सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

६८ रसगङ्गाधरः
भेदत्वं कस्तर्हि ध्वनिगुणीभूतव्यङ्ग्ययोरीषदन्तरयोर्विभिन्नभेदत्वे दुराग्रहः ?
यत्र च शब्दार्थचमत्कृत्योरेकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्या-
स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूच्छन्मोहमहर्षिहर्षविहितस्नानाऽह्निकाऽह्नाय वः ।
भिद्यादुद्यदुदारदर्दुरदरी दीर्घादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ इति ॥
शब्दचित्रस्योदाहरणमिदं काव्यप्रकाशे दत्तम् । अत्र वृत्त्यनुप्रासो नाम शब्दा-
लङ्कारः । शब्दचित्रत्वं तु स्फुटमेवास्य । मन्दाकिनीविषयप्रीतेर्भक्त्यपरपर्यायाया
अत्र व्यङ्ग्यत्वेऽपि तस्या अस्फुटतरत्वेन कविविवक्षाऽविषयत्वेन वा न तामादायास्य
शब्दचित्रत्वव्याघात इति तदाशयः । तदुक्तमानन्दवर्धनेन—
रसभावादिविषयविवक्षाविरहे सति ।
अलङ्कारनिबन्धो यः स चित्रविषयो मतः ॥ इति ॥
अत्रालङ्कारशब्दोऽर्थालङ्कारस्य शब्दालङ्कारस्य च वाचकः । तथा च रसादि-
विवक्षाविरहे सत्यर्थालङ्कारयोजनेऽर्थचित्रत्वं शब्दालङ्कारयोजने च शब्दचित्रत्वं तन्मत
इति विशेषः । ईषदिति । स्वमताभिपायेणतदुपपद्यते, स्वमते हि ध्वनिगुणी-
भूतव्यङ्ग्ययोर्व्यङ्ग्यस्य चमत्कारातिशाधायकत्वे समानेऽपि पूर्वस्मिन् प्राधान्यं तस्य
परस्मिंश्चाऽप्राधान्यमित्येवाल्पीयान् भेदः । परमते पुनरन्त्ये चमत्कारातिशयजनकत्वं
व्यङ्ग्यस्य नास्तीति महान् भेदोऽनयोरिति स्पष्टम् । तथा च कथं परमतानुसारे-
णैतदुक्तं युक्तमिति चिन्त्यं सुधीभिः ।
ननु शब्दचित्रस्याऽकाव्यत्वेऽपि उभयचित्रस्य 'वराहः कल्याणं वितरतु स वः
आदि शब्दचित्र के साथ समानता मानता हो ? यदि स्पष्ट तारतम्य रहने पर भी
दोनों को एक कोटि में रखा जाय तब ध्वनि एवम् गुणीभूतव्यङ्ग्य को भिन्न-भिन्न
कोटि में रखने का दुराग्रह क्यों ? इन दोनों में भी तो इतना ही अन्तर है कि
प्रथम में व्यङ्ग्यार्थ प्रधान होता है जब कि द्वितीय में गौण । अतः अर्थचित्र एवं
शब्दचित्र को परस्पर-भिन्न कोटियों में रखना हीं उचित है । एवञ्च यदि किसी
एक काव्य में अर्थचमत्कार भी हो और शब्दचमत्कार भी तो अर्थचमत्कार के प्रधान
सिद्ध होने पर उसे मध्यमकाव्य और शब्दचमत्कार के प्रधान होने पर उसे अधम
काव्य कहना चाहिए । यदि दोनों के गुणप्रधानभाव का निर्णय न हो सके तो उसे
मध्यम काव्य हीं कहा जाना चाहिए, क्योंकि व्यङ्ग्यार्थ के वाच्यार्थ की अपेक्षा
अधिक भ्रमत्कारजनक न होने से उसमें व्यङ्ग्यचमत्काराऽसमानाधिकरण वाच्य-
चमत्कार माना जा सकता है ।

लोच्य यथालक्षणं व्यवहर्तव्यम् । समप्राधान्ये तु मध्यमतैव ।
यथा—
उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।
उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः
संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥
अत्र वृत्यनुप्रासप्राचुर्यादोजोगुणप्रकाशकत्वाच्च शब्दस्य प्रसादगुण-
कल्पविरमे' इत्यादेः काव्यत्वस्याऽनपलाप्यत्वात् पुनरपि चतुर्धाविभागोनुपपन्न एवेत्यत
आह—यत्रेत्यादि । अयं च यत्र इत्यारभ्य मध्यमतैव इत्यन्तो ग्रन्थो व्याख्यात-
पूर्वः ।
समप्राधान्योदाहरणमाह—उल्लास इति । फुल्लानां विकसितानां पङ्के रुहाणां
कमलानां पटले समूहे पततां मत्तानां पुष्पन्धयानां मधुकराणामुल्लास उल्लास-
कारणम्, शोक एवान्तर्दाहकत्वाद्दावानलस्तेन विकलं हृद् यासां तासां कोकसीमन्ति-
नीनां चक्रवाकवधूनां निस्तारो दुःखनिवारकः, अपहृतं लघीयस्तेजो यैस्तेषां तमःसमू-
हानामुत्पातो विनाशकः, यत्त्वत्रोपहतमहसामिति चक्षुषां विशेषणम्, तथा चोपहतं महो
दृष्टिसामर्थ्यं येषां चक्षुषामन्धकारे तेषां पक्षपातः सहायकः प्रतिबन्धकीभूततमःपुञ्ज-
विनाशकत्वात्, एतादृशो यः कोऽपि विलक्षणो धाम्नां संघातः सूर्यः सोऽयमुदयगिरि-
प्रान्ततः प्रादुरासीत् । 'प्रादुरास्ते' इत्युचितम् ॥
अत्रेत्यादि । अयमर्थः—अत्र लकारपकारादेरसकृन्निर्देशाद् वृत्यनुप्रासः, एक-
वाक्यार्थस्य बहुभिर्वाक्यार्थैरभिधानाद्, विशेषणानां साऽभिप्रायत्वादोजो गुणस्त-
त्प्रकाशकवर्णसत्त्वाद् यावदर्थकपदघटितत्वाच्चं प्रसादगुणः । ततश्च वाक्यार्थ-
बोधानन्तरमत्र रूपकं प्रतीयते, रत्नाकरादिमतेन कारणे कार्यारोपस्यापि
रूपकत्वात् । ये पुनरुपमेय उपमानारोपमेव रूपकं मन्यन्ते तन्मतेऽत्रोल्लासादिकारणे
इसका उदाहरण यह है—
"विकसित कमल के पत्तों पर टूट पड़ने वाले उन्मत्त भौरों के लिए उल्लास
(-कारक), वियोगस्वरूप दावानल से सन्तप्त हृदय वाली चक्रवाकियों के विरह-शोक
का विनाश (-कारक), अन्धकार के समूह के लिए उत्पात (-कारक=विनाश-
कारक) और रात्रि में जिनकी ज्योति मन्द पड़ जाती उन आँखों के प्रति पक्षपात
(करने वाला) यह कोई विलक्षण तेजःपुञ्ज (से सम्पन्न सूर्य) उदित हो रहा है ।"
इस पद्य में वृत्यनुप्रास शब्दालङ्कार का प्रचुर प्रयोग है । साथ हीं शब्द-
विन्यास ओजःपूर्ण एवं प्रसादगुणयुक्त है । अतः शब्दगत चमत्कार स्पष्ट है । इसके

योगादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य चमत्कृत्यो-
स्तुल्यस्कन्धत्वात्सममेव प्राधान्यम् ॥
तत्र ध्वनेरुत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः केऽपि भेदा निरू-
प्यन्ते—द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च । तत्राद्यस्त्रिविधः—
रसवस्त्वलङ्कारध्वनिभेदात् । रसध्वनिरित्यलक्ष्यक्रमोपलक्षणाद्रसभावतदा-
भासभावशान्तिभावोदयभावशबलत्वानां ग्रहणम् । द्वितीयश्च द्विविधः—
अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च । एवं पञ्चात्मके ध्वनौ
परमरमणीयतया रसध्वनेस्तदात्मा रसस्तावदभिधीयते—
कार्यस्योल्लासादेरारोपात् तदभाव इति हेतुहेतुमतोरभेदाऽभिधानस्वरूपो हेत्व-
लङ्कारोऽत्र । अयं चालङ्कारो पण्डितराजेनाव्याख्यातोऽप्यत एव तत्सम्मत इति
प्रतीयते । पूर्वं 'गतोऽस्तमर्कः' इत्यत्र हेत्वलङ्काराभावाभिमतत्वोक्तिस्तु तन्मात्र-
विषयकः, तत्र सूर्यास्तस्य तत्तत्कार्यज्ञापकत्वेऽपि कार्यकारणयोरभेदेनाऽभिधाना-
भावात् । ज्ञाप्यस्य चार्थस्य व्यञ्जनयैव प्रतीतिरूपपद्यते । अत एव तत्र हेत्वलङ्कारो
दण्डिसम्मतोऽपि नाभिमतः पण्डितराजस्य, तादृशहेतूपादानस्य विच्छित्त्यनाधाय-
कत्वात् । हेतुहेतुमदभेदाऽभिधानस्याप्यलङ्कारत्वं न सर्वसम्मतम्, आयुर्घृतमित्यादौ
तथाविधे चमत्काराभावात् । यत्र पुनस्तथाविधे चमत्कारस्तत्र काव्यलिङ्गेनापि
निर्वाहसम्भवे व्यर्थं हेत्वलङ्कारकल्पनम् । अत एव भामहेनोक्तम्—
हेतुश्च सूक्ष्मो लेशोऽथ नाऽलङ्कारतया मतः ।
समुदायाऽभिधानस्य वक्रोक्त्यनभिधानतः ॥ इति ॥
यद्वाऽत्र हेत्वलङ्कारोऽपि भट्टोद्भटानुरोधेनैवोक्त इति सुधियो विभावयन्तु ।
तथा चात्र वृत्त्यनुप्रासादिघटितशब्दचमत्कारस्य रूपकस्य हेत्वलङ्कारस्य वा वाच्य-
भूतस्य चमत्कारस्य तुल्यकक्ष्यत्वादेकतरप्राधान्यनिर्णयाभावे सममेवोभयोः प्राधान्य-
मिति युक्तं मध्यमकाव्यत्वमस्येति ॥
केऽपि = प्रमुखाः । अर्थान्तरसङ्क्रमित इत्यजहत्स्वार्थाऽपरपर्यायोपादान-
लक्षणास्थलाभिप्रायेण । अत्यन्ततिरस्कृत इति जहत्स्वार्थाभिधानलक्षणलक्षणास्थला-
भिपायेणोक्तम् । तदात्मा = तस्य रसध्वनेर्विषयः । अभिधीयत इति । 'रसानुभूति-
अतिरिक्त जो कार्य-कारण में भेदारोप को भी रूपक मानते उनके अनुसार इसमें
रूपकालङ्कार और जो केवल उपमान और उपमेय के भेदारोप को हीं रूपक
मानते उनके मत में हेत्वलङ्कार है । इस अर्थगत अलङ्कार में चमत्कारजनकता है
हीं । ये दोनों हीं चमत्कार समानकोटि के हैं, क्योंकि इनमें से किसी भी एक को
उत्कृष्ट मानने का कोई स्पष्ट आधार नहीं है । अतः शब्दचमत्कार तथा अर्थ-
चमत्कार दोनों की हीं प्रधानता समानरूप से है । अत एव यह मध्यम काव्य का

