सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 137, कुल 258 में से
संदर्भ में पढ़ें106
शिवेनताडयेच्छक्तिं नतुशक्त्या शिवंकचित् ।
अल्प¹नादा भवेच्छक्तिः भूरिनादः शिवोभवेत् ॥ ६०५ ॥
वामेन धारयेच्छक्तिं शिवं दक्षिणपाणिना ।
अश्वमेधफलञ्चैव प्राप्नुयाद्दोषमन्यथा ॥ ६०६ ॥
देवता तुम्बुरुयुता शक्तौशक्तिः शिवेशिवः ।
द्रुतादिसिद्धस्तन्नाद् मङगुलीभिर्विधारयेत् ॥ ६०७ ॥
पाटानत्र विजानीयात् सर्वानपि विचक्षणः ।
(599-608) The ‘ Ghanatala ’ (small heavy cymbals)
described.
(சு-599-608) ஜாலராவின் லக்ஷணம்.
पद्मिनीपत्रसङ्काशौ कांस्यतालसमाकृती ॥ ६०८ ॥
त्रयोदशाङ्गुलो वक्त्रे कर्तव्यौ द्व्यङ्गुलो तले ।
मध्येऽङ्गुलमिते निम्नौ लक्ष्यशेषंतु तालवित् ॥ ६०९ ॥
झें झें किटादयः पाटाः मुख्याश्चान्ये निदर्शनात् ।
नारदो देवता चात्र कथिता पूर्वसूरिभिः ॥ ६१० ॥
घण्टादि वाद्यजातस्य लक्षणं ज्ञेयमन्यतः ।
(609-611) The ‘ Kamsyatala ’ (big brass cymbals)
described.
(சு-609-611) பெரிய தாளம்.
गम्भीरनादमधुरं समं गीतादिरक्तिकृत् ॥ ६११ ॥
- अभ्र-इति-11499-अंकितमातृकायांपाठः