सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

विचारः ] स्वार्थानुमानपरिच्छेदः २९९
बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् ।
तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः ॥ १३४ ॥
शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात् ।
एकत्वाद् वस्तुरूपस्य भिन्नरूपा मतिः कुतः ॥ १३५ ॥
अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ ।
अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः ॥ १३६ ॥
सर्वत्र भावाद् व्यावृत्तेर्नैते दोषा प्रसङ्गिनः ।
एककार्येषु भावेषु¹ तत्कार्यपरिचोदने ॥ १३७ ॥
वस्तुनि सत्यं सन् तस्मात् सूचने तद्वती प्रवृत्तिर्युक्ता । एकं सामान्यं वस्तु
तदभिधायिनि तु ध्वनौ न वस्तुसंस्पर्शः ॥ १३३ ॥
हेतुमाह—बुद्धावभासमानस्य दृश्यस्य सम्मतस्य तस्य स्वभावानुप-
लब्धेरभावनिश्चयात् । न वस्तुनि सत्त्वमिति कथं तत्प्रतिपादिकायाः श्रुतेर्वस्तुनि
वृत्तिः ! तेन व्यवच्छेदस्य वस्तुनि सत्त्वेन सामान्यगोचराश्शब्दाः बुद्धयश्च
कल्पिका अन्यापोहविषया आचार्येण प्रोक्ताः—"अपोहः शब्दलिङ्गाभ्यां प्रति-
पाद्यते” इति ब्रुवता । न तु भूतसामान्यविषयाः; वस्तुन्येषां नीलत्वादीनामनुप-
लब्धिबाधितत्वेनासम्भवात् ।
यदि वाच्यम्, तदैकत्वाद् वस्तुरूपस्य तस्मिन् भिन्नरूपा अनित्यकृत-
कत्वाद्या मतिः कुतः ! एकत्वाद् विषयस्यैकरूपवद् बुद्धिर्युक्ता, विशेषश्च सर्वतो
व्यावृत्त इति तदात्मभूतं सामान्यमपि तथा स्यात् । ततश्चैकस्य सामान्यस्यान्व-
यव्यतिरेकानुवृत्त्यननुवृत्ती एकार्थगोचरौ व्यक्त्यन्तरविषयौ न सम्भवतः । तथा
हि—"सामान्यं व्यक्त्यन्तरानुयायि न व्यक्तिः” इति वदता व्यक्त्यभिन्नात्मनः
सामान्यस्यान्वयव्यतिरेकौ विरुद्धावभ्युपगतौ स्याताम्; तच्चायुक्तम् ।
अथ वा—व्यक्त्यात्मनो व्यक्तिरूपवद् भेदे च सामान्यस्याभेदव्यवहारा
अनिबन्धनाः स्युः; एकस्यानुयायिनोऽभावात् ।
अस्मन्मते तु सर्वत्र व्यक्तिषु भावाद् व्यावृत्तेः सजातीयाद् विजातीयाच्चैते
१. भेदेषु—पाठा० ।

३०० प्रमाणवार्त्तिके [ सामान्य-
गौरवाशक्तिवैफल्याद् भेदाख्यायाः समा श्रुतिः ।
कृता वृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना ॥ १३८ ॥
न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः ।
यद् रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत् ॥ १३९ ॥
अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते ।
अर्थभेदेन च विना शब्दाभेदो न युज्यते ॥ १४० ॥
तस्मात् तत्कार्यताप्येष्टाऽतत्कार्यादेव भिन्नता ।
चक्षुरादौ१ यथा रूपविज्ञानैकफले१ क्वचित् ॥ १४१ ॥
दोषा भिन्नाभासबुद्धिविषयत्वाभावान्वयव्यतिरेकादिविरुद्धधर्माध्यासा अप्रसङ्गिनो
भवन्ति । शब्दविकल्पानां भिन्नभिन्नव्यावृत्तिविषयत्वाद् विजातीयव्यावृत्त्याश्रयेणा-
न्वयबुद्धिविषयत्वात्, सजातीयव्यावृत्त्याश्रयेण व्यतिरेकबुद्धिविषयत्वाच्चेति ।
कस्मात् पुनरन्यव्यावृत्तौ शब्दसंकेतो न स्वलक्षणः ? इत्याह—एककार्ये-
ष्वेकत्वाध्यवसायविषयकार्यकारिषु भावेषु तत्कार्यपरिचोदननिमित्तं प्रति-
व्यक्ति भेदाख्याया भिन्नस्य शब्दस्य योजनेन संकेतक्रियाया व्यक्त्यानन्त्याद्
गौरवाद्, अशक्तेर्वैफल्याच्च समा एका श्रुतिरतत्कार्येभ्यो या वृत्तिस्तन्नि-
बन्धना तदाश्रया वृद्धैः कृता संकेतिता, न भावे स्वलक्षणे ॥१३४-१३८॥
कस्माद् ? इत्याह—सर्वभावानां स्वस्वभावव्यवस्थितेः कारणतः ।
यद्रूपं शाबलेयस्य, बाहुलेयस्य नास्ति तद् रूपम् ॥ १३९ ॥
अतत्कार्येभ्यः परावृत्तिश्च द्वयोः शाबलेयबाहुलेयोरपि विद्यते ।
ततस्तत्रैव संकेत:, न स्वलक्षणे ।
स्वलक्षणान्येव तर्हिभिन्नस्य शब्दस्य वाच्यानि स्युः ? इत्याह—अर्थस्या-
भेदेन च विना शब्दस्याभेदो न युज्यते; अतिप्रसङ्गात् ॥ १४० ॥
एवं तर्हि एककार्यतैव भिन्नशब्दवाच्या स्याद् ? इत्याह—तस्मादर्था-
