सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 128, कुल 258 में से
संदर्भ में पढ़ें97
करेणुवदनाकारं वदने दोषवर्जितम् ।
शृङ्गतन्माहिषं स्निग्धं श्लक्ष्णं सुघटितं कृतम् ॥ ५७५ ॥
विशेषस्त्वन्यतोज्ञेयो वाद्यं गोपालकेलिषु ।
निर्दोषस्योत्खातनाभेः शंखस्यै कादशाङ्गुलम् ॥ ५७६ ॥
शिखरं निर्मितं धातुसिक्थकाभ्यां मनोरमम् ।
रंध्र मर्धाङ्गुलमितं शिखरस्य मुखेभवेत् ॥ ५७७ ॥
अन्तेतु माषमात्रं स्यात् शंखमेवंविधंसुधीः ।
धृत्वा कर्कटहस्तेन भूरिश्वासभृतोदरम् ।
हुंभुं भोंद्गिद्गित्येतद्वर्णान् शंखेन योजयेत् ॥ ५७८ ॥
(570—578) The other wind instruments— (1) Murali
(2) Madhukari (3) Kahala, (4) Sringa, (5) Sankha,
(சு 570—578) மற்ற துளைக்கருவிகள்— (1) முரளீ, (2)
மதுகரீ, (3) காஹளம், (4) ச்ருங்கம், (5) சங்கு.
मार्गदेशीगतत्वेन पटहो द्विविधोभवेत् ।
निर्माण कथनन्तस्य ज्ञातृत्वे नोपयुज्यते ॥ ५७९ ॥
तदुपेक्ष्य ततः पाटाः कथ्यन्ते तत्तदुद्भवाः ।
हस्तोद्भवास्त एवात्र हस्तपाटाः प्रकीर्तिताः ॥ ५८० ॥
सद्योजातादिपञ्चभ्यः मुखेभ्यः पार्वतीपतेः ।
नागबंधादयोजाताः तस्मान्मुख्याः प्रकीर्तिताः ॥ ५८१ ॥
13