प्रथमाननम् ७१
समुचितललितसंनिवेशचारुणा काव्येन समर्पितेः सहृदयहृदयं प्रविष्टैस्त-
वोयसहृदयतासहकृतेन भावनाविशेषमहिम्ना विगलितदुष्यन्तरमणीत्वादि-
प्रक्रियाऽभिधानमेवात्र रसाभिधा : विवक्षितम् ।
समुचितेत्यादि । समुचितो रसाभिव्यक्त्यनुकूलोऽत एव ललितो यः शब्दार्थ-
गुम्फनस्वरूपः सन्निवेशस्तेन चारुणा काव्येन समर्पिता उपस्थापिताः । अयमाशयः-ये
शकुन्तलादयः पूर्वमालम्बनकारणादिपदव्यपदेश्या आसन् त एव सहृदयहृदयं
प्रापिताः सन्तः सहृदयानां या सहृदयता रत्यादिवासना प्राक्तनी तया सहकृतेन
चर्वणापरपर्यायभावनाविशेषस्य काव्यार्थविषयकपुनः पुनरनुसन्धानात्मकस्य महिम्ना-
ऽलौकिकीक्रियन्तेऽत एव विभावानुभावव्यभिचारिभावव्यपदेशं लभन्ते, विभावना-
द्यलौकिकव्यापारवत्त्वात् । एते चालौकिका मानसा विभावादयो मानसप्रत्यक्षवेद्याः,
साक्षिप्रत्यक्षवेद्या इति परमार्थः । तथा च वक्ष्यत्यग्रे । अस्याञ्चालौकिकयामवस्थायां
लोकसम्बन्धः सर्वथा परिहृतो भवतीति हेतोः ये शकुन्तलादयो दुष्यन्तरमणीत्वादिनो
प्रतीयन्ते स्म त एव रमणीत्वादिना माधारणेन रूपेण प्रतीयमाना भवन्ति ।
अत एव च पुरुषविशेषसम्बन्धोऽपि परिहृतो भवति, रमणीमात्रस्य यांग्यमात्र-
साधारणत्वौचित्यात् । अत एव च पूर्वार्जितायाः शकुन्तलादिविषयकरत्यादिवा-
सनाया अपि शकुन्तलादिविषयकत्वाद्यंशो विगलितो भवति येन प्राक्तनरत्यादि-
वासनया सहास्या वासनाया भेदोऽपि तावत्कालं विगलितो भवति । प्रादुर्भावितेन ==
उदाहरण है ॥
उपर्युक्त चतुर्विध काव्यों के बीच उत्तमोत्तम, अर्थात् ध्वनिकाव्य के अनन्त भेद
हैं । इनमें कुछ प्रमुख भेदों का निरूपण किया जा रहा है—
ध्वनि के दो भेद हैं—अभिधामूल ध्वनि एवम् लक्षणामूल ध्वनि । प्रथम के
तीन उपभेद हैं—रसध्वनि, वस्तुध्वनि और अलङ्कारध्वनि । इनमें रसध्वनि सभी
असंलक्ष्यक्रम ध्वनियों का उपलक्षण है । अतः इससे रस के साथ-साथ भाव, रसा-
भास, भावशान्ति, भावोदय, भावसन्धि और भावशबलता इन सबका ग्रहण
करना चाहिए । लक्षणामूल ध्वनि के भी दो उपभेद हैं—अर्थान्तरसंक्रमितवाच्य
और अत्यन्ततिरस्कृतवाच्य ।
उपर्युक्त पांच प्रकार की ध्वनियों में रसध्वनि सर्वाधिक रमणीय है । अतः
रसध्वनि के विषयभूत रस का निरूपण किया जा रहा है—
सर्वप्रथम रत्यादि के आलम्बन कारण शकुन्तला आदि, उद्दीपन कारण चन्द्रिका
आदि, इनके कार्य अश्रुपात आदि और चिन्ता आदि सहकारियों का रसोचित पद-
विन्यास के कारण ललित काव्यादि द्वारा सहृदय अनुभव करते । तत्पश्चात् प्राक्तन
रत्यादिवासनास्वरूप सहृदयता से वे उन कारण-कार्यों का पुनः पुनः अनुसन्धान

७२ रसगङ्गाधरः
भिरलौकिकविभावानुभावव्यभिचारिशब्दव्यपदेश्यैः शकुन्तलादिभिरालम्बन-
कारणैः, चन्द्रिकादिभिरुद्दीपनकारणैः, अश्रुपातादिभिः कार्यैः, चिन्तादिभिः
व्यापारितेन । अलौकिकेन व्यापारेण = व्यञ्जनाख्येन व्यापारेण । अस्या अलौकिक-
त्वन्तु आनन्दांशावरणनिवर्त्तकत्वस्वरूपालौकिककार्यकारित्वादलौकिकविभावादिचर्व-
णोपात्तसामर्थ्याच्च । अलौकिककाव्यनिष्ठत्वेनाऽलौकिकत्वं तु न युक्तम्, व्यञ्जनायाः
काव्यतदितरसाधारणत्वात् । यद्वा विभावादिचर्वणया एकतो व्यञ्जनया वासना-
रूपाणां रत्यादीनामभिव्यक्तिरपरतश्चान्येन केनचनालौकिकव्यापारेण विभावना-
दिव्यापारेण स्वजनितेनःनन्दांशावरणनिवृत्तिः । अथवा स्वसंवेदनात्मकेन रत्याद्यु-
पहितानन्दांशसाक्षात्कारप्रत्यक्षेण रसो व्यङ्ग्यः । अत्रैव व्यञ्जनोपयोगः । तत्कालम् =
विभावादिचर्वणासमकालम् । अत एव न सर्वदा रसास्वादप्रसङ्ग इति वक्ष्यति । प्रमातृ-
त्वम् = अन्तःकरणस्य अविद्याकार्यत्वाज्जडत्वादानन्दांशावरकत्वेन चैतन्यविशेषण-
त्वम् । निजेत्यादि । निजस्वरूपानन्देन सह प्राग्विनिविष्टवासनारूपो रत्यादिरेव
गोचरीक्रियमाणो रस इत्यन्वयः । अत एवास्वाद्यमान एव रसः । वस्तुतोऽयमास्वाऽ-
दोपि नातिरिक्त आस्वाद्यमानादिति गौण एव रसस्यास्वाद इति व्यपदेशः । अत एव
स्वसंवेदनसिद्धो रसोऽप्रमेयः कथ्यते । एतदेव स्थायिनो रसस्य वैलक्षण्यम् यदा-
स्वाद्यमानो रत्यादिर्लभते रससंज्ञाम्, अनास्वाद्यमानस्तु स्थायिव्यपदेशम् । प्राग्विनि-
विष्टवासनारूप इत्यनेन च सामाजिकनिष्ठानां वासनात्मकतया स्थितानां
रत्यादीनामेवास्वाद्यमानानां रसत्वप्रतिपादनम् । अत एव सामाजिकानां रसास्वा-
दोऽञ्जसोपपद्यते । काव्यार्थानुसन्धानादिना तु जायमानया रत्यादिवासनया व्यञ्जना-
व्यापारोद्बुद्धया तत्तादात्म्यापन्नसामाजिकनिष्ठरत्यादिवासनोद्बोध एवाभिप्रेतोऽत्र ।
यद्वा भावनाविशेषमहिम्ना विगलितत्वात् शकुन्तलादिविषयत्वादे रत्यादिवासने-
दानीन्तन्‍यपि सामाजिकनिष्ठैव । अस्मिंश्च पक्षे इदानीन्तनवासनायाः प्राक्तनरत्या-
दिवासनोद्बोधकतया सार्थकतवं बोध्यम् ।
करते। इसी अनुसन्धान को 'भावना' या 'चर्वणा' भी कहते। इस भावना के प्रभाव से
पूर्वानुभूत आलम्बनकारण आदि अलौि- क स्वरूप अर्थात् मानस तत्त्व का आकार ग्रहण
कर लेते । इस अवस्था में इनके नाम भी लौकिक उक्त कारण आदि से विलक्षण हो
जाते । अतः आलम्बन कारण को आलम्बन 'विभाव', उद्दीपन कारण को उद्दी-
पन 'विभाव', अश्रुपातादिस्वरूप कार्य को 'अनुभाव' और चिन्ता आदि सहकारियों
को 'व्यभिचारिभाव' कहा जाने लगता है । भावनाप्रसूत इस अवस्था में 'यह अमुक
की प्रियतमा है, अमुक की नहीं या मेरी है या मेरी नहीं'—इस प्रकार के व्यक्तिगत
सम्बन्धों का बोध नहीं होता । अतः जो पहले दुष्यन्त की प्रियतमा के रूप में
प्रतीत हो रही थी वही शकुन्तला मात्र प्रियतमा कामिनी के रूप में प्रतीत होने

