dance in
South India) (—109).
xi. The 2 most important rules for dance. (110-111).
(சு. 53-111) நாட்டியமும் அதன் முக்கிய அம்சங்களும்:—
i. 'ரஸம்' அல்லது சுவை (சு. 55)
ii. நாட்டியத்தில் சுவையுற்பத்திக்குக் காரணமானவை:—
(a) பாவங்கள் (உணர்ச்சிகள்)
(b) விபாவங்கள் (அனுகூலமான சூழ்நிலை)
(c) அநுபாவங்கள்(பிரதான உணர்ச்சியுடன் இணைந்த
உணர்ச்சிகள்)
(d) சாத்துவிக பாகங்கள் (மனதில் உணர்ச்சிப்
பெருக்கு ஏற்படும்போது தேகத்தில் தானாக ஏற்படும் விளைவுகள்-
கண்ணீர் முதலியன).
26

202
(e) வ்யபிசாரிபாவங்கள் (குறிப்பிட்ட உணர்ச்சிப்
பெருக்குக்கே உரிய ஏனைய உணர்ச்சிகள்). (சு 56-61)
iii நவரஸங்களும் அவைகளுக்குரிய ஸ்தாயி பாவங்கள்
என்னும் உணர்ச்சிப் பெருக்குகளும் :
உதாரணமாக, சிருங்கார ரஸமும் அதற்குரிய ரதி
என்னும் சிற்றின்பமும்.
கடைக்கண் பார்வைகளின் வகை 4 - உதாரணங்களுடன்
(சு. 62-71)
iv 'அபிநயம்'; அதன் 4 வகை :-
ஆங்கிகம் (உடல் உறுப்புக்களால்)
வாசிகம் (பேச்சு)
ஆஹார்யம் (நகை, உடை, சீன் முதலியன)
சாத்துவிகம் (உணர்ச்சிப் பெருக்கின் விளைவுகள்)
(சு. 72-80)
v நடித்தல் முறைகள் இருவகை :-
லோகதர்மி (இயற்கையைப் பின்பற்றுவது)
நாட்டியதர்மி (கலைஞரின் கட்டுப்பாடுகளைப் பின்
பற்றுவது). (சு. 81-93)
vi நிருத்தியமும் (அபிநயத்தோடு சேர்ந்த நர்த்தனம்),
நிருத்தமும் (சுத்த நர்த்தனம்). (சு. 94-96)
vii அங்க, உபாங்க, பிரத்தியங்கங்கள் (உடல் உறுப்புக்
களின் பிரிவினை) (சு. 97-103)
viii நாட்டியத்தில் வழங்கப்படும் சில பரிபாஷைச்
சொற்கள் :-
(a) 'ரேகை' (எழில் நிறைந்த நிலை)
(b) 'பிரமாணம்' (பாட்டும், வாத்தியமும், நர்த்தனமும்
காலம் முதலியவைகளில் ஒத்திருப்பது)
(c) 'முத்திரை' (சம்பிரதாய சுத்தமும் அழகும் நிறைந்
திருக்குமாறு கைகாட்டல் முதலியன)

203
ix நாட்டிய பாத்திரத்தின் குணங்கள் (பாத்திரப்ராணன்
கள்) 10:-
துரிதம், ஸ்திரத்தன்மை, அழகுவாய்ந்த அங்க அமைப்பு,
பாவ பூர்ணமான பார்வை, களைப்பின்மை, பிரியமான தோற்
றம், புத்தி நுட்பம், உச்சரிப்பில் அக்ஷர சுத்தம், இனிய கீதம்.
x 'மட்ட' நிருத்தியம்.
xi நர்த்தனத்திற்கான முக்கியமான விதிகள் 2.
अथ सप्तगतयः ।
भानवी मैनवी चैव गजलीला तुरङ्गिणी ।
हंसी मृगी खञ्जरीटी गतयः सप्तधा त्विमाः ॥ ११२ ॥
भानोर्गतिरिवालक्ष्या या स्यात्पात्रस्य नृत्यतः ।
सा भानवीगतिः सद्भि र्भाषिता जनरञ्जनी ॥ ११३ ॥
इति भानवी ।
कूपान्तर्गतमीनस्य विश्रान्तिरहितागतिः ।
यथा तथैव नटनी यास्यात्सा मैनवीमता ॥ ११४ ॥
इति मैनवी ।
गतिर्मन्दा विलासेन मत्तकुञ्जरवद्भवेत् ।
नटस्य यन्नृत्येतु सागतिर्गजगामिनी ॥ ११५ ॥
इति गजगामिनी ।
अभ्र(श्र)मं यागतिश्शीघ्रं वाचो व्यावर्तनोत्तरा ।
असौ तुरङ्गिणी सद्भिः कथिता गतिवेदिभिः ॥ ११६ ॥
इति तुरङ्गिणी ।
अयं श्लोकः संगीतमकरंदे प्रमाणी-
कृतः । तत्र पाठान्तरं यथा :--
अतीव यागतिः शीघ्रं वायोर्व्यावर्त्तनोत्तरा
असौतुरंगिणीसद्भिः कथिता गतिकोविदैः ' इति ॥११७॥

