सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
DevanagariSanskritpublished258 पृष्ठ
पृष्ठ 131, कुल 258 में से
संदर्भ में पढ़ेंपृष्ठ 131
100
अथ मर्दललक्षणम्
निर्दोषबीजवृक्षोत्थः मर्दलः परिकीर्तितः ।
रक्तचन्दनजोयद्वा खादिरोऽन्यैरयं मतः ॥ ५८७ ॥
विनिर्माणप्रकारोऽस्य पाटोत्पत्तिरतोयथा ।
वादकश्चरसादिस्तुज्ञेयं ग्रंथान्तराद्बुधैः¹ ॥ ५८८ ॥
(588—589) 'Mardala' (mirdanga) and its make.
(சு-588—589) மிருதங்க லக்ஷணம்.
अथ मार्दलिकलक्षणम्
चतुर्विधोमार्दलिकः वादकोमुखरीतथा ।
ततः प्रतिमुख्याख्यः तुर्योगीतानुगोमतः ॥ ५८९ ॥
वादकः (स्या) च्छुल्लवट्पर्यायः कथितोबुधैः ।
- मृदङ्गलक्षणस्य पाठान्तरमपि 11499-11500 अङ्कित मातृ-
कयोः वाद्याध्यायारंभात्प्राक् वर्तते तद्यथा :—
अनीरतीर जातस्य रक्तचन्दनकस्यथ ।
खादिरस्य शिरीषस्य बीजवृक्षस्य वापुनः ॥ १ ॥
ग्रंथिव्रण विहीनस्य सुपक्वस्य समस्य च ।
मृदङ्गो घट्यते लक्ष्यवेदिना च मृदङ्गिणा ॥ २ ॥
हरीतक्याकृतिः सम्यक् सदृशञ्चसचिक्कणत् ।
चतुस्तालस्त्वसौदैर्घ्ये पिण्डेत्वङ्गुलसंमितः ॥ ३ ॥
एकादशांगुलमितं कर्तव्यं दक्षिणेमुखम् ।
वदनं वामतः किन्तु द्वादशाङ्गुलसंमितम् ॥ ४ ॥