प्रथमाननम् ७३
सहकारिभिश्च संभूय प्रादुर्भावितेनालौकिकेन व्यापारेण तत्कालनिर्वति-
तानन्दांशावरणाज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा
अयमर्थः— प्राक्तनरत्यादिवासनावासितहृदया सहृदयाः यदा नाट्यावलोकनं
काव्यपाठं काव्यश्रवणं वा कुर्वन्ति तदा नाट्ये वेषभाषाद्यारोपितदुष्यन्तादिता-
दात्म्यवतां नटानां श्रव्ये च शब्दोपात्तदुष्यन्तादीनां व्यापारमवगत्य ततो दुष्यन्तादि-
निष्ठशकुन्तलादिविषयकरत्याद्यनुमिति कुर्वन्ति व्यञ्जनया वाऽनुभवन्ति रत्यादीन्
यतश्चानन्तरं वासनारूपेण दुष्यन्तादिनिष्ठशकुन्तलादिविषयका रत्यादयस्तदन्तःकरणे
सन्तिष्ठन्ते । अनन्तरं च यदा ते काव्यार्थान् पुनः पुनरनुसन्दधते (= काव्यार्थ-
भावनां कुर्वन्ति) तदा पूर्ववासनासहकृतकाव्यार्थभावनामहिम्ना काव्यार्थानुभवकाले
रत्याद्यालम्बनकारणदिरूपेण प्रतीयमानाः शकुन्तलादयो विभावनानुभावनव्यभि-
चारणाख्यत्रितयालौकिकव्यापारनिमित्तकं क्रमेण विभावानुभावव्यभिचारिस्वरूपम-
लौकिकं व्यपदेशं भजन्ते । एते चालौकिका विभावादयोऽन्तःकरणधर्मभूता मानस-
प्रत्यक्षवेद्याः साक्षिभास्या भवन्तीति वक्ष्यते । भावनाविशेषलब्धस्वरूपत्वाद् विभा-
वादीनामस्यामवस्थायां लोकसम्बन्धः सर्वथा परिहृतो भवतीति हेतोर्दुष्यन्तरमणीत्वा-
दिना पूर्वं प्रतीता अपि शकुन्तलादयो रमणीत्वादिसाधारणरूपेणैव प्रतीयन्ते । अत
एवैतत्सादधारणीकरणमित्यप्युच्यते । यदा चैते विभावादयः सम्भूय सहृदयैश्चर्व्यन्ते
तदाऽलौकिकत्वादेवेषां व्यञ्जनया वासनारूपेण स्थिताः शकुन्तलादिविषयकरत्यादयः
केवलं विगलितव्यक्तिविशेषसम्बन्धेन रत्यादिरूपेणैवाभिव्यज्यन्ते = प्रतियोग्यतां
प्राप्यन्ते येन प्राक्तनरत्यादिवासनेदानीन्तनरत्यादिवासनयोश्चाभेदावसायो भवति ।
अलौकिकविभावादिचर्वणापर्यन्तमेव लब्धसामर्थ्येन व्यञ्जनाख्यनानेन व्यापारेण
अलौकिकर सास्वादसहकारित्वादप्यलौकिके तिव्यपदेश्येन वासनात्मक रत्याद्यवच्छिन्न-
चैतनस्यानन्दांशावरकमज्ञानं यावद्विभावादिचर्वणाकालं निवर्त्यते । एतेन चिदंशावर-
लग जाती । इसी प्रकार जो चन्द्रिका आदि दुष्यन्त की रति के उद्दीपन के रूप में
प्रतीत होते थे वे अब केवल रति के उद्दीपन के रूप में प्रतीत होने लग जाते ।
दुष्यन्त की शकुन्तलानामक स्वकीय कान्ता में अनुभूत रति भी अब केवल कान्ता-
विषयक रति के रूप में सहृदय के अन्तःकरण में उपस्थित रहती जिससे प्राक्तन
रत्यादिवासना और आधुनिक रत्यादिवासना में एकदेशस्थता के कारण कोई भेद
नहीं रह जाता । इस प्रकार अब विभावादिरूप में सहृदय उन सब की
सम्मिलित रूप में चर्वणा—भावना करने लग जाते । विभावादि की सामूहिकरूप
में की गई इस चर्वणा से व्यञ्जनानामक अलौकिक काव्यव्यापार का उद्भावन
होता जिससे एक ओर तो सहृदय की आत्मा के आनन्दस्वरूप (और चित्स्वरूप)
पर पड़ा हुआ अज्ञान का आवरण (= पर्दा) उस समय (चर्वणा-काल तक) निरस्त

७४ रसगङ्गाधरः ज्ञानन्
स्वप्रकाशतया वास्तवेन निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्राग्विनि-
विष्टवासनारूपो रत्यादिरेव रसः ॥
कस्याज्ञानस्यापि तावत्कालं निवृत्तिर्दर्शिताैव । सदंशस्त्वनावृत एव । यद्वाऽन्येनैवालोकि-
केन व्यापारेणावरन्निवृत्तिः । ततश्च वासनात्मकरत्यादेरन्तःकरणस्थतया तस्यैव
चान्तःकरणस्य प्रमातृचैतन्यविशेषणतया तत्तच्चैतन्यभेदसाधकत्वाभावेन रत्याद्यव-
च्छिन्नचित आनन्दांशावरणनिवृत्त्या प्रमातृचैतन्यान्दांशावरणनिवृत्तिरपि सम्पन्नैवेति
हेतोरन्तःकरणस्याज्ञानकार्यस्य चैतन्यावरकत्वाभावाद्विशेषणत्वं व्याहतमुपाधित्वं च
कार्यान्वयित्वरूपमागतमेव । अयमेव प्रमातृत्वादिपरिमितधर्माणां प्रमोष उक्तः ।
सर्वज्ञत्वादिपरमात्मस्वरूपापत्तिस्तु नार्थः, अशास्त्रीयत्वादसंगतेश्च । तथा च रत्याद्यव-
च्छिन्नचितः प्रमातृचैतन्यस्य चानन्दांशावरणनिवृत्त्योभयोश्च चितोर्विभाजकैकदेशस्थ-
तयैकत्वेन व्यञ्जनापादितभासनयोग्यत्वस्य रत्यादेः स्वरूपानन्देन सह स्वरूपचितैव
अन्तःकरणोपहितत्वेन साक्षिव्यपदेश्यया भासनम् । इदमेवास्वादनमुच्यते । अनेनैवा-
स्वादेन वा व्यङ्ग्यः प्राग्विनिविशिष्टवासनात्मा रत्यादिरधिगतो रसपदवीम् इति
पूर्वोऽलौकिकव्यापारो व्यञ्जनाभिन्न एव कश्चित् । काव्यमूलकत्वाच्चास्या रस-
हो जाता' और दूसरी ओर वासनारूप में सहृदय के अन्तःकरण में विद्यमान रत्यादि-
स्थायी भाव उद्बोधित होकर आस्वादनयोग्य बन जाते । अथवा व्यञ्जना से
रत्यादि में आस्वाद्ययोग्यता आती और किसी अन्य अलौकिक व्यापार से आवरण-
भङ्ग होता । चिदंश के आवरण के निरस्त हो जाने से आत्मा का प्रमातृत्व
( = अन्तःकरण की विशेषणता जिसके चलते वह चैतन्य प्रकाशित न हो पाता था
वह) भी विनष्ट हो जाता और उसमें साक्षित्व ( अर्थात् अन्तःकरण में उपाधित्व
जिससे वह आत्मा का व्यावर्तक — भेदक होकर भी उसके स्वयंप्रकाशनस्वरूप और
प्रकाशनात्मक कार्य पर आघात नहीं पहुँचा सकता वह) प्रकट हो जाता । अब
अज्ञानावरणरहित आत्मस्वरूप आनन्द के साथ अन्तःकरण में निहित वासनात्मक
रत्यादि स्थायीभाव का साक्षिप्रत्यक्ष होने लगता । इसी साक्षिप्रत्यक्षवेद्य (आस्वाद्य-
मान) स्थायी भाव को 'रस' कहा जाता है । इस साक्षिप्रत्यक्ष को हीं 'रसास्वाद'
कहा जाता है जो रत्याद्युपहित साक्षी के स्वरूप से पृथक् नहीं है । अत एव
आस्वाद्यमान रस तथा आस्वाद में कोई तात्त्विक अन्तर नहीं प्रतीत होता ।
१. यह आवरणभङ्ग इसलिये आवश्यक है चूँकि इसके विना रसास्वाद आनन्द-
स्वरूप नहीं हो सकता । कारण यह है कि अद्वैत वेदान्त के सिद्धान्त में
आनन्द आत्मा का स्वरूप है । सांसारिक पदार्थों में आनन्द की जो प्रतीति
होती वह तो उस आत्मा के आनन्द के सम्पर्क से हीं, स्वरूपतः नहीं ।

