सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 235, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 235

205
तथाच रत्नाकरमते ।
तण्डूक्तमुद्धतप्रायप्रयोगं ताण्डवम् मतम् । इति ताण्डवम् ।
अथलास्यम्
यौवनस्त्रीविलासिन्यः कामभावविचक्षणाः
यदङ्गहारवैदग्ध्यात्कुर्युर्लास्यमुदीरितम् ॥ १२५ ॥
तथाच रत्नाकरमते
लास्यन्तु सुकुमाराङ्गं मकरध्वजवर्धनम् । इति लास्यम् ।
(Sl. 124-125) Tandava (male dance) and Lasya
(Ladies' Dance)
(சு. 124-125) தாண்டவமும் (ஆடவர் நர்த்தனம்), லாஸ்ய
மும் (ஸ்த்ரீ நர்த்தனம்)
अथ मुखरागः ।
ईषद्विकास्यः प्रसन्नास्यो मुखरागो भवेद्द्विधा ।
सहजोऽसहजश्चेति प्रसन्नः कान्तिभूषितः । अथवा
स्वाभाविकः प्रसन्नश्च रक्तश्श्याम श्चतुर्विधः ।
स्वाभाविकस्तु सहजः स्वभावाभिनये भवेत् ॥ १२७ ॥
इति स्वाभाविकः ।
प्रसन्नो मधुरः सस्यात् शृङ्गाराद्भुतहास्ययोः । इति प्रसन्नः ।
रक्तस्स्याद्रोहितोवीरेकरुणेऽद्भुतहास्ययोः ॥ १२८ ॥
इति रक्तः ।