सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 217, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 217

186
-तत्र नन्द्यावर्तलक्षणम् ।
वर्धमानस्य चेदङ्घ्योरन्तरंस्यात्षडङ्गुलम् ।
वितस्तिमात्रमथवा नन्द्यावर्तं तदोदितम् ॥ २५ ॥
-तत्र वर्धमान लक्षणम् ।
वर्धमानेतु चरणौ तिर्यञ्चौ पार्ष्णिसङ्गतौ ॥
ततनीत्वासुलूगात्रं पात्रं सौष्ठवराजितम् ॥ २६ ॥
-तत्र सुलूलक्षणम् ।
मन्दानलचलद्दीप शिखेवाङ्गस्य चालनम् ।
सुलूशब्देन तत्त्वज्ञैः नटैस्तत्प्रतिपाद्यते ॥ २७ ॥
-तत्रसौष्ठवम् ।
कटीजानुसमायत्र कूर्परांसशिरस्समम् ।
उरस्समुन्नतं सन्नं गात्रं तत्सौष्ठवं भवेत् ॥ २८ ॥
-तत्रसन्नम्
सन्नं स्वस्थाननिष्क्रान्तं निष्षण्णं त्वचलस्थितिः ।
तलपुष्पपुटाख्येन ततः पुष्पाञ्जलिंक्षिपेत् ॥ २९ ॥
-तत्र तलपुष्पपुट लक्षणम् ।
चार्याध्यर्धिकया पादे विनिष्क्रामतिदक्षिणे ।
व्यावर्तनात्करयुगे दक्षिणं पार्श्वमागते ॥ ३० ॥
परिवर्तनतो वामपार्श्वं सन्नतमाश्रिते ।
तत्कुचक्षेत्रसंविष्टो यस्य पुष्पपुटः करः ॥ ३१ ॥