प्रथमाननम् ७५
(१) तथा चाहुः—'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः'
इति । व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिश्च भग्नावरणा चित् । यथा हि
शरावादिना पिहितो दीपस्तन्निवृत्तौ संनिहितान्पदार्थान्प्रकाशयति, स्वयं च
प्रकाशते, एवमात्मचैतन्यं विभावादिसंबलितान्रत्यादीन् । अन्तःकरणधर्माणां
व्यञ्जनायाः काव्यनिष्ठत्वव्यपदेशोऽपि । आस्वाद्यमानश्च रत्यादिर्वासनात्मकतया
सहृदयहृदयस्थितो रस इत्युच्यते । अत्र च सर्वा अनुपपत्तयोऽलौकिकत्वादेव समा-
धेया इति । यदि त्वलौकिकोऽयमास्वादो विभावादिसमुदितरत्यादेरभिमतः समूहा-
लम्बनात्मकस्तर्हि वासनारूपेणान्तःकरणधर्माणां विभावादीनामपि रत्यादिभिः सह
साक्षिभास्यत्वम् बोध्यम् ।
उक्तार्थे मम्मटोक्तिं प्रमाणयति--तथेत्यादिना । यद्यपि मम्मटोक्तौ 'व्यक्तः'
इत्यस्य व्यञ्जनया प्रकटीकृतः इति चर्वित इति चार्थः साम्प्रदायिकस्तथाऽपि "यो
वै भूमा तत्सुखम्, अतोऽन्यदार्तम्" इत्यादिश्रुतेः चिदात्मन एवानन्दरूपत्वेन तदितर-
स्य च स्वत आनन्दरूपत्वाभावेनात्मानन्दसंस्पर्शमन्तरेण आस्वाद्यमानस्य रत्यादेरा-
नन्दरूपत्वं न सम्भवतीत्यतोऽन्य

७६ रसगङ्गाधरः
साक्षिभास्यत्वाभ्युपगतेः विभावादीनामपि स्वप्नतुरगादीनामिव रङ्गरजता-
दीनामिव साक्षिभास्यत्वमविरुद्धम्। व्यञ्जकविभावादिचर्वणाया आवरण-
वृतं सदावरकाज्ञाननिवृत्तौ सन्निहितान् अन्तःकरणधर्मान् विभावादीन् तदभिव्यक्तं
रत्यादिञ्च प्रकाशयति स्वयं च प्रकाशते। विभावादिसम्बलितनित्यस्य समूहालम्ब-
नात्मकास्वादपक्षे विभावादिविशिष्टान् इति, इति पक्षान्तरे च विभावाद्युपलक्षिता-
निति भावः। अत्राद्य एव पक्षो युक्तः, विभावादीनामन्तःकरणधर्माणामस्वाद-
कालेऽपि विद्यमानत्वात्। अधिकं विज्ञैर्विवेचनीयम्। स्वप्नतुरगादीनामिति।
स्वप्नतुरगादयोऽन्तःकरणवासनाकल्पिता इति वेदान्तसिद्धान्तः। तथा च श्रुतिः-
'न तत्र रथा रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजते' इति।
तथा च शुद्धचैतन्याधिष्ठानस्यापि स्वप्नतुरगस्यान्तःकरणद्वारा मायापरिणामत्वपक्षे-
ऽन्तःकरणधर्मत्वोपपत्तिः। रङ्गरजतेत्यादिदृष्टान्तान्तरम्। विषयचैतन्याध्यस्तस्यापि
रङ्गरजतस्य प्रतिभासकाले विषयचैतन्यान्तःकरणोपहितचैतन्ययोरऽभिन्नतया
विषयचैतन्याऽध्यस्तमपि रङ्गरजतं भवत्यन्तःकरणधर्मः कथञ्चित्। तथा च
'प्रतिभासिकपदार्थानां यावत्प्रतिभासमवस्थितेः प्रतिभासात्पूर्वमनवस्थानेन तत्र
बाह्यकरणव्यापाराऽसम्भवात् तेषां केवलसाक्षिवेद्यत्वमुक्तं वेदान्ते। तथैव विभा-
दीनामपि मानसत्वात्तत्र बाह्यकरणव्यापाराऽसम्भवेन साक्षिवेद्यत्वमुपपन्नमि-
त्याशयः। दृष्टान्तद्वयं च स्वप्नजाग्रद्भेदाभ्यां दृढप्रतिपत्तये वेति बोध्यम्। रत्यादिभिः
सहावस्थितस्यानन्दस्यात्मस्वरूपभूतस्य आस्वादस्य चानन्दाऽभिन्नस्य नित्यत्वात्
स्थायिनोऽपि रसास्वादात् पूर्व परतश्चावस्थानात् कथं रसस्योत्पादविनाशौ व्यपदि-
श्येते इत्यत आह-व्यञ्जकेत्यादि। यद्वा रत्यादेरेवास्वाद्यमानस्य रसस्वरूपतया
स्थायित्वाच्च तस्य आस्वादकाले ततः पूर्वं परतश्च सत्त्वात् कथं रसोत्पत्ति-
होता और स्वसम्बद्ध विभावादि से 'सम्बलित' रत्यादि स्थायी भावों को भी
प्रकाशित करने लग जाता है। विभावादि से 'सम्बलित' होने के दो अर्थ हो सकते
हैं-विभावादि से विशिष्ट और उनसे उपलक्षित। विशेषण व्यावर्तक-भेदक होने
के साथ-साथ विधेय-कार्य से भी जुड़ा रहता। जो समूहालम्बनात्मक रस मानते
उनके मत में रस में स्थायी के साथ-साथ विभावादि के भी जुड़े होने से प्रथम अर्थ
समझना चाहिए। किन्तु जो वैसा नहीं मानते उनके अनुसार विभावादि से उप-
लक्षित रत्यादि स्थायी भावों का हीं आनन्दांश के साथ प्रकाशन होता। यह
प्रकाशन भग्नावरणा चित् से होता जिसे 'साक्षी' कहा जाता। अतः विभावादि के
साथ-साथ रत्यादि का प्रकाशन साक्षी द्वारा हीं होता। ऐसे हीं पदार्थों को साक्षि-
भास्य कहा जाता। अत एव विभावादि से सम्बलित रत्यादि भी साक्षि-भास्य हैं।
शकुन्तला आदि तो बाह्य पदार्थ अवश्य हैं, परन्तु जब ये विभाव आदि का स्वरूप

प्रथमाननम् ७७
भङ्गस्य वोत्पत्तिविनाशाभ्यामुत्पत्तिविनाशौ रसे उपचर्येते वर्णनित्यतायामिव
विनाशावास्वादतदनन्तरकालयोरित्येवमवतारणीयो ग्रन्थः । विभावादिचर्वणाया
उत्पत्तिविनाशाभ्यामलौकिकस्य व्यापारस्य तत्कार्यकारित्वस्य वोत्पत्तिविनाशौ,
ततश्चावरणभङ्गस्यापि ताविति आस्वादस्याप्युत्पत्तिविनाशौ स्थायिनश्च तावुप-
चर्येते । चर्वणाया आस्वादाद् अलौकिकव्यापारावरणभङ्गाभ्याम तिव्यवहितत्वा-
च्चर्वणोत्पत्तिविनाशाभ्यां रसास्वादादेरुत्पत्तिविनाशोपचारे दीर्घपरम्पराश्रयणमित्यत-
स्तद्व्यवहितोत्तरावरणभङ्गोत्पत्तिविनाशयोरेव तत्रारोप उचित इत्याशयेनावरण-
भङ्गस्येति विकल्प उपात्तः । तथाचाद्ये स्वाश्रयभावनाजन्यजन्योत्तरत्वं परम्परा-
सम्बन्धः, द्वितीये तु स्वाश्रयोत्तरत्वमेवेति प्रथमोपचारनिमित्तापेक्षया द्वितीयोपचार-
निमित्तसम्बन्धे लाघवम् । उभयत्र स्वमुत्पत्तिविनाशौ । आद्ये तदाश्रयो भावना
तज्जन्यस्तदुद्बोधितो वाऽलौकिको व्यापारस्तज्जन्य आवरणभङ्गस्तदुत्तरत्वं रसस्य
आस्वाद्यमानस्थायिन इति समन्वयः । उत्तरत्र स्वमुत्पत्तिविनाशौ तदाश्रय आव-
रणभङ्गस्तदुत्तरत्वं रसस्येति समन्वयः । परम्परासम्बन्धेनोत्पत्तिविनाशोपचार-
प्रसिद्धयर्थं दृष्टान्तमाह—वर्णेत्यादि । कर्ममीमांसकमते वर्णा नित्याः, कण्ठ-
ताल्वाद्यभिघातास्तु तेषां व्यञ्जका एव न तूत्पादका इति सिद्धान्तः । तत्र यथा-
ऽभिव्यञ्जकानां कण्ठताल्वाभिघातानामुत्पत्तिविनाशयोर्वर्णेष्वारोपात् ककारादेरु-
त्पादविनाशशालित्वप्रतीतिः ‘उत्पन्नः ककारः’, ‘विनष्टः ककारः’ इत्यकारिका तथैव
प्रकृतेप्यावरणभङ्गस्योत्पत्तिविनाशाभ्यां रसेऽप्युत्पादविनाशप्रतीतिरित्यर्थः । वर्णस्थले
च स्वाश्रयाऽभिव्यञ्जकत्वं नाम परम्परासम्बन्धः । स्वमुत्पत्तिविनाशौ तदाश्रयः कण्ठ-
ताल्वाद्यभिघातास्तदभिव्यञ्जकत्वं वर्णेष्विति समन्वयः । स्वरूपानन्देन सह स्थायिनो
धारण करते तब ये बाह्य न रहकर आन्तर पदार्थ–अन्तःकरण के धर्म कहे जाते ।
अद्वैतवेदान्त का यह सिद्धान्त हैं कि अन्तःकरण के धर्म साक्षिभास्य होते, उनके
बोध के लिए बाह्य चक्षुरादि करणों को वृत्ति अपेक्षित नहीं होती । अतः जैसे
स्वाप्निक अश्व, रथ आदि तथा जाग्रदवस्था के शुक्ति-रजत आदि के अन्तःकरणधर्म
होने से उनको वेदान्तमत में साक्षिवेद्य कहा जाता उसी तरह अन्तःकरण के धर्म
विभावादि को भी साक्षिभास्य कहना उचित है । इस प्रकार आनन्दांश की दृष्टि
से तो रस अनादि-अनन्त—नित्य है हीं, साथ हीं उस आनन्द के साथ प्रकाशमान
स्थायी भाव भी प्रकाशन से पहले भी और बाद में भी बने रहते । ऐसी स्थिति में
रस को अनित्य—आस्वादनकालमात्र में रहने वाला तो वास्तविक दृष्टि से कहा
नहीं जा सकता । किन्तु रस के व्यञ्जक विभावादि की चर्वणा अथवा 'अलौकिक
व्यापार' द्वारा चिदानन्दांश के आवरण की निवृत्ति के उत्पाद-विनाश का हीं
रस में भी उपचार करके कभी रस को भी अनित्य कहा जाता है । इस प्रकार की

