सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 147, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 147

116
समीरजलसम्भूतो द्रविरामोहि कथ्यते ॥ ६७१ ॥
लघुरग्निभवः प्रोक्तो ल्विरामोऽजलाग्निना ।
गुरु राकाशसम्भूतो दीप्तो धरणिसम्भवः ॥ ६७२ ॥
अणुद्रुते चन्द्रदेवः द्रुते शम्भुर्विधीयते ।
द्रविरामे कुमारःस्यात् लघौ देवी स्मृता बुधैः ॥ ॥ ६७३ ॥
ल्विरामे स्मृतो जीवो गुरौ गौरीयुतश्शिवः ।
दीप्तेत्रयो विरिञ्चाद्या देवतामुनिभिः स्मृताः ॥ ६७४ ॥
तित्तिरिश्छटकश्चैव बकश्चाषश्च कोकिलः ।
वायसः कुक्कुटश्चैव क्रमादुच्चारयन्त्यमी ॥ ६७५ ॥
अण्वाद्यक्षरकै र्ज्ञेयाः सन्तिसंज्ञान्तराण्यपि ।
अणुद्रुत श्चार्धचन्द्रः करजश्चार्धबिन्दुकम् ॥ ६७६ ॥
अर्धद्रुतञ्चाणुसंज्ञं अङ्कुशञ्च धनुः क्रमात् ।
अणावेतानि नामानि कथितानि विपश्चिता ॥ ६७७ ॥
बिन्दुकं व्यञ्जनंशून्यं द्रुद्रुतं चार्थमात्रकम् ।
सुवृत्तञ्च तथाज्ञेयं आकाशञ्च तथोत्तमम् ॥ ६७८ ॥
खं कूपं वलयं ज्ञेयं द्रुते नामान्यनुक्रमात् ।
व्यापकः सरलो ह्रस्वः शरोदण्डोलमात्रिकः ॥ ६७९ ॥
^२ द्यौर्मेरुरिमाः संज्ञाः बाणाख्याः शास्त्रसंमताः ।
दीर्घोवक्रोद्विमात्रस्स्यात् पूज्योगोथकलाभिधः ॥ ६८० ॥
२. 'लघोर्मेरुरिमाः' इति च पाठः