204
हंसस्येव गतिर्मन्दा मन्दव्यावर्तनोत्तरा ।
या विशाला हंसिनी सा नर्तने कथिता बुधैः ॥ ११८ ॥
इति हंसिनी ।
मृगीवचकिताङ्गी याऽनुरक्ता नर्तकीयदा ।
गतिंरचयेन्नृत्ये सामृगी परिकीर्तिता ॥ ११९ ॥
इति मृगी ।
समपादं समारभ्य यागतिर्द्रुतमानतः ।
खञ्जरीटखगस्येव खञ्जरीटा भवेद्सौ । इति खञ्जरीटी ।
भानवी गजलीलाच हंसिनी च तथा परा ।
एतास्तिस्रो बुधैर्लास्ये नृत्येच परिकीर्तिताः ॥ १२१ ॥
मैनवी खञ्जरीटी च तद्वदन्यातरङ्गिणी ।
इमास्स्युर्गतयस्तिस्रः ताण्डवे शिववल्लभे ॥ १२२ ॥
ताण्डवे लास्यनृत्येच मृगीसद्भिर्मतागतिः । इति गतयः ।
अथवा । लावो हंसोम्यूरश्च हयः कुञ्जर एवच ।
तित्तिरः कुक्कटो मीनोप्यष्टधा गतयो मताः ॥ १२३ ॥
इति मतान्तरेगतयः ।
(Sl. 112-123) The seven gaits.
(சு. 112-123) ஏழு வகை கதி பேதங்கள்.
अथताण्डवम् ।
वीरे रसे महोत्साहे पुरुषो यन्नृत्यति ।
रौद्रभावरसोत्पत्ति तत्ताण्डवमिति स्मृतम् ॥ १२४ ॥

205
तथाच रत्नाकरमते ।
तण्डूक्तमुद्धतप्रायप्रयोगं ताण्डवम् मतम् । इति ताण्डवम् ।
अथलास्यम्
यौवनस्त्रीविलासिन्यः कामभावविचक्षणाः
यदङ्गहारवैदग्ध्यात्कुर्युर्लास्यमुदीरितम् ॥ १२५ ॥
तथाच रत्नाकरमते
लास्यन्तु सुकुमाराङ्गं मकरध्वजवर्धनम् । इति लास्यम् ।
(Sl. 124-125) Tandava (male dance) and Lasya
(Ladies' Dance)
(சு. 124-125) தாண்டவமும் (ஆடவர் நர்த்தனம்), லாஸ்ய
மும் (ஸ்த்ரீ நர்த்தனம்)
अथ मुखरागः ।
ईषद्विकास्यः प्रसन्नास्यो मुखरागो भवेद्द्विधा ।
सहजोऽसहजश्चेति प्रसन्नः कान्तिभूषितः । अथवा
स्वाभाविकः प्रसन्नश्च रक्तश्श्याम श्चतुर्विधः ।
स्वाभाविकस्तु सहजः स्वभावाभिनये भवेत् ॥ १२७ ॥
इति स्वाभाविकः ।
प्रसन्नो मधुरः सस्यात् शृङ्गाराद्भुतहास्ययोः । इति प्रसन्नः ।
रक्तस्स्याद्रोहितोवीरेकरुणेऽद्भुतहास्ययोः ॥ १२८ ॥
इति रक्तः ।