भेदाच्छब्दाभेदः, कार्यं च प्रतिव्यक्ति भिन्नमिति तत्कार्यताप्येककार्योच्यते,
साऽप्यतत्कार्याद् भिन्नतैव, स चापोहः ।
१-१. चक्षुरादावनेकत्र रूपविज्ञानके—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३०१
अविशेषेण तत्कार्यचोदनासम्भवे सति ।
सकृत् सर्वप्रतीत्यर्थं कश्चित् सांकेतिकीं श्रुतिम् ॥ १४२ ॥
कुर्याद् ऋतेऽपि तद्रूपसामान्याद् व्यतिरेकिणः ।
एकवृत्तेरनेकोऽपि यद्येकश्रुतिमान् भवेत् ॥ १४३ ॥
वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते ।
नित्यस्यानुपकार्यत्वात् नाधारः;
प्रविसर्पतः ॥ १४४ ॥
शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु ।
न सम्भवति साध्यत्र तदभावेऽप्यवस्थितेः ॥ १४५ ॥
अतत्कार्यव्यावृत्तौ संकेतक्रियां द्रढयितुं दृष्टान्तमाह—यथा चक्षुरादा-
वनेकत्र क्वचिद् रूपविज्ञानफले विषयभूतेऽविशेषेण सामान्येन तस्य
चक्षुरादिकार्यस्य कारणवाचकैकशब्दद्वारेण चोदनायाः परेभ्यः प्रकाशनाया-
श्चक्षुरालोकादिष्वेकसामान्याभावेऽपि सम्भवे सति कश्चित् सन्धेयव्यवहाररुचिः
सकृत् सर्वस्य चक्षुरादेः प्रतीत्यर्थं सांकेतिकीं श्रुतिं कुर्यात्, कुतो रूपं
विज्ञानमिति ऋते विनापि तद्रूपाद् रूपविज्ञानजनकात् सामान्याच्चक्षुरादि-
व्यतिरेकिणः !
अथैकस्य सामान्यस्य वृत्तेरनेकोऽपि विषयो यद्येकश्रुतिमान् भवेत्,
तदा को दोषः ? ननु केयं वृत्तिरिष्टा, किमाधेयता ? उत व्यक्तिरभिव्यक्ति-
रिति ? एतद् द्वयमपि तस्मिन् सामान्ये न युज्यते । कथम् ? इत्याह—
नित्यस्यानाधेयातिशयस्याविशिष्टरूपस्य केनचिदनुपकार्यत्वात् नाधारः
कश्चित्, न ह्यनुपकारक आधारः; अतिप्रसङ्गात् ।
ननु बदरस्यानुपकारकमपि कुण्डमाधारः ? इत्याह—बदरादिषु गुरुतया
प्रविसर्पतो विसर्पणात् । प्रतिक्षणमसमानदेशोत्पत्तेः कुण्डादेः सहकारिणः
तद्देशजननं बदरोपादानदेशजननं शक्तिः कारणत्वमाधारता । सापि शक्ति-
लक्षणाधारतात्र सामान्ये न सम्भवति; जन्यत्वाभावात् । सामान्यस्य स्थितिर्

३०२ प्रमाणवार्त्तिके [ सामान्य-
न स्थितिः साप्युक्तैव भेदाभेदविवेचने ।
विज्ञानोत्पत्तियोग्यत्वादात्मन्यन्यानुरोधि यत् ॥ १४६ ॥
तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् ।
प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते ॥ १४७ ॥
सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः ।
कुर्वन् विशेष आधारः स्याद् ? इत्याह--तस्य विशेषस्याभावेऽप्यवस्थितेः ॥
१४१-१४५ ॥
न स्थितिविशेषात् सामान्यस्य स्वरूपातिरिक्ताया स्थितेर्निष्क्रियत्वेना-
भावात् स्वरूपस्थितिः । तच्च प्रत्येकं व्यक्त्यपायेऽप्यस्तीति नासौ ततः । अस्तु वा
स्थितिः, साप्युक्तैव भेदाभेदविवेचने क्रियमाणे । तथा हि--आश्रयहेतुका
स्थितिः सामान्याद्भिन्ना ? अभिन्ना वा स्यात् ? भिन्ना चेत् ; तस्याः कारणत्वा-
दाश्रयः स्यात् । न तु सामान्यस्य स्थितिः; सम्बन्धात् । सामान्यस्यापि चेद्;
भेदे सति कोऽनयोः सम्बन्धः ! न कार्यकारणभावः; स्थितेराश्रयादुत्पत्तेः ।
सामान्यादुत्पत्तौ वा न व्यक्तिराधारः स्यात्; स्थितिहेतुत्वाभावात् । सामान्यं च
नित्यत्वादकार्यमेव । न चान्यः सम्बन्धोऽस्ति; निराकरणात् । एवं गमनप्रतिबन्धा-
दिष्वपि वाच्यम् ।
तदेवं न तावदाधेयता वृत्तिः । व्यक्तिरपि न युक्ता । यत् स्वरूपेण
स्थितमेव सामान्यं स्वविषयविज्ञानोत्पत्तियोग्यत्वादात्मन्यन्यानुरोधि परा-
पेक्षं तद् व्यङ्ग्यमुच्यते । यच्च योग्यतायाः स्वरूपभूतायाः कारकम्, तत्
कारणं मतम् । व्यतिरिक्तयोग्यताकरणे तु न स्यात् सामान्यस्योपलब्धिः;
उपलब्धायोग्यस्वभावत्वात् । योग्यतासम्बन्धेऽप्यनुपलभ्यस्वभावानपायात् तदवस्थो-
ऽनुपलम्भः ।
अथ व्यञ्जकाभिमतैर्विशेषैर्न योग्यता क्रियते, तदा सा प्रागेवास्तीति स्यात् ।
तथा च प्रागेवास्य योग्यत्वे तदपेक्षा व्यञ्जकापेक्षा न युज्यते ॥१४६-१४७॥
तत् तस्मात् सामान्यवतो विशेषस्य सकाशात् सामान्यस्याविकार्यस्य
व्यक्तिरपि कुतः सम्भवति !

