सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 229, कुल 258 में से
संदर्भ में पढ़ें198
आङ्गिकाभिनयैरेव भावानेवव्यनक्तियत ।
तन्नृत्यं मार्गशब्देन प्रसिद्धं नृत्यवेदिनाम् ॥ ९४ ॥
गात्रविक्षेपमात्रन्तु सर्वाभिनयवर्जितम् ।
आङ्गिकोक्तप्रकारेण नृत्तं नृत्तविदोविदुः ॥ ९५ ॥
नृत्तं तत्कथितं तज्ज्ञैरर्थहीनं सुरेखकम् ।
केवलं तत्प्रयोक्तव्यं नृत्तं ताललयाश्रितम् ॥ ९६ ॥
इति नृत्यनृत्तलक्षणम् ।
-तत्र अङ्गप्रत्यङ्गोपाङ्गभेदः । सङ्गीतरत्नावळ्यां ।-
शिरोवक्षः करौपार्श्वं कटिश्चरणइत्यपि ।
षडङ्गानिभवन्त्येव कथितानि विपश्चिता ॥ ९७ ॥
उपाङ्गानि श्रुवौनेत्रे नासागण्डस्थलाधरम् ।
चिबुकंचेतिषट् प्राहुर्नृत्ये नृत्यविशारदाः ।
प्रत्यङ्गानि पुनर्ग्रीवा बाहू पृष्ठं तथोदरम् ।
ऊरूजङ्घायुतंचेति षडुक्तानि मनीषिभिः ॥ ९८ ॥
तथाचरत्नाकरः ।
अङ्गान्यत्रशिरोहस्तौवक्षः पार्श्वे कटीतटम् ।
पादाविति षडुक्तानि स्कन्धावप्यपरे जगुः ॥ ९९ ॥
प्रत्यङ्गानिस्विहग्रीवा बाहूपृष्ठे तथोदरम् ।
ऊरूजङ्गेषडित्याहुरपरे मणिबन्धकौ ॥ १०० ॥
जानुनी कूर्पराणीति त्रयमप्यधिकंजगुः
दृष्टिश्रूपुटताराश्च कपोलौनासिकाहनूः ॥ १०१ ॥