सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 146, कुल 258 में से
संदर्भ में पढ़ें115
पात: कलाच सा ज्ञेया तासां लक्ष्माभिधीयते ।
आवापस्तलहस्तस्योत्तानस्याङ्गुलिकुञ्चनात् ॥ ६६४ ॥
निष्क्रामोधस्तलस्यस्यादङ्गुलीनां प्रसारणम् ।
क्षेपोदक्षिणपार्श्वस्थोत्तानस्य प्रसृताङ्गुले: ॥ ६६५ ॥
विक्षेपोऽधस्तलस्यस्यात् प्रवेशोऽङ्गुलिकुञ्चनं ।
ध्रुवोहस्तस्य पाट:स्यात् छोटिकाशब्दपूर्वक: ॥ ६६६ ॥
शम्पादक्षिणहस्तस्य तालो वामकरस्य तु ।
उभयो: सन्निपातः स्यात् तासां मार्गवशान्मितिः ॥ ६६७ ॥
(661—667) The 3rd prana of Tala—' Kriya '
(661—667) தாளத்தின் மூன்றாவது பிராணனாகிய ' க்ரியா '
इति क्रिया तृतीयः प्राणः ॥
द्रुतो लघुर्गुरुश्चैव प्लुतश्चेति यथाक्रमं ।
चत्वार्यङ्गानि नृत्यज्ञैः कथितानि विचक्षणैः' ॥ ६६८ ॥
अणुद्रुतो द्रुतश्चेति विरामद्रुत स्तथा ।
लविरामो गुरुश्चेति प्लुतश्चेति यथाक्रमम् ॥ ६६९ ॥
सप्ताङ्गानि क्रमात्ताळे ज्ञातव्यानिसदाबुधैः ।
अणुद्रुतो वातजातो द्रुतश्च जलसम्भवः ॥ ६७० ॥
(1) 11499 अंकितमातृकायां पत्रप्रांते लिखितमेतत् ।