सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 223, कुल 258 में से
संदर्भ में पढ़ें।192
-तत्र रतिलक्षणं
यूनोरन्योन्यविषया स्थायिनी रति रुच्यते ॥ ६४ ॥
अन्योन्यमभिलाषः स्त्रीपुंसयो वासनामयः ।
भावः कटाक्षादिहेतुः शृङ्गारे बीज मुच्यते ।
प्रेमा मानः प्रणयः स्नेहो रागोऽनुराग इत्युक्तः ।
अङ्कुर पल्लव कलिका प्रसूनफलभोगभागियं क्रमशः ॥६५॥
-तत्र कटाक्ष लक्षणम् ॥
यद्गतागत विश्रान्ति वैचित्र्येण विवर्तनम् ।
तारकायाः कलाभिज्ञाः तं कटाक्षं प्रचक्षते ॥ ६६ ॥
तत्र त्रिविधः कटाक्षः । श्वेतः ।
श्यामः । श्वेतश्यामश्च ।
तत्र श्वेतः ।
करे वेणी मेणीसदृशनयना स्नानविरतौ
दधाना हर्म्याग्रे हरनयनतेजोहतमपि ।
इयं मुग्धा दुग्धाम्बुधिबहळकलोलसदृशा
दृशा वारंवारं मनसिजतरुं पल्लवयति ॥ ६८ ॥
-श्यामः ।
शिलासम्य क्धौतोज्ज्वलधवळधारापरिसरा
निमानन्तःश्यामा निवकुसुमबाणस्य विशिखान् ।