७८ रसगङ्गाधरः
व्यञ्जकतालवादिव्यापारस्य गकारादौ । विभावादिचर्वणावधित्वादावरण-
भङ्गस्य, निवृत्तायां तस्यां प्रकाशस्याऽऽवृतत्वाद्द्विद्यमानोऽपि स्थायी न
प्रकाशते ।
यद्वा विभावादिचर्वणामहिम्ना सहृदयस्य निजसहृदयतावशोन्मिषितेन
तत्तत्स्थाय्युपहितस्वरूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुप-
रत्यादेः कथं न सर्वदा प्रकाश इत्यत्र युक्तिमाह--विभावादीत्यादिना । विभावा-
दीनां समवेतानां या चर्वणा तन्मूलकादेवालोकिकव्यापारात् स्थायिनः प्रतीतियोग्य-
तापादनमानन्दांशावरकाज्ञानस्य च निवृत्तिस्तत्प्रकाशनिमित्तमिति चर्वणायाः पूर्वं
'परस्ताच्च विद्यमानोप्यानन्दः स्थायी च न प्रकाशेते इत्याशयः ।
उक्ते पक्षेऽलौकिकव्यापारेण चर्वणोद्भावितेन आनन्दाकारवृत्तिमन्तरेणैवानन्दां-
शावरणनिवृत्तिवर्णनादशास्त्रीयत्वम्, तेन व्यापारेणानन्दाकारवृत्तिस्तया चानन्दां-
शावरणभङ्ग इति स्वीकारेऽलौकिकव्यापारकल्पनेन भावनाया लोकसिद्धा-
वारणनिवर्त्तकत्वस्वभावाऽनभ्युपगमेन च गौरवमित्यतः पक्षान्तरमाह--यद्वे-
त्यादि । विभावादीनां या पुनःपुनरनुसन्धानात्मकभावनाऽपरपर्याया सम्भूय
चर्वणा तस्या महिम्नेति भावः । समाधौ = सविकल्पके समाधौ, निर्विकल्पके
वृत्तिनिरोधात् । अत्र च पक्षे आनन्दोपाधेः स्थायिनः प्रतीतिर्व्यञ्जनयैव बोध्या ।
अत्र च वृत्तावानन्दस्य विशेष्यतया विषयत्वाद्रसेऽपि तस्यैव विशेष्यत्वमुचितमिति
वस्तुतस्तु इत्यादिनाऽनुपदमेव वक्ष्यति । तन्मयीभवनम् = आनन्दमयीभवनम्. तत्त्वं
औपचारिक अनित्यता अन्यत्र भी मानी गई है । जैसे--मीमांसकमत में वर्ण नित्य
है, कण्ठतालु आदि के व्यापारों से वर्ण की अभिव्यक्ति होती, उत्पत्ति नहीं । किन्तु
अभिव्यञ्जक कण्ठतालवादि व्यापारके उत्पाद-विनाश का हीं अभिव्यज्यमान वर्ण पर
आरोप करके वर्ण को भी व्यवहार में अनित्य कह दिया जाता है । अतः वर्ण की
अनित्यता वास्तविक नहीं अपितु औपचारिक हीं है । अतः औपचारिक रूप में रस
को भी अनित्य कह देना असंगत नहीं है। इस प्रकार स्थायीभाव के रसास्वाद से पूर्व
एवं पर काल में विद्यमान रहने पर भी उसका प्रकाश तभी तक होता जब तक
आत्मस्वरूपभूत प्रकाश (और आनन्द) का आवरण निवृत्त रहता, उसके पहले या
बाद में नहीं । यह आवरणभङ्ग विभावादि की चर्वणा जब से जब तक होती तभी
तक होता । इसी लिए सर्वदा स्थायी का प्रकाशन हो नहीं पाता ।
उक्त मत में विभावादि की सामूहिक रूप में की गई चर्वणा से प्रादुर्भूत
अलौकिक व्यापार (व्यञ्जना अथवा उसके अतिरिक्त किसी विलक्षण व्यापार) से
आनन्दाकार चित्तवृत्ति के बिना हीं आनन्दांश के आवरण का भङ्ग बताया गया है
किन्तु आनन्दाकारा वृत्ति के बिना उसके आवरण का भङ्ग शास्त्र-सम्मत नहीं है ।

प्रथमाननम् ७९
जायते, तन्मयीभवनमिति यावत् । आनन्दो ह्ययं न लौकिकसुखान्तर-
साधारणः, अनन्तःकरणवृत्तिरूपत्वात् । इत्थं चाभिनवगुप्तमम्मटभट्टादि-
ग्रन्थस्वारस्येन भग्नावरणचिद्विशिष्टो रत्यादिः स्थायी भावो रस इति
स्थितम् ।
वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्ना भग्नावरणा चिदेव
रसः । सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेष्यं वा चिदंशमादाय
चानन्दप्राचुर्यात् तत्र वृत्तौ बोध्यम् । अनया च वृत्त्यानन्दांशावरणभङ्गे स्वप्रकाश-
चितैव स्वरूपानन्दस्तदुपाधिभूतः स्थायी च प्रकाशेते । अस्यानन्दस्यालौकिकत्वमाह—
आनन्द इत्यादिना । अलौकिकत्वे हेतुः—अनन्तःकरणेत्यादि । न अन्तःकरणस्य
वृत्तिरनन्तःकरणवृत्तिस्तद्रूपत्वादित्यर्थः । लौकिकानन्दो हि वेदान्तमतेऽन्तःकरणवृत्ति-
रूपः। अयं तु आत्मस्वरूपभूतस्तद्विलक्षण इत्याशयः ।
आस्वादस्यानन्दप्रधानत्वाद्, वृत्तौ चानन्दस्य विशेष्यत्वात् श्रुतिसम्मतत्वाच्चा-
नन्दप्रधान एव रस इति स्वमतमाह—वस्तुतस्त्विति । वक्ष्यमाणेति । ‘रसो वै
सः' इत्याद्येति भावः । सर्वथैव = पक्षद्वयेऽपि । विशेषणमिति भग्नावरणचिद्-
अतः यह पक्षान्तर उपस्थित किया गया है कि सहृदय की सहृदयता के प्रभाव से
की गई विभावादि की सामूहिक चर्वणा से रत्यादि स्थायीभाव से उपहित आत्म-
स्वरूपभूत आनन्द के आकार की—आनन्दांशाकारा कोई विलक्षण अन्तःकरणवृत्ति
उसी प्रकार हो जाती जिस प्रकार सविकल्पक समाधि में योगी की आनन्दाकारा
वृत्ति हो जाती है । यहाँ आनन्दाकारा वृत्ति से प्रकाशाकारा वृत्ति भी अपेक्षित
है, क्योंकि उसके बिना प्रकाशांश के आवरण का भङ्ग न होने से वह आनन्द
प्रकाशित न हो सकेगा । अथवा आनन्दांश और प्रकाशांश इन दोनों को विषय
बनाने वाली एक हीं चित्तवृत्ति मानी जा सकती, क्योंकि अलौकिक विभावादि की
सामूहिक चर्वणा से उक्त प्रकार की अलौकिक चित्तवृत्ति सम्भव है । उक्त आनन्दा-
कारा वृत्ति का अभिप्राय यह है कि सहृदय का अन्तःकरण आनन्दमय (आनन्द की
प्रचुरता से सम्पन्न) हो जाता है । यह आनन्द आत्मा का स्वरूप है, अत एव यह
अलौकिक है । इसके विपरीत लोक में जिसे आनन्द कहा जाता है वह तो अन्तः-
करण की इष्टवस्तुविषयक एक वृत्ति है । अत एव रसस्वरूप आनन्द लौकिक
आनन्द से विलक्षण है । इस प्रकार अभिनव गुप्त तथा मम्मट आदि के ग्रन्थों का
स्वारस्य इसी में है कि भग्नावरणा चित् से विशिष्ट रत्यादि स्थायीभाव हीं रस
है । इस पक्ष में प्रधानता स्थायीभाव की है, चित् की नहीं ॥
वस्तुतः रसस्वरूप में भग्नावरण चित् की प्रधानता ही उचित है, क्योंकि
"रसो वै सः" इत्यादि श्रुतियों के अनुसार सच्चिदानन्द तत्त्व हीं पारमार्थिक रस

" "गुप्त" -> there is a space! "नव गुप्त आदि के मत में".

