सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 107, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 107

प्रथमाननम् ७५
(१) तथा चाहुः—'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः'
इति । व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिश्च भग्नावरणा चित् । यथा हि
शरावादिना पिहितो दीपस्तन्निवृत्तौ संनिहितान्पदार्थान्प्रकाशयति, स्वयं च
प्रकाशते, एवमात्मचैतन्यं विभावादिसंबलितान्रत्यादीन् । अन्तःकरणधर्माणां
व्यञ्जनायाः काव्यनिष्ठत्वव्यपदेशोऽपि । आस्वाद्यमानश्च रत्यादिर्वासनात्मकतया
सहृदयहृदयस्थितो रस इत्युच्यते । अत्र च सर्वा अनुपपत्तयोऽलौकिकत्वादेव समा-
धेया इति । यदि त्वलौकिकोऽयमास्वादो विभावादिसमुदितरत्यादेरभिमतः समूहा-
लम्बनात्मकस्तर्हि वासनारूपेणान्तःकरणधर्माणां विभावादीनामपि रत्यादिभिः सह
साक्षिभास्यत्वम् बोध्यम् ।
उक्तार्थे मम्मटोक्तिं प्रमाणयति--तथेत्यादिना । यद्यपि मम्मटोक्तौ 'व्यक्तः'
इत्यस्य व्यञ्जनया प्रकटीकृतः इति चर्वित इति चार्थः साम्प्रदायिकस्तथाऽपि "यो
वै भूमा तत्सुखम्, अतोऽन्यदार्तम्" इत्यादिश्रुतेः चिदात्मन एवानन्दरूपत्वेन तदितर-
स्य च स्वत आनन्दरूपत्वाभावेनात्मानन्दसंस्पर्शमन्तरेण आस्वाद्यमानस्य रत्यादेरा-
नन्दरूपत्वं न सम्भवतीत्यतोऽन्य

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन) · पृष्ठ 107, कुल 414 में से · SarvaKosh