सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 218, कुल 258 में से
संदर्भ में पढ़ें187
तलपुष्पपुटं तत्स्यात् पादेग्रतलचञ्चरे ।
एतत्पुष्पाञ्जलित्यागे लज्जायां च नियुज्यते ॥ ३२ ॥
-तत्र अध्यर्धिकाचारी लक्षणम् ।
सव्यस्य पृष्ठदेशे स्या द्दामः सव्यस्य पार्श्वगः ।
सार्धतालान्तरस्थश्च एवं वामस्य दक्षिणः ।
यत्र साध्यर्धिकान्वर्था प्रोक्तान्यैर्हंसपादिका ॥ ३४ ॥
-तत्र पुष्पपुट लक्षणम्
सर्पशीर्षौ मिलद्वाह्यपार्श्वौ पुष्पपुटो भवेत् ॥ ३५ ॥
-तत्राग्रतलसञ्चर लक्षणम्
यस्योत्क्षिप्तोभवेत्पार्ष्णिंरङ्गुष्ठः प्रसृतस्तथा ।
अङ्गुल्यो न्यञ्चिताःसस्यात्पादोऽग्रतलसञ्चरः ॥ ३६ ॥
किञ्चिच्चाभिनयेन्नान्दीं पुष्पाञ्जलिविसर्जने ॥ ३७ ॥
“ भवतां भूतये भूयाद्भवानी भववल्लभा ।
अङ्गीकृत सुसङ्गीत भङ्गी मुदित मानसा ” ॥ ३८ ॥
-तत्रश्लोकाभिनयः ।
भवतां-पुरोदेशगतेन पताकेन ।
भूतये-शिरोदेशगताभ्यामलपल्लवाभ्यां ।
भूयात्-उद्वेष्टिताधोमुखगतेन पताकेन ।
भवानी-शिरोगतेन अञ्जलिना ।