सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 143, कुल 258 में से
संदर्भ में पढ़ें112
स्यान्निमेषोऽष्टकाष्ठाभिः निमेषैरष्टभिः कला ।
कलाद्वयाच्चतुर्भागः स एव त्रुटिरुच्यते ॥ ६३९ ॥
चतुर्भागद्वयेनैव बिन्दोरर्धं प्रकीर्तितम् ।
अणुद्वयाद्द्रुतः प्रोक्तः तद्द्वयाच्चलघुः स्मृतः ॥ ६४० ॥
लघुद्वयात्तु वक्रः स्यात् लत्रयेण प्लुतो मतः ।
इति ताळगतिः प्रोक्ता ताळज्ञैः पूर्वसूरिभिः ॥ ६४१ ॥
(638-641) The first 'Prana' of Tala - 'Kala'
(சு-638-641) தாளத்தின் முதல் பிராணமாகிய 'காலம்;
इति कालोत्पत्तिः प्रथमः प्राणः ।
तथा च रत्नाकरः । मार्गाःस्युस्तत्र चत्वारो ध्रुवश्चित्रश्चवार्तिकः ॥६४२॥
दक्षिणश्चेति तत्रस्यात् ध्रुवके मात्रिका कला ।
शेषेषु द्वेचतस्रोष्टौ क्रमान्मात्राकलाभवेत् ॥ ६४३ ॥
ध्रुवका सर्पिणी कृष्या पद्मिनी च विसर्जिता ।
विक्षिप्ताख्या पताका च मालास्यात्पतिताऽष्टमी ॥ ६४४ ॥
सशब्दातुध्रुवाज्ञेया सर्पिणी वामगामिनी ।
कृष्यादक्षिणतः पाता पद्मिनीस्यादधोगता ॥ ६४५ ॥
विसर्जिताबहिर्याता विक्षिप्ताकुञ्चनात्मिका ।
पताकातूर्ध्वगमनात्पतिताकरपातनात् ॥ ६४६ ॥
ध्रुवपातेप्रयोज्यास्ताः नावापादौ कदाचन ।
ध्रुवकापतिताचित्रे वार्तिकेत्वादिमे उभे ।
अन्त्ये द्वेच प्रयोक्तव्ये क्रमादष्टौचदक्षिणे ॥ ६४७ ॥