  • Wait, let's check line 20: "चित् हीं रस है।" vs "चित् हीं रस है ।"
    There is a space before danda: "चित् हीं रस है ।"
    Wait, look at "है।" in line 20:
    "उपहित भग्नावरणा चित् हीं रस है । यह रस नित्य और स्वयम्प्रकाश है । अभि-"

  • Let's check line 31: "आस्वाद्ययोग्य नहीं होता ।"
    "आस्वाद्य" and "योग्य": the shirorekha is continuous: "आस्वाद्ययोग्य"!

  • Double-check all punctuation, spaces, dandas, hyphens. Everything looks solid and faithful.८० रसगङ्गाधरः
    नित्यत्वं स्वप्रकाशत्वं च सिद्धम् । रत्याद्यंशमादाय त्वनित्यत्वमितरभास्यत्वं
    च । चर्वणा चास्य चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरण-
    वृत्तिर्वा । इयं च परब्रह्मास्वादात्समाधेर्विलक्षणा, विभावादिविषयसंवलित-
    चिदानन्दालम्बनत्वात् । भाव्या च काव्यव्यापारमात्रा

प्रथमाननम् ८१
अथास्यां सुखांशभाने किं मानमिति चेत् ? समाधावपि तद्भाने किं
मानमिति पर्यनुयोगस्य तुल्यत्वात् । 'सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमती-
न्द्रियम्' इत्यादिः शब्दोऽस्ति तत्र मानमिति चेत् ? अस्त्यत्रापि 'रसो वै सः',
'रसं ह्येवायं लब्ध्वानन्दीभवति' इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाण-
च्छेदकीभूतस्य रत्यादेः व्यञ्जनया प्रतितियोग्यतापादनमन्तरेण अन्तःकरणवृत्तिस्तदा-
कारा न स्यात्, अयोग्यस्य वृत्तिविषयत्वात् । अत एव धर्मादीनामन्तःकरणधर्मत्वाऽ-
विशेषेऽप्ययोग्यत्वान्न सुखादिवद् वृत्तिविषयत्वमिति वेदान्तसिद्धान्तः । तथा
चोक्तान्तःकरणवृत्तिसिद्ध्यर्थं तद्विषये तद्योग्यत्वसम्पादनं व्यञ्जनात्मककाव्यव्यापार-
मन्तरेण न सम्भवतीत्यतस्तन्मात्रभाव्यत्वमुक्तम् ।
अस्याम् = चित्तवृत्त्यात्मकचर्वणायाम् । मूलाऽविद्याविनाशं विनाऽऽनन्दभान-
स्यानभ्युपगमादियमाशङ्का । चर्वणात्मिकाहि चित्तवृत्तिर्न शुद्धचैतन्याकारा, मूला-
विद्यानाशकत्वं पुनः शुद्धचैतन्याकाराया एव वृत्तेरित्ययं शङ्कार्थः । 'रसं ह्येवायं
लब्ध्वा' इत्याद्या श्रुतिः शुद्धचैतन्याकारचित्तवृत्तिविषयिण्येव, न तु तदितरवृत्ति-
विषायिणीति यद्युच्यते तदाऽप्याह प्रमाणान्तरम्—सकलसहृदयप्रत्यक्षमिति । यथा
ब्रह्मानन्देऽनुभवोऽपि प्रमाणं योगिनां तथैवात्रापीति भावः । द्वितीयपक्षे = यद्धेत्युक्त-
अन्यथा वासनारूप में अयोग्य होने से उसका आस्वादन (साक्षि-प्रत्यक्ष) असम्भव
है । अद्वैतमत में भी योग्य अन्तःकरण-धर्मों का हीं साक्षि-प्रत्यक्ष माना गया है,
अयोग्य का नहीं । इसीलिए सुखादि के समान अदृष्ट के भी अन्तःकरण-धर्म होने
पर भी योग्य सुखादि का साक्षि-प्रत्यक्ष होता, अयोग्य अदृष्टादि का नहीं ।
इस चित्तवृत्तिस्वरूप रसचर्वणा में आनन्द का भान कैसे होता—यह प्रश्न तो
समानरूप में निर्विकल्प समाधि में मान्य आनन्द के भान के विषय में भी है । अतः
जिस आधार पर उक्त समाधि में आनन्द का भान होता उसी आधार पर रसचर्वणा
में भी आनन्दांश का भान मानना चाहिए । यदि कहा जाय कि "जो अतीन्द्रिय
आत्यन्तिक सुख है वह बुद्धिवृत्ति से ग्राह्य होता" यह गीतावचन तथा इसी के
समानार्थक वचनान्तर समाधिकाल में आनन्द के भान में प्रमाण हैं तो रसचर्वणा में
भी आनन्दांश के भान के प्रमापक "वह आत्मा तो रस हीं है", "रसस्वरूप
आत्मा को प्राप्त कर हीं यह जीव आनन्दित—आत्मस्वरूपानन्दाकारा वृत्ति से
सम्पन्न होता" इत्यादि श्रुतियाँ हैं । इसके अतिरिक्त, सच्चिदानन्द ब्रह्म के
समान सभी सहृदयों का साक्षात्कारात्मक अनुभव भी इसमें आनन्दांशभान का
प्रमापक है हीं । अतः रसचर्वणा में आनन्द-भान अप्रमाणिक नहीं है । पूर्वोक्त
द्वितीयपक्ष में जो स्थाय्युपहित आनन्द के आकार में चित्त की वृत्ति को रसचर्वणा

८२ रसगङ्गाधरः
द्वयम् । येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा
शब्दव्यापारभाव्यत्वाच्छाब्दी । अपरोक्षसुखालम्बनत्वाच्चापरोक्षात्मिका
तत्त्वंवाक्यजबुद्धिवत् । इत्याहुरभिनवगुप्ताचार्यपादाः ॥
(२) भट्टनायकास्तु "ताटस्थ्येन रसप्रतीतावनास्वाद्यत्वम् । आत्मगत-
पक्षे, वस्तुतस्त्वित्यादिपक्षे वा । अथवा वस्तुतस्त्वित्यादिपक्षे प्रथमं चिद्गतावरण-
भङ्गस्य चर्वणापदार्थत्वं निरूप्य पश्चात् स्थाय्युपहितानन्दाकारचित्तवृत्तेः तत्त्वमुक्तम् ।
तत्रान्त्यः पक्ष एव चर्वणास्वरूपविषयोत्र द्वितीयपक्षः । स्थाय्युपहितानन्दाकारचित्त-
वृत्तिरत्र तदाकारचित्तवृत्तिशब्देन विवक्षिता । शब्दव्यापारेत्यादि । शब्दोऽत्र
काव्यात्मकः, तेन स्वगतव्यञ्जनव्यापारद्वारा भाव्यत्वाद् भावनापरपर्यायचर्वणा-
विषयीकरणादित्यर्थः । व्यञ्जनापादितभानयोग्यत्वेन स्थायिनोपहितस्यैवानन्दस्य
चर्वणाविषयत्वादेतदुक्तम् । शाब्दी=शब्दप्रमाणजन्या। तथा सत्यस्याश्चर्वणायाः कथं न
परोक्षत्वमित्याशङ्कायां विषयस्वभावकृते परोक्षत्वाऽपरोक्षत्वे, न पुनः प्रमाणस्वभाव-
कृते इति 'दशमस्त्वमसि' इत्यादौ प्रसिद्धमिति विवरणकृन्मतानुसारेण समाधत्ते—
अपरोक्षेत्यादि । सुखस्य ब्रह्मस्वरूपानन्दस्य 'यत् साक्षादपरोक्षाद् ब्रह्म' इत्यादिश्रुते-
रपरोक्षत्वमिति हृदयम् । तत्र श्रुतौ 'अपरोक्षाद्' इत्यस्याऽपरोक्षमित्यर्थो वेदान्त-
सम्प्रदायप्रसिद्ध एव । उक्तार्थं एव श्रौतं दृष्टान्तमाह—तत्त्वमित्यादि । 'तत्त्वमसि'
इत्युपदेशमहावाक्याज्जायमाना 'अहं ब्रह्मास्मि' इत्याकारान्तःकरणवृत्तिर्यथा शब्द-
जन्याप्यपरोक्षब्रह्मविषयत्वादपरोक्षा तथैव प्रकृतवृत्तिरपीति भावः । तत्त्वमित्यस्य
प्रत्यक्षत्वमिति रसचन्द्रिकाविवरणन्तु न स्वाभाविकम् । अभिनवगुप्तपादा इत्याद-
रार्थे बहुवचनम् ॥
सम्प्रति भट्टनायकस्य भरतव्याख्यातृष्वन्यतमस्य मतमुपन्यस्यति–भट्टेत्यादिना ।
कहा गया है वह काव्यात्मक शब्द के व्यापार—व्यञ्जना व्यापार द्वारा जन्य होने
से शाब्दी—शब्दप्रमाणजन्य है, किन्तु इसके विषय आनन्द के स्वतः अपरोक्ष
होने से यह चर्वणा अपरोक्षस्वरूप है । वेदान्त-सम्प्रदाय में विवरणकार के अनुसार
ब्रह्म-ज्ञान (=ब्रह्माकारा चित्तवृत्ति, चित्त की ब्रह्म-प्रवणता) 'तत्त्वमसि' आदि
उपदेशवाक्य से होता, किन्तु ब्रह्म के अपरोक्ष होने से वाक्यजन्य होने पर भी वह
ज्ञान परोक्ष न होकर अपरोक्षात्मक होता । उनके मत में ज्ञान का परोक्षत्व या
अपरोक्षत्व प्रमाण के स्वभाव पर निर्भर नहीं अपितु विषय के स्वभाव पर
निर्भर होता । अतः शब्द ब्रह्म-ज्ञान की तरह शाब्दी रसचर्वणा भी अपरोक्षात्मक
है । अभिनवगुप्त का रस के विषय में यही मत है ॥
भरत नाट्यशास्त्र के अन्यतम व्याख्याकार भट्टनायक का रसास्वाद के

