सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 222, कुल 258 में से
संदर्भ में पढ़ें191
-तत्रानुभावः ।
भावं मनोगतं साक्षात् स्वहेतुं व्यञ्जयन्ति ये ।
तेऽनुभावा इति ख्याताः कटाक्षहसितादयः ॥ ५८ ॥
-तत्र सात्त्विकः ।
सर्वेषामपि भावानां यैस्तु सत्त्वं विभाव्यते ।
ते भावा भावतत्त्वज्ञैस्सात्त्विकाः समुदाहृताः ॥ ५९ ॥
तेतु स्तम्भ स्वेदादयः ।:-
स्तम्भस्स्वेदोऽथ रोमाञ्चःस्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ ६० ॥
-तत्र व्यभिचारिणः ।
विशेषेणाभिमुख्येन भवन्ति स्थायिनं प्रति ।
वागङ्ग सत्त्वाभिनयै ज्ञेयास्ते व्यभिचारिणः ॥ ६१ ॥
तेतु त्रयस्त्रिंशन्निर्वेदादयः ।
-तत्र रसः ।
शृङ्गारहास्य करुणा रौद्रवीरभयानकाः
बीभत्साद्भुतशान्ताश्च रसानाट्येनिरूपिताः ॥ ६२ ॥
-तत्र तु स्थायिभावाः ।
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयन्तथा ।
जुगुप्सा विस्मयशमाः स्थायिभावाः प्रकीर्तिताः ।