विचारः ] स्वार्थानुमानपरिच्छेदः ३०३
अञ्जनादेरिव व्यक्तेः संस्कारो नेन्द्रियस्य¹ च¹ ॥ १४८ ॥
प्रतिपत्तेरभिन्नत्वात्² तद्भावाभावकालयोः ।
व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते ॥ १४९ ॥
प्राप्तो गोत्वादिना तद्वान् प्रदीपादिः प्रकाशकः ।
व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते ॥ १५० ॥
तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः ।
एकत्र तत्ततोऽन्यत्र³ दर्शनासम्भवात् सतः ॥ १५१ ॥
अनन्यत्वेऽन्वयाभावादन्यत्वेऽप्यनपाश्रयात् ।
अथ न सामान्यस्य संस्काराद् व्यक्तिर्व्यञ्जिका, किन्त्विन्द्रियस्य, अञ्जनवद् ?
इत्याह—अञ्जनादेरिवेन्द्रियस्य न संस्कारो व्यक्तेः सकाशात्; तत्प्रतिपत्ते-
स्तस्या व्यक्तेर्भावाभावकालयोरभिन्नत्वात् । न हि यथेन्द्रियस्याञ्जनसंस्कार-
भावाभावयोरर्थप्रतिपत्तेः स्पष्टास्पष्टलक्षणो विशेषः, तथा व्यक्तिभावाभावकालयोः
सामान्यप्रतीतेः; सर्वदा तुल्याकारत्वात् तस्याः ॥
किञ्च—व्यञ्जकस्य विशेषस्य जातीनां जातिमत्ता यदीष्यते, तदा
गोत्वादिना सामान्येन प्रदीपादिस्तस्य प्रकाशकः तद्वान् सामान्यवान्
प्राप्तः; व्यञ्जकलक्षणत्वात् तद्गतः । तस्मान्न वृत्तिरभिव्यक्तिरपि । तत् कथमेक-
वृत्तेरनेकोऽप्येकशब्दवान् स्यात् !
किञ्च—व्यक्तेरन्या, अथ वाऽनन्या अव्यतिरिक्ता येषां वैशेषिक-
सांख्यादीनां जातिर्विद्यते एवेति मतम्, तेषां मते व्यक्तिष्वपूर्वासु कथं
सामान्यबुद्धयः स्युः ।
तथा हि—अनन्यत्वे एकत्र व्यक्तौ तदात्मनः सतः सामान्यस्यान्यत्र
व्यक्त्यन्तरेऽन्वयाभावात् दर्शनासम्भवात् कथं सामान्यबुद्धिः ! अन्यत्वेऽपि
जातेरनपाश्रयादुक्तयुक्त्याऽश्रयत्वाभावात् न व्यक्तिष्वपूर्वासु तन्निबन्धना
धीः स्यात् ।
१-१. ऽक्षस्य न भवेत्—रा० । २. तत्प्रतिपत्ते०—रा० ।
३. दृष्टस्यान्यत्र—रा० ।

३०४ प्रमाणवार्त्तिके [ सामान्य-
न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ॥ १५२ ॥
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ! ।
अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि ॥ १५३ ॥
स्वस्मादचलतः¹ स्थानाद् वृत्तिरित्यतियुक्तिमत्¹ ।
यत्रासौ वर्त्तते भावस्तेन सम्बध्यतेऽपि न ॥ १५४ ॥
तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ! ।
व्यक्त्यैवैकत्र² सा³ व्यक्ताऽभेदात् सर्वत्रगा यदि³ ॥ १५५ ॥
अपि च—सामान्यं स्वाश्रयगतं वा कल्प्यते ? सर्वगतं वा आकाशादिवत् ?
तत्र प्रथमपक्षं दूषयितुमाह—एकव्यक्तिस्थितं सामान्यं व्यक्त्यन्तरमुत्पद्यमानं
निष्क्रियत्वान्न याति । न तत्र व्यक्त्युत्पत्तिदेशे प्रागासीत्; व्यक्तिमात्र-
निष्ठत्वात् । अस्ति च पश्चादुत्पत्तेः सामान्यम्; सामान्यशून्याया व्यक्तेः स्थित्यनु-
पगमान्न चांशवत् । न हि सामान्यं सावयवम्, येन कचिदेकेनावयवेन समवेतं
सद् अवयवान्तरैरुत्पद्यमानव्यक्तिभिः सम्बध्यते । न च पूर्वोत्पन्नमाधारं
जहाति । उत्पित्सुव्यक्त्यन्तरेण सम्बन्धार्थमन्यत्र स्थितस्यापरसम्बन्धस्तद्देशागमनं
किल न युज्यत इत्यहो व्यसनसन्ततिः स्वाश्रयगतसामान्यवादिनाम् ।
किञ्च—अन्यत्र पूर्वस्थितायां व्यक्तौ वर्तमानस्य सामान्यस्य स्वस्मात्
स्थानादाश्रयादचलतः ततः पूर्वव्यक्तेरन्यत्र स्थाने जन्म यस्य तत्र द्रव्ये
वृत्तिरित्यतियुक्तिमत् । न हि व्यक्त्यन्तरस्थितस्य व्यक्त्यन्तरमनागच्छतस्तेन
सहानुत्पद्यमानस्य च तत्सम्बन्धो युक्तः ।
तथा—यत्र देशेऽसौ शाबलेयादिर्भावो वर्तते, तेन देशेन सामान्यं न
सम्बध्यते; स्वव्यक्तिनिष्ठत्वात् तस्य ॥ १४८–१५४ ॥
तद्देशिनं सामान्यसम्बन्धरहितो देशो यस्य तं विशेषं च व्याप्नोतीति
किमपि महाद्भुतमेतद् दुर्बुद्धिविलपितेषु ।
अथ सर्वत्रगा जातिरिष्यते, तदैकत्रैव देशे व्यक्त्या व्यक्ता सा
१-१. स्वस्थानादचलतोऽन्यत्र वृत्तिरयुक्तिमत्—रा० ।