ताटस्थ्येनेति। तटस्थो नाट्ये नटः, श्रव्ये च दुष्यन्तादिः, तन्निष्ठत्वेन परगतत्वेनेत्यर्थः।
अनास्वाद्यत्वमित्यस्य सामाजिकानामिति शेष इति प्राचीना व्याख्या। वस्तुतस्तु
ताटस्थ्यं हेतुरत्रानास्वाद्यत्वस्य। यदि परगतत्वेन रत्यादिः प्रतीयेत तर्हि सामाजिकानां
तदास्वादो न स्यात्, तेषामपकृष्टत्वे 'परसम्पदुत्कर्षो हीनसम्पदं दुःखाकरोति' इति
स्वभावाद्रत्यादिविषये सामाजिकानां मात्सर्यम् शोकादिविषये त्वानन्दोऽनुभूयेतेति
अनुभवविपर्ययः स्यात्। अथ सामाजिकानामुत्कृष्टानामेव सहृदयत्वं तदाऽपि पर-
गतत्वेन रसप्रतीतौ 'दुष्यन्तः शकुन्तलाविषयकरतिमान्' इति सामाजिकप्रतीत्या
रत्यादौ स्वगतत्वबाधात्तत औदासीन्यमापद्येत सामाजिकानामिति नात्र पक्षे रसस्य
सामाजिकास्वादविषयत्वमुपपद्यत इत्येवं योजनीनो ग्रन्थः। अत्र चात्मगतत्वेनेति पर-
कल्पानुरोधेन परगतत्वेनेति पूरणीयम्। ताटस्थ्यस्य परगतरत्यादिविषयकप्रतीत्यना-
श्रयत्वे सामाजिकानां हेतुत्वं भट्टनायकमतानुवादपरकेण लोचनग्रन्थेनाऽपि—'ननूक्तं
भट्टनायकेन—रसो यदा परगततया प्रतीयेत तर्हि ताटस्थ्यमेव स्याद्' इत्यादिना स्पष्टम्।
अत्र च रसशब्दः स्थाय्यर्थकः, आस्वाद्यत्वं रसत्वम्, अनास्वाद्यत्वम् रसत्वाभावः।
परगतत्वे रत्यादेः सामाजिकेभ्यो रसत्वं न स्यात्, तेषां तत्रोदासीन्यादिति भावोऽस्य
ग्रन्थस्य। पूर्वव्याख्यायान्तु ताटस्थ्यपदार्थस्वरसभङ्गोऽपि। अधिकं विज्ञैर्विवेचनीयम्।
विषय में यह मत है—"रस की प्रतीति होती है—यह कहना असंगत है, क्योंकि
इसके दो हीं अर्थ हो सकते हैं—(क) रस की प्रतीति दुष्यन्त आदि नायकों को
होती या (ख) सामाजिक को होती। किन्तु ये दोनों हीं अर्थ असंगत हैं। यदि
रस की प्रतीति सामाजिक को न होकर दुष्यन्त आदि को होती—यह माना जाय
तब तो सामाजिक में उससे उदासीनता (तटस्थता) आ जाएगी, फलतः वह रत्यादि
सामाजिकों का आस्वाद्य न हो सकेगा। ऐसी स्थिति में अनास्वाद्य रत्यादि को
सामाजिक के लिए रस कहना सम्भव न हो सकेगा, क्योंकि जो आस्वाद्य है वही तो
रस है। अतः रसप्रतीति सामाजिक से भिन्न व्यक्ति—दुष्यन्तादि को होती—
(परगत होती)—यह नहीं कहा जा सकता। अब रही बात सामाजिक द्वारा
रसप्रतीति की। किन्तु विचार करने पर इसमें भी संगति नहीं दीखती, क्योंकि
जब दुष्यन्त की पत्नी शकुन्तला सामाजिक के लिए विभाव का स्वरूप हीं प्राप्त नहीं
कर सकती तो फिर सामाजिक में शकुन्तलाविषयक रति कहां से हो सकती?
विना विभाव के तो रति हो नहीं सकतीं, अतः सामाजिक को रसास्वाद असम्भव
है। अब यह प्रश्न है—विभावतावच्छेदक से अवच्छिन्न पदार्थ हीं विभाव होता।
विभावतावच्छेदक है कान्तात्व, वह जब शकुन्तला में भी है हीं तो फिर वह सामा-
जिक के लिए विभाव क्यों न हो सकती? इसका उत्तर यही है कि केवल (सर्व-
कान्ता-साधारण) कान्तात्व विभावतावच्छेदक हो नहीं सकता, क्योंकि तब तो
८ २०

२. चतुर्विध काव्य-भेद (उत्तमोत्तम, उत्तम, मध्यम एवं अधम काव्य लक्षण)

८४ रसगङ्गाधरः
त्वेन तु प्रत्ययो दुर्घटः, शकुन्तलादीनां सामाजिकान्प्रत्यविभावत्वात् ।
विना विभावमनालम्बनस्य रसादेरप्रतिपत्तेः । न च कान्तात्वं साधारणं
विभावतावच्छेदकमत्राप्यस्तीति वाच्यम् । अप्रामाण्यनिश्चयानालिङ्गि-
ताऽगम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताकस्य
आत्मगतत्वेन रत्यादिप्रतीतिं निरस्यति—आत्मगतत्वेनेत्यादिना । साधारणं
सकलकान्तासाधारणम् । साधारणविभावतावच्छेदकमित्यमपपाठः, विभावतावच्छेद-
कस्य विभावमात्रसाधारण्येन व्यावत्र्याभावात्, विभावातिरिक्तेऽवर्त्तमानत्वेन च
साधारण्याभावात् साधारण्यस्य तद्विशेषणत्वानुपपत्तेः । अत एव लोचने ‘कान्तात्वं
साधारणं वासनाविकासहेतुभूतविभावतायां प्रयोजकम्’ इत्याद्युक्तम् । केवलस्य
कान्तात्वस्य विभावतावच्छेदकत्वे तदवच्छिन्ने विभावत्वमव्याहतमित्याशङ्कार्थः ।
अप्रामाण्येत्यादि । इयमगम्या इत्याकारकं ज्ञानमगम्यात्वप्रकारकं ज्ञानम् ।
तत्रेदमपदेनोपस्थिता कान्ता विशेष्यभूता । तथा च यस्या विषये इयमगम्येति ज्ञानं
भवति तस्या विशेष्यताख्यविषयतासम्बन्धेन इयमगम्येति ज्ञानं वर्त्तते, यस्यां पुनरि-
यमगम्येति ज्ञानं न भवति तस्यां विशेष्यताख्यविषयतासम्बन्धेनेयमगम्येत्या-
कारकागम्यात्वप्रकारकस्य ज्ञानस्य विरहो वर्त्तते । यस्य च विरहः=अभावः स
तस्याभावस्य प्रतियोगी । प्रकृते चेयमगम्येत्याकारकज्ञानस्याभावो विवक्षित इति
तादृशं ज्ञानं प्रतियोगि भवत्यस्याभावस्य । तादृशे ज्ञाने च प्रतियोगिता, तादृशं
ज्ञानत्वं च प्रतियोगिताऽवच्छेदको धर्मः । येन च सम्बन्धेन कश्चिदभावो ग्राह्यः
स सम्बन्धोऽभावीयप्रतियोगिताऽवच्छेदकः, सा च प्रतियोगिता तेन सम्बन्धेनाऽ-
वच्छिन्ना । येन च सम्बन्धेन प्रतियोगी क्वचित् सम्भवति, असति विशेषानुल्लेखे
तेनैव सम्बन्धेन तदभावोऽपि गृह्यते । यथा—भूतले घटः संयोगेन सम्भवतीति तत्र
घटाभावोऽपि संयोगेन विवक्षित इति घटनिष्ठाऽभावीयप्रतियोगितावच्छेदकः संयोगः,
घटनिष्ठा प्रतियोगिता च संयोगसम्बन्धावच्छिन्ना । प्रकृते च यदि कान्तायामयिम-
गम्येति ज्ञानं भवेत् तर्हि विशेष्यताख्यविषयतासम्बन्धेनैव नाऽन्येनेति तादृशज्ञानस्या-
भावोऽपि तस्यां तत्सदृश्यां वान्यस्यां कान्तायां विशेष्यताख्यविषयतासम्बन्धेनैव वर्त्त-
सामाजिक के लिए उस कान्तात्व से युक्त होने के कारण उनकी बहन एवं अन्य
कान्ताएँ भी विभाव हो जाएगीं। इससे महान् अनर्थ होगा । अतः ‘विशेष्यता-
सम्बन्धावच्छिन्नप्रतियोगिताक अप्रामाण्यज्ञानानास्कन्दितागम्यात्वप्रकारकज्ञानाभाव
से विशिष्ट कान्तात्व’ को हीं विभावतावच्छेदक मानना उचित है । इसका तात्पर्य
यही है कि जिस कान्ता के विषय में सामाजिक को ‘यह गमन करने योग्य नहीं
है’ इस प्रकार का प्रमात्मक बोध अथवा ‘यह गमन करने योग्य है या नहीं’ इस

