सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 224, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 224

193
दृढप्रज्ञावर्माप्यपि हृदयमर्माणिरुजतः
कटाक्षाणेणाक्ष्याः मुनिरपि न सोढुं प्रभवति ॥ ७० ॥
श्वेतश्यामः ।
अदृश्यन्त पुरस्तेन लेखाखञ्जनपङ्क्तयः ।
अस्मार्यन्त विनिश्श्वस्य प्रियानयनविभ्रमाः ॥ ७१ ॥
तत्र चतुर्धाऽभिनय लक्षणम् ।
आङ्गिको वाचिकस्तद्वदाहार्यस्सात्विकोपरः ।
चतुर्धाभिनयस्तत्राङ्गिकोऽङ्गैर्दर्शितोमतः ॥ ७२ ॥
त्रिविधस्त्वाङ्गिकोदृष्टः शारीरो मुखजस्तथा ।
तथाचेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥ ७३ ॥
शारीरः शिरोहस्तकरणादिरङ्गविषयः ।
मुखजो नेत्र भ्रूविकारादिरूपाङ्गविषयः ॥ ७४ ॥
चेष्टाकृतस्तु निश्वसितोच्छूसिताक्षिपुटसम्मीलन
चमत्कारपतनघूर्णनादिः ।
तत्र शाखेति विख्याता विचित्रा करवर्तना ॥ ७५ ॥
॥ इति शाखा । इत्याङ्गिकः ।
वाचा विरचितः काव्य नाटकादिस्तु वाचिकः ।
इति वाचिकः ।
आहार्यो हार केयूर किरीटादि विभूषणम् ॥ ७६ ॥
इत्याहार्यः ।
25