२. व्यक्त्येवैकत्र—पाठा० । ३-३. व्यक्ताथ सर्वगा जातिरिष्यते—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३०५
सर्वत्र १ दृश्येताभेदात् सापि न १ व्यक्त्यपेक्षिणी ।
व्यञ्जकस्याप्रतीतौ २ न व्यङ्ग्यं सम्यक् प्रतीयते २ ॥ १५६ ॥
विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः ।
पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः ॥ १५७ ॥
भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्रयात् ।
श्रुत्यन्तरनिमित्तत्वात् स्थित्यभावाच्च ३ कर्मणः ३ ॥ १५८ ॥
जातिः सर्वत्र देशे दृश्येत; अभेदात् । एकव्यक्तिव्यक्तं रूपं सर्वत्र विद्यमानम-
भिन्नमित्युपलब्धिप्रसङ्गः । व्यङ्ग्यव्यञ्जकभावश्चायुक्त इत्युक्तम् ।
भवतु वा, तथापि न सा जातिर्व्यक्त्यपेक्षिणी । तथा हि—
व्यञ्जकस्य प्रदीपादेरप्रतीतौ न व्यङ्ग्यं घटादिः सम्प्रतीयत इति
तावत् स्थितम् । सामान्यतद्वतोः पुनः कस्माद् विपर्यय इष्टः । यदि
व्यक्तिः सामान्यस्य व्यञ्जिका, तदा व्यक्तेर्ग्रहे सामान्यं न गृह्येत । इह तु सामा-
न्यस्य व्यङ्ग्यस्य प्राग्ग्रहणम्, ततस्तद्विशिष्टत्वेन व्यक्तिर्गृह्यत इति किमिष्यते;
व्यञ्जकाग्रहे व्यङ्ग्याग्रहणात् !
किञ्च—यदि सामान्यमेवाभिन्नाभिधानहेतुः, न व्यक्तयः, तदा पाचकादिष्व-
भिन्नेनार्थेन पाचकत्वादिसामान्येन विनैव त्वन्मतेऽपि पाचकादिशब्दः
कथं वाचकः ? ॥ १५७ ॥
प्रत्ययश्चानुयायी, कर्म पचनादि तद्धेतुरिति चेत् ? आह—भेदान्न हेतुः
कर्मादि । कर्मापि प्रतिव्यक्त्येकस्यामपि पौर्वापर्येण भिन्नमेव, तत् कथं व्यक्तिवदे-
कामिधानहेतुः । कर्मसामान्यं हेतुश्चेद् ? आह— अस्य कर्मणो जातिर्नाभिन्नाभि-
धानहेतुः; तस्याः कर्मसंश्रयात् । कर्मणि समवेतत्वात् तत्रैवाभिधानहेतुता
स्यात्, न द्रव्ये ।
अथ कर्मसामान्यं कर्मणि सम्बद्धम् , तच्च द्रव्य इति परम्परया तत्सम्बद्धम् ,
तन्निमित्तः शब्दो द्रव्ये वर्त्तते ? इत्याह—श्रुत्यन्तरस्य पाचकादिशब्दादन्यस्य पाक
१-१. जातिर्दृश्येत सर्वत्र न च सा – पाठा० ।
२-२. व्यञ्जकाप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते—पाठा० ।
३-३. कर्मणो न निमित्तता–रा० ।
प्र० वा० : २०

३०६ प्रमाणवार्त्तिके [ सामान्य-
असम्बन्धान्न सामान्यं नायुक्तं शब्दकारणात् १।
अतिप्रसङ्गात्;
कर्मापि नासत्, ज्ञानाभिधानयोः ॥ १५९ ॥
अनैमित्तिकतापत्तेः;
न च शक्तिरनन्वयात् ।
सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत् ॥ १६० ॥
इत्यादिशब्दस्य निमित्तत्वात् कर्मणो द्रव्ये पाचकशब्दवृत्तौ नास्ति निमित्तता
परम्परयापि । तथाऽनित्यत्वात् स्थित्यभावाच्च कर्मणस्तस्मिन्निवृत्ते पाचकादि-
प्रतिपत्तिर्न स्यात् । अपचत्यपि तद्व्यपदेशो दृश्यते ॥ १५८ ॥
नित्यत्वात् कर्मसामान्यस्य पाचकव्यपदेशे हेतुश्चेद् ? आह—असम्ब-
न्धात् । द्रव्येण कर्मसामान्यस्य न सम्बन्धः साक्षात्; तत्रासमवायात् । नापि
परम्परया; कर्मणा तत्समवेतस्य नष्टत्वात् समवायिना सामान्येन सम्बन्धाभावात् ।
न सामान्यं शब्दस्य पाचकादेः कारणान्नायुक्तम्, किन्त्वयुक्तमेव; अति-
प्रसङ्गात् । कर्मत्वस्य सम्बन्धव्यतिरेकेण व्यपदेशहेतुत्वे सर्वत्र तथात्वप्रसङ्गः ।
अपचत्यपि पुरुषेऽतीतानागतं कर्म तद्व्यपदेशनिमित्तमिति चेत् ? आह—
न कर्मासदपि ज्ञानाभिधानयोर्हेतुः; अनैमित्तिकताया आपत्तेः हेतुं विना
भावतोऽहेतुकत्वप्रसङ्गात् । अतीतानागतं च कर्माविद्यमानत्वादसदेव ।
पाकादिनिर्वर्त्तिका शक्तिः पाचकादिव्यपदेशहेतुरिति चेत् ? आह—
शक्तिर्हि द्रव्यादभिन्ना, भिन्ना वा प्रतिपन्ना ? अभिन्ना चेत्, तदा द्रव्यवदनन्वयान्न
चान्वयिनोऽन्वयिशब्दहेतुता । अथ भिन्ना ? तदाऽनुपकारकयोः सम्बन्धानुपपत्ते-
र्द्रव्येणोपक्रियमाणा शक्तिस्तत्सम्बन्धिनीति वक्तव्यम् । अत्रापि द्रव्यं शक्त्यन्तरेण
स्वयमेवासमर्थस्वभावतया शक्तिमुपकरोतीति वाच्यम् । आद्येऽनवस्था, द्वितीये तु
कार्यमेव किं न करोतीत्यलं शक्तिस्वीकारेण !
