सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 225, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 225

194
सात्विक स्सात्विकैर्भावैर्भावुकेन विभावितः ।
इति सात्विकः ।
-तत्र अभिनय लक्षणम् ।
अभिपूर्वस्तु णीङ् धातुराभिमुख्यार्थ निर्णये ॥ ७७ ॥
अस्मात्प्रयोगं नयति तस्मादभिनयः स्मृतः ।
अर्थानामभिमुखीकरण मभिनयशब्दार्थः ॥ ७८ ॥
इति अभिनय लक्षणम् ।
-तत्र लोकधर्मी नाट्यधर्मीच ।
इतिकर्तव्यता तस्य द्विविधा परिकीर्तिता ।
लोकधर्मी नाट्यधर्मीत्येते च द्विविधे पुनः ॥ ७९ ॥
चित्तवृत्त्यर्पिका काचिद्वाह्यवस्त्वनुकारिणी ।
इति भेदद्वयं प्राहुः लोकधर्म्याः पुरातनाः ॥ ८० ॥
-तत्र चित्तवृत्त्यर्पिका
अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुहुर्कुलीकृतैः
क्षणमभिमुखै र्लज्जालोलै र्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः ।
कथयसुकृती कोयं मुग्धेत्वयाद्यविलोक्यते ॥ ८१ ॥
अथवा :-सत्रासा इव सालसा इव लसद्दुर्वा इवार्द्रा इव
व्याजिह्मा इव लज्जिता इवपरिश्रान्ताइवार्ताइव ।
त्वद्रूपे निपतन्ति कुन्तलपते वामभ्रुवामुल्लस
द्धातावर्तित नर्तितोत्पल दळ द्रोणी द्रुहो दृष्टयः ॥ ८२ ॥