सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 142, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 142

111
கதிகளை அழகாக அமைக்கும் முறை) (10) ப்ரஸ்தாரம் (ஒரே
தாளத்தின் அங்கங்களைப் பலவகையாக அமைக்கும் வரிசைக்
கிரமம்)
क्षणादिरूपो यः कालः स प्राणत्वेन कीर्त्यते ।
गीतादेस्तु मितिं कुर्वन् स एवायाति तालताम् ॥ ६३२ ॥
अणुद्रुतं समारभ्य ताळकालोलकथ्यते ।
क्षणादिरूपकालेन तालो नेतुं नशक्यते ॥ ६३३ ॥
तालः कालजनिः प्रोक्तः सोऽवच्छिन्नो द्रुतादिभिः ।
गीतादिमानकर्ता स्यात् सद्भैधा कथितो बुधैः ॥ ६३४ ॥
अथ ताळसमूलतां दर्शयति ।
शिवशक्त्यात्मकं पुण्यं यशस्यं भुक्तिमुक्तिदम् ।
दशप्राणात्मकं ताळं यो जानाति स तत्ववित् ॥ ६३५ ॥
दशप्राणपरिज्ञानप्रवीण स्तालधारकः ।
नृत्यादिषु प्रशस्तःस्यादितरस्तु मृतोपमः ॥ ६३६ ॥
तकारे शङ्करः प्रोक्तो लकारे पार्वतीस्मृता ।
शिवशक्तिसमायोगात्ताळइत्यभिधीयते ॥ ६३७ ॥
(632-637) Detailed Definition of the Concept of Tala
(சு-632-637) 'தாளம்' என்பதன் விவரணம்.
तथा च आञ्जनेयः । पद्मपत्रशतैकैकच्छेदकालः क्षणःस्मृतः ।
लवः क्षणैरष्टभिः स्या त्काष्ठास्या दष्टभिर्लवैः ॥ ६३८ ॥