अभिन्नाभिधाने निमित्तं सामान्यमेव पाचकत्वादि यदीष्यते, तदा
पाकादिक्रियातः प्रागेव तत् पाचकत्वादि सामान्यं द्रव्योत्पत्तावेव व्यक्तं भवेत् ॥
१ शब्दकारणम्—पाठा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३०७
व्यक्तं सत्तादिवन्नो चेन्न पश्चादविशेषतः ।
क्रियोपकारापेक्षस्य व्यञ्जकत्वेऽविकारिणः ॥ १६१ ॥
नापेक्षातिशयेऽप्यस्य १ क्षणिकत्वात् क्रिया कुतः ।
तुल्ये भेदे यथा जातिः प्रत्यासत्त्या प्रसर्पति ॥ १६२ ॥
क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ।
सांख्यमतनिराकरणम्
न निवृत्तिं विहायास्ति यदि भावान्वयोऽपरः ॥ १६३ ॥
एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदतः ? ।
नो चेत् प्रागव्यक्तं न पश्चादपि व्यक्तं स्याद्; अविशेषतो विशेषाभावात् ।
नित्यैकरूपस्य सामान्यस्य क्रियायाः कर्मणः पाकादि न उपकारः, तदपेक्षस्य
द्रव्यस्य पाचकत्वादिसामान्यव्यञ्जकत्वे चेष्यमाणेऽविकारिणः स्थिरस्य
द्रव्यस्यापेक्षा नास्ति । अतिशये वा प्रागवस्थातः स्वीक्रियमाणे क्षणिकत्वं
स्यात् । क्षणिकत्वादुत्पत्त्यनन्तरविनाशित्वात् क्रिया कर्म कुतः सम्भवति !
उत्पत्त्यनन्तरं स्थितौ हि कर्म कुर्यात् । सा च क्षणिकस्य नास्तीति न
तेनोपकारोऽपि ।
वस्तुभूतसामान्यवादिनोऽपि व्यक्तीनां तुल्ये भेदे परस्परमेकार्थकरणादिकया
यथा प्रत्यासत्त्या क्वचिद् व्यक्तौ शाबलेयबाहुलेययोर्जातिः प्रसर्पति,
नान्यत्र कर्कादौ । सैव प्रत्यासत्तिरभिन्नस्य शब्दज्ञानस्य निबन्धनमस्तु,
किं प्रमाणान्तरबाधितजातिस्वीकारेण !
सांख्याः प्राहुः—यदि निवृत्तिं विजातीयव्यवच्छेदं विहाय भावानां
सत्त्वरजस्तमःसाम्यावस्थास्वभावप्रकृत्यात्मनाऽद्वय एकरूपोऽन्वयोऽपरो नास्ति,
तदेकस्य कार्यमङ्कुरोऽन्यस्य क्षित्यादेर्न स्यात् ; बीजक्षित्यादीनामत्यन्त-
भेदतः । अङ्कुरकारकं यद् रूपं बीजस्य, तच्चेत् क्षित्यादेर्नास्ति, न स्यादसौ
तत्कारकः, अस्तित्वे चैकरूपान्वयः ?
१. अतिशये वा ह्यप्यस्य—रा० ।

३०८ प्रमाणवार्त्तिके [ सामान्य-
यद्येकात्मतयानेकः कार्यस्यैकस्य कारकः ॥ १६४ ॥
आत्मैकत्रापि वास्तीति व्यर्थाः स्युः सहकारिणः ।
नापैत्यभिन्नं तद् रूपं विशेषाः खल्वपायिनः ॥ १६५ ॥
एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भवः ।
स पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥ १६६ ॥
स च नान्वेति, योऽन्वेति न तस्मात् कार्यसम्भवः ।
तेनात्मनापि¹ भेदे हि¹ हेतुः कश्चिन्न चापरः ॥ १६७ ॥
सिद्धान्तस्त्वाह—यद्येकात्मतयाऽनेको बीजसलिलादिः कार्यस्याङ्कुर-
स्यैकस्य कारकः, तदाङ्कुरकारक आत्माऽनुयायी । एकत्रापि बीजेऽन्यत्र
वास्तीति व्यर्थाः सहकारिणः स्युः; एकत्र विद्यमानेनैव तेनात्मना
कार्योत्पत्तेः ।
सहकारिणामभावेऽपि बीजसत्त्वेऽभिन्नं तत् प्रधानं कर्तृरूपं नापैति;
नित्यत्वात् । व्यक्तिसत्त्वाच्च विशेषाः खलु नूनमपायिनः, न प्रधानम्; एकस्य
सहकारिणो विशेषस्यापायेऽपि फलस्याभावात् । विशेषेभ्यस्तस्य कार्यस्य
उद्भवो निश्चीयते; न प्रधानात् । विशेषस्यान्वयव्यतिरेकानुविधानात्, सामान्यस्य
विपर्ययात् ।
स एव पारमार्थिको भावो योऽर्थक्रियाक्षमः । स च विशेषोऽर्थ-
क्रियाक्षमो नान्वेति; परस्परं भेदात् । योऽन्वेति प्रधानाख्यो भावः, न
तस्मात् कार्यस्य सम्भवः ।
यद्येकरूपाननुगमः, तदा विशेषेष्वपि केचिज्जनयन्ति, नापर इति कुतोऽयं
विभागः ? इत्याह—येनैकरूपान्वये सहकारिवैकल्यप्रसङ्गः, तेन कारणेनात्मना
स्वरूपेण बीजजलशिलानलादीनां भेदेऽपि कश्चित् क्षितिसलिलबीजादिरङ्कुरस्य
हेतुर्न चापरः शिलानलादिः; हि यस्मात् स्वभावोऽयमङ्कुरजननशक्तः,
तदितरश्च प्रमाणदृष्टः । बीजादीनां शिलादीनाञ्च नात्र पर्यनुयोगावतारः । कुत
उत्पन्न इति चेत् ? स्वस्वहेतोः । सोऽपि कस्मात् तज्जनक इति चेत् ? स्वहेतोः ।
१-१. तेनात्मना भिन्नमपि—पाठा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३०९
स्वभावोऽयम्, अभेदे तु स्यातां नाशोद्भवौ सकृत् ।
भेदोऽपि तेन नैवं चेद् य एकस्मिन् विनश्यति ॥ १६८ ॥
तिष्ठत्यात्मा न तस्यातो न स्यात् सामान्यभेदधीः ।
निवृत्तेर्निःस्वभावत्वात् न स्थानास्थानकल्पना ॥ १६९ ॥
उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा ।
यत् तस्य जनकं रूपं ततोऽन्यो जनकः कथम् ॥ १७० ॥
तत्रापि प्रश्ने तदेवोत्तरम् । अनादिश्च हेतुफलपरम्परा; एकरूपानुगमाद् । विशे-
षाणामभेदे तु स्वीक्रियमाणे सकृदेकस्य नाशोद्भवौ स्याताम् । विशेषान्तरयो-
र्यथासम्भवं नाशे जन्मनि च तदपरस्य विशेषस्य तदभिन्नरूपतया नाशोद्भवौ
स्याताम् ।
अथ परस्परं विशेषाणामेकान्तेन नाभेदः, किं तर्हि ? भेदो विशेषरूपतया ।
तेन भेदेनैवं सकृन्नाशोद्भवप्रसङ्गो न चेत् यद्येकस्मिन् विशेषे विनश्यति
तिष्ठत्यात्मानुयायी प्रधानाख्यः, तदा स तस्य विशेषस्यात्मा न भवति । न हि
यस्मिन् विनश्यति यो न नष्टः स तस्य स्वभावः; विरुद्धधर्माध्यासलक्षणत्वाद-
भेदस्य । अतः परस्परं सर्वथा भेदान्न स्यात् सामान्यभेदधीः । अन्वयि
सामान्यम्, अनन्वयी भेद उच्यते । यदा च सामान्यं भेदाद् भिन्नम्, तदा-
ऽनुगामि व्यक्तिस्वरूपं न सामान्यम् । न च तदात्मको भेदः, अतस्तद्बुद्धिरपि
न भवेत् ।
नन्वन्यनिवृत्तावपि समानमेतत् ! भावे नश्यति अन्यनिवृत्तिर्नश्यति ? न
वा ? यदि नश्यति, न स्याद् व्यक्त्यन्तरे तद्बुद्धिः; अथ न नश्यति, तदाऽ-
त्यन्तभेदात् सामान्यभेदबुद्धिर्न स्याद् ? इत्याह—निवृत्तेर्निःस्वभावत्वात् न
स्थानास्थानयोः स्थितिनिवृत्त्योः कल्पना युक्ता । कल्पिता ह्यन्यनिवृत्तिः
निःस्वभावा । सा किं भावाद् भिन्नाऽभिन्ना वेति न युक्ता कल्पना । न हि
शशविषाणं भिन्नमभिन्नं वेति युक्तं कल्पयितुम् । उपप्लवो मिथ्यात्वं च सामा-
न्यधियो विषयाभावात् । तेनाप्यदूषणा ।
ननूक्तम्—‘यदि भावाः सर्वथा भिन्नाः, तदा यत्तस्य बीजस्य जनकं रूपं न

३१० प्रमाणवार्त्तिके [ सामान्य-
भिन्ना विशेषा जनकाः;
अस्त्यभेदोऽपि¹ तेषु चेत् ।
तेन तेऽजनकाः प्रोक्ताः;
प्रतिभासोऽपि भेदकः ॥ १७१ ॥
अनन्यभाक् स एवार्थस्तस्य व्यावृत्तयोऽपरे ।
तत् कार्यं कारणं चोक्तं तत् स्वलक्षणमिष्यते ॥ १७२ ॥
तत्त्यागाप्तिफलाः सर्वाः पुरुषाणां प्रवृत्तयः ।
यथाऽभेदाविशेषेऽपि न सर्वं सर्वसाधनम् ॥ १७३ ॥
तथा भेदाविशेषेऽपि² न सर्वं सर्वसाधनम् ।
तदन्यस्य क्षित्यादेः' इति, ततोऽन्यो जनकः कथमिति ? अत्रोत्तरमप्युक्तम्
( प्र० वा० ३. १६६ ) । अभिन्नरूपान्वयव्यतिरेकानुविधानाभावाद् भिन्ना
विशेषा एव जनकाः; तदन्वयव्यतिरेकानुविधानात् कार्यस्य । सर्व एव ते
तत्कार्यस्योत्पादकतयोत्पन्नास्तदुत्पादयन्ति ।
तेषु विशेषेष्वन्वयिना रूपेणाभेदोऽप्यस्ति तेनैव ते जनका इति चेत् ?
तेनान्वयिरूपेण ते विशेषा अजनकाः प्रोक्ताः; एकत्रापि विशेषे तद्भावात् सहकारि-
वैफल्यप्रसक्तेः । तदन्वयव्यतिरेकानुविधानाद्, विशेषस्य विपर्ययाच्चेति ।
किञ्च—प्रतिभासोऽप्यनन्यभाग् भेदकः; विशेषाणामसंकीर्णरूपव्य-
वस्थापनात् । अपि-शब्दादुत्पत्तिस्थितिविनाशादयश्च समानाः । ततश्च विशेष
एवार्थः पारमार्थिकः । ये त्वपरे सामान्यादयो धर्माः, ते तस्य शेषस्य विजा-
तीयाद् व्यावृत्तयः कल्पिता अनर्थक्रियाकारिणः ।
अर्थक्रियाकारि तु यद्रूपं तत्कार्यं कारणं चोक्तम्, तत् स्वलक्षण-
मिष्यते । तस्य त्यागाप्तिस्तत्फलाः पुरुषाणामर्थानर्थप्राप्तिपरिहारैषिणां
प्रवृत्तयः सर्वाः ।
किञ्च—सांख्यस्यापि मते यथाऽभेदस्य प्रधानात्मतया सर्वभावेष्व-
विशेषेऽपि न सर्वं व्यक्तं सर्वस्य कार्यस्य साधनं हेतुः, तथा भेदाविशेषेऽपि
१. अप्यभेदोऽपि—रा० । २. तथाऽभेदाविशेषेऽपि—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३११
भेदे हि कारकं किञ्चिद् वस्तुधर्मतया भवेत् ॥ १७४ ॥
अभेदे तु विरुध्येते तस्यैकस्य क्रियाक्रिये ।
भेदोऽप्यस्त्यक्रियातश्चेत्¹ न कुर्युः सहकारिणः ॥ १७५ ॥
पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुनः ।
अत्यन्तभेदाभेदौ तु² स्यातां तद्वति वस्तुनि ॥ १७६ ॥
न सर्वं क्षितिबीजानलशिलादिकं सर्वस्य तापाङ्कुरादेः साधनम् ।
विशेषान्तराद् भेदे हि सति वस्तुधर्मतया वस्तुस्वभावत्वात् किञ्चिद्
वस्तु कारकं भवेत्, न सर्वमिति युक्तम्; स्वहेतुबलायातत्वाद् भिन्नशक्ति-
कत्वस्य ॥ १७४ ॥
अभेदे तु सर्वभावानां विरुध्येते तस्यैकस्याङ्कुरादेः क्रियाक्रिये;
बीजरूपतया प्रधानमङ्कुरकारकम्, अकारकं च दहनरूपतया । विप्रतिषिद्धं चैतत्
कथमेकस्य युक्तम् !
व्यक्तीनां मिथो व्यक्तिरूपतया भेदोऽप्यस्ति । व्यक्त्यन्तरसाध्यस्य कार्य-
स्याक्रियातश्चेत् ? तदा भेदात् सहकारिणः कार्यं न कुर्युः । एकस्य यः
कारकः स्वभावः, तस्यान्यत्राभावात् ॥ १७५ ॥
अथ कारकैकस्वभावानुगमात् सहकारिणां पर्यायेण कर्तृत्वम्, स
पर्यायस्तस्यान्वयिन एकस्य वस्तुनः किं कस्माद् युक्तः ! न ह्येकं वस्तु कार्यं
कुर्वत् पर्यायेण न करोतीति युक्तं व्यपदेष्टुम्; तेनैव क्रियमाणत्वात् । सहकारिणां
बहूनां पर्यायेण क्रिया सम्भाव्यते । तेषु चैकस्य कारकं रूपमन्यत्र नास्तीति
न ते कुर्युः । सर्वेषां च स्वहेतुबलायात एककार्यकारकः स्वभावोऽस्माभिरिव
सांख्यैर्नेष्यते ।
किञ्च — तद्वति सामान्यविशेषवति वस्तुनि स्वीक्रियमाणेऽत्यन्तमेकान्तेन
सामान्यविशेषयोर्भेदाभेदौ स्याताम् । सामान्यस्वरूपत्वाद् भेदस्य सामान्यमेव
भवेन्न भेदः; भेदात्मकत्वात् सामान्यस्य भेद एव भवेत् सामान्यम् ॥ १७६ ॥
१. भेदश्चेदक्रियाहेतुः—क० ।
२. हि—पाठा० ।

३१२ प्रमाणवार्त्तिके [ सामान्य-
अन्योन्यं वा तयोर्भेदः सदृशासदृशात्मनोः ।
तयोरपि भवेद् भेदो यदि येनात्मना तयोः ॥ १७७ ॥
भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना ।
भेद एव;
तथा च स्यान्निःसामान्यविशेषता ॥ १७८ ॥
भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् ।
यमात्मानं पुरस्कृत्य पुरुषोऽयं प्रवर्त्तते ॥ १७९ ॥
तत्साध्यफलवाञ्छावान् भेदाभेदौ तदाश्रयौ ।
चिन्त्येते स्वात्मना भेदः;
अथ तयोः कथञ्चन भेदोऽप्यस्तीति चेद् ? आह—तयोः सामान्यविशेषयोः
सदृशासदृशात्मनोः साधारणासाधारणस्वरूपयोरन्योन्यं भेद एव वा भवेत्,
न कथञ्चिदेकत्वम् ।
एतदेव स्फुटयितुं पूर्वपक्षयति—न सर्वात्मनाऽभेदस्तयोः समान्यविशेषयो-
रपि कथञ्चिद् भेदो भवेद् यदि, अन्यथा सामान्यविशेषभावानुपपत्तिः ?