प्रथमाननम् ८५
प्रकार का संशयात्मक बोध होता हो उससे अन्य कान्ता हीं विभाव हो सकती है ।
उक्त विभावतावच्छेदक का विश्लेषण इस प्रकार करना चाहिए—अगम्यात्व है
प्रकार (=विशेषण) जिस ज्ञान में उसे 'अगम्यात्वप्रकारक ज्ञान' कहा जाता ।
इसका स्वरूप है—'इयम् अगम्या' । किसी भी विषय के ज्ञान के विषय में तीन
कोटियाँ सम्भावित हैं—प्रमात्वनिश्चय—'इदं ज्ञानं प्रमैव', प्रमात्वसंशय—'इदं
ज्ञानं प्रमा न वा ?' (इसी को अप्रमात्वसंशय भी कह सकते, क्योंकि एक कोटि
तो प्रमात्वसंशय में अप्रमात्व हीं है) और अप्रमात्वनिश्चय—'इदं ज्ञानम् अप्रमैव' ।
अतः 'इयमगम्या' इस ज्ञान के विषय में भी उक्त तीन कोटियाँ हो सकती हैं—
(क) “इयमगम्या'—इति ज्ञानं प्रमैव', “इयमगम्या'—इति ज्ञानं प्रमा न वा ?'
और 'इयमगम्या'—इति ज्ञानमप्रमैव ।' इनमें प्रथम को प्रामाण्यनिश्चयालिङ्गिता-
गम्यात्वप्रकारक ज्ञान, द्वितीय को प्रामाण्यसंशयालिङ्गितागम्यात्वप्रकारक ज्ञान अथवा
अप्रामाण्यसंशयालिङ्गितागम्यात्वप्रकारक ज्ञान और तृतीय को अप्रामाण्यनिश्च-
यालिङ्गितागम्यात्वप्रकारक ज्ञान कहा जाता । यह भी ज्ञातव्य है कि निश्चय यथार्थ
भी हो सकता है और अयथार्थ भी । अब यह स्पष्ट है कि उक्त तीनों ज्ञानों में
प्रथम और द्वितीय ज्ञान को 'अप्रामाण्यनिश्चयानालिङ्गितागम्यात्वप्रकारक ज्ञान'
कहा जा सकता है । उक्त त्रिविध अगम्यात्वप्रकारकज्ञानविषयक प्रमात्वनिश्चय आदि
में से प्रथम या द्वितीय प्रकार के होने पर रति सम्भव या उचित नहीं है । अतः उक्त
दोनों हीं प्रकारों के ज्ञान का अभाव जिस कान्ता के विषय में होगा वहीं उक्त विभा-
तावच्छेदक धर्म रहेगा और वही कान्ता सामाजिक की रति का विभाव हो सकती
है, अन्य, अर्थात् जिसके बारे में प्रथम या द्वितीय प्रकार का अगम्यात्वप्रकारक ज्ञान
हो वह, विभाव नहीं हो सकती । इस प्रकार प्रथम और द्वितीय इन दोनों के
अभाव को स्वतन्त्ररूप में व्यक्त करने पर दो अभाव कहने पड़ते । इन दोनों का
समावेश करने के लिए 'अप्रामाण्यनिश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानाभाव' कहा
गया है ।
अब यह विचारणीय है कि इस अभाव को विभावतावच्छेदक में विशेषणरूप
में कैसे रखा जाय, क्योंकि विभावतावच्छेदक ( चाहे उसका विशेषणांश हो या
विशेष्यांश) को विभावता के अधिकरण—विभाव में रहना हीं चाहिए। 'इयमगम्या'
यह ज्ञान समवाय सम्बन्ध से सामाजिक में आश्रित है, अतः यदि सामाजिक में यह
ज्ञान उत्पन्न नहीं होता तो इस ज्ञान के अभाव की ( इसी ज्ञान में रहने वाली )
प्रतियोगिता का अवच्छेदक सम्बन्ध समवाय होगा, क्योंकि जिस अधिकरण में
प्रतियोगी (=जिसका अभाव विवक्षित हो वह पदार्थ) जिस सम्बन्ध से रह सकता
उस अधिकरण में उसके अभाव को भी, यदि किसी विशेष सम्बन्ध का निर्देश न

८६ रसगङ्गाधरः
तेति भवति तादृशज्ञानविरहो विशेष्यताख्यविषयतासम्बन्धावच्छिन्नप्रतियोगिताकः ।
यद्यपीयमगम्येत्याकारकज्ञानविरहः समवायेन नायकेऽपि वर्तते तथापि विभावभूतायां
कान्तायां विद्यमान एव तादृशज्ञानविरहो विभावतावच्छेदककोटौ निवेश्यः, न
त्वाद्यः, व्यधिकरणत्वात् । अतः 'विशेष्यतासम्बन्धः समवायः' इति नागेशोक्ति-
श्चिन्त्या । इयमगम्येतिज्ञानविषये इदं ज्ञानं प्रमेत्याकारकः प्रमात्व- (प्रामाण्य)-
निश्चयः, इदं ज्ञानं प्रमा न वेत्याकारकः प्रमात्वसंशयोऽप्रमात्वसंशयो वा, इदं ज्ञान-
मप्रमेत्याकारकोऽप्रमात्वनिश्चयश्चेति त्रिविधं ज्ञानं सम्भवति । तत्र प्रथमे इयम-
गम्यैवेति निश्चयः, द्वितीये इयं गम्याऽगम्या वेति संशयः, तृतीये इयं गम्यैवेति
निश्चयः प्रतिफलति । तत्र प्रथमे ज्ञाने कस्याश्चिदपि कान्ताया विषये जाते
न तत्र रत्युदयः । द्वितीयेऽपि अनर्थसंशयान्न रत्युदयः, तृतीये तु भवत्येव
रत्युदयः । यद्यपि इयमगम्या न वेति संशयसत्त्वेऽपि शकुन्तलादौ दुष्यन्तादे
रतिरुदिता तथाऽपि स रत्याभास एवेति न दोषः । यद्वा 'असंशयं क्षत्रपरिग्रहक्षमा'
किया हो तो, उसी सम्बन्ध से माना जाता है । दूसरे शब्दों में, अन्योन्याभाव
(भिन्नता) से अतिरिक्त अभाव को संसर्गाभाव कहा जाता । इसमें एक पदार्थ
(प्रतियोगी) के अधिकरण विशेष (अनुयोगी) में उस संसर्ग का प्रतिषेध किया जाता
जिस संसर्ग से प्रतियोगी का अनुयोगी में अस्तित्व सम्भावित हो । यही संसर्ग
अभावीयप्रतियोगितावच्छेदक संसर्ग कहलाता । इससे स्पष्ट है कि सामाजिक,
जिसमें 'इयमगम्या' यह ज्ञान उत्पन्न नहीं होता उसमें समवायसम्बन्धावच्छिन्न-
प्रतियोगिताक अगम्यत्वप्रकारकज्ञानाभाव रहेगा । किन्तु यह अभाव विभावनिष्ठ
न होने से विभावतावच्छेदककोटि में विशेषणरूप से प्रविष्ट हो नहीं सकता । अतः
इस अभाव को उस रूप में व्यक्त करना है जिससे यह विभाव में आश्रित हो ।
इसीलिए ग्रन्थकार ने समवायसम्बन्धावच्छिन्नप्रतियोगिताक उक्त अभाव का निवेश
न कर विशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताक अगम्यत्वाप्रकारकज्ञानाभाव का
निवेश किया है । इसका तात्पर्य यह है—'इयमगम्या' यह अगम्यत्वप्रकारक ज्ञान
समवाय सम्बन्ध से तो सामाजिक में अवश्य रहता, परन्तु जिस कान्ता के विषय में
यह ज्ञान होता उस कान्ता-स्वरूप विषय में भी यह ज्ञान विषयता सम्बन्ध से रहता
हीं है । विषय तीन प्रकार के होते हैं—विशेषण, विशेष्य और दोनों का संसर्ग ।
इसलिए विशेषण में विशेषणताख्य या प्रकारताख्य विषयता रहती, विशेष्य में
विशेष्यताख्य विषयता और संसर्ग में संसर्गताख्य विषयता। १ अत एव विषयतासम्बन्ध-
१. निर्विकल्पक ज्ञान में विशेषण आदि का भान न होने से उस ज्ञान की
विषयता स्वतन्त्र प्रकार की होती है ।

इत्यादिनाऽगम्यात्वप्रकारकज्ञानेऽप्रामाण्यनिश्चये जात एव रत्युदय इति मन्तव्यम् ।
एषु च ज्ञानेषु प्रतिफलितेषु प्रथमद्वितीये त्वप्रमाण्यनिश्चयानालिङ्गिते । अत एत-
योरन्यतरस्यापि सत्त्वे रत्युदयाभावाद् अनयोरभावः कान्ताविषये रत्युदयेऽपेक्षितः ।
अन्त्यस्तु निश्चयः स्वयमेव रत्युदयहेतुरिति तस्याभावो नाऽपेक्षितस्तत्रेति हेतोः
प्रथमद्वितीयज्ञानाभावयोर्लाघवेन संग्रहाय अप्रामाण्यनिश्चयाऽनालिङ्गितेति विशेषण-
मगम्यात्वप्रकारकज्ञानस्योपात्तम् । अप्रामाण्यनिश्चयश्च प्रमात्मको भ्रमात्मको वा
भवेदविशेषेण रत्युदयहेतुः । अत एव वस्तुतोऽगम्यायामपि इयमगम्येत्याकारकं
ज्ञानमप्रमेति भ्रमात्मकाप्रामाण्यनिश्चये रत्युदयो भवत्येव । अगम्यात्वप्रका-
रक ज्ञानं हि इयमगम्येत्येकम् इयमगम्या न वेति द्वितीयम् । आद्यं निश्चय-