अत्राह—येनात्मना स्वरूपेण साधारणेन चासाधारणेन च तयोः सामान्य-
विशेषयोर्भेदः सामान्यं विशेष इत्येतद् व्यवस्थाप्यते, तेनात्मना साधारणा-
साधारणेन यदि भेदः, तदा भेद एव तयोः स्यात्, भिन्नलक्षणत्वात् ।
तथा च निःसामान्यविशेषता सामान्यविशेषरूपताऽभावः सामान्यवि-
शेषयोरभिमतयोः स्यात् । यद्वद् घटादीनां विशेषाणां परस्परं न सामान्य-
विशेषता । विशेषः स्वलक्षणरूपम्, अनुगामि सामान्यम्, तदेवानुगामि विशेष
उच्यते । यदि तु तयोर्भेद एव, न सामान्यविशेषभावः स्यात् ।
अपि च—अयं व्यवहारी पुरुषो यमर्थस्यात्मानं स्वभावं पुरस्कृत्य
प्रवृत्तिविषयत्वेनाग्रहं कृत्वा तत्साध्यफलवाञ्छावान् अर्थसाध्यफलसमीहायुक्तः
सन् प्रवर्त्तते । तदाश्रयौ तदर्थविषयौ भेदाभेदौ शास्त्रकारैश्चिन्त्येते, न
त्वर्थक्रियानुपयुक्तसामान्यविषयौ । तेषां चार्थक्रियाकारिणां पुरुषप्रवृत्तिविषयाणा-
मर्थानां स्वात्मना स्वरूपेण भेदः ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३१३
व्यावृत्या च समानता ॥ १८० ॥
अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ।
जैनमतनिराकरणम्
एतेनैव यदह्लीकाः¹ किमप्यश्लीलमाकुलम्² ॥ १८१ ॥
प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् ।
सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ॥ १८२ ॥
चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ।
अथास्त्यतिशयः कश्चिद् येन भेदेन वर्त्तते ॥ १८३ ॥
स एव दधि³ सोऽन्यत्र³ नास्तीत्यनुभयं परम् ।
सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी ॥ १८४ ॥
कथं तर्ह्येकबुद्धिशब्दविषयता ? इत्याह—विजातीयाद् व्यावृत्या च सा
समानताऽस्त्येव । स्वस्वभावनियतं तु स्वलक्षणं वस्तु नान्वेति; सर्वत्र
प्रवृत्त्यादिप्रसङ्गतः । अग्निरपि सलिलस्वभाव एवेति सलिलार्थी तत्रापि प्रवर्त्तत ।
तस्मात् स्थितमेतत्—न किञ्चित् किमप्यन्वेतीति ।
एतेन सांख्यमतनिराकरणेनैवाहीका दिगम्बरा यत् “स्यादुष्ट्रो दधि
वस्तुत्वात् , न वा स्यादुष्ट्रो विशेषरूपतया” इति किमप्ययुक्ततया हेयोपादेय-
विषयापरिनिष्ठानादाकुलं प्रलपन्ति, तदपि प्रतिक्षिप्तम्; एकान्तस्य भेदस्य
सम्भवात् ।
आकुलत्वमेवाख्यातुमाह—सर्वस्य वस्तुन उभयरूपत्वे स्वपररूपत्वे सति
तद्विशेषस्य—दध्येव दधि नोष्ट्रः, उष्ट्र एवोष्ट्रो न दधीत्यस्य भेदस्य निराकृतेः
दधि खादेति चोदितो नियोज्यः किमुष्ट्रं प्रति नाभिधावति !
अथास्ति दध्नः सकाशाद् उष्ट्रस्यातिशयो विशेषः कश्चिद् येन विशेषेण
चोदितेन भेदेन प्रतिनियमेन दधिशब्दाद् दघ्न्येव, उष्ट्रशब्दादुष्ट्र एव प्रवर्त्तते ?
एवं तर्हि स विशेष एवान्यत्रासम्भवी उष्ट्रे विशेषो दधिलक्षणोऽन्यत्र वस्तुनि
नास्तीति सर्वं वस्त्वनुभयं न स्वपररूपम्, किन्तु परमेव परस्मात् ।
किञ्च—सर्वेषां भावानां सर्वात्मत्वे च भिन्नौ धीध्वनी न स्याताम्;
१. यदाहीकाः—रा० । २. प्युक्तमा०—रा० । ३-३. विशेषोऽन्यत्र—रा० ।

३१४ प्रमाणवार्त्तिके [ शब्द-
भेदसंहारवादस्य तद्भेदादसम्भवः १ ।
शब्दविचारः
रूपाभावादभावस्य २ शब्दा रूपाभिधायिनः ॥ १८५ ॥
नाशंक्या एव सिद्धास्तेऽतो व्यवच्छेदवाचकाः ।
उपाधिभेदापेक्षो वा स्वभावः केवलोऽथ वा ॥ १८६ ॥
उच्यते साध्यसिद्ध्यर्थं नाशे कार्यत्वसत्त्ववत् ।
एकविषयत्वात् । तयोर्धीध्वन्योरभेदात् भेदसंहारवादस्यासम्भवः स्यात् ।
'उष्ट्राद् भिन्नं दधि' इति भेदव्यवहारः, 'दध्येवोष्ट्रः' इति च तदात्मतोपसंहार-
व्यवहारश्च बुद्धिशब्दयोरभेदान्न स्यात् । न हि बुद्धिशब्दयोर्भेदव्यवहारो युक्तः;
तन्निबन्धनत्वात् तस्य । तदभावेऽपि भावे चातिप्रसङ्गात् । भेदप्रतीत्योर्भावात्
तादात्म्योपसंहारश्च कथम् ; तदधीनत्वात् तस्य ।
उक्तं तावद् भावादिशब्दानां व्यवच्छेदविषयत्वम् ॥
येऽप्यभावादिशब्दा अभावस्य स्वरूपाभावात् तेऽपि रूपाभिधायिनो
वस्तुवाचका नाशङ्कया एव । सम्भवद् वस्तु वाच्यं स्यान्न वेति चिन्त्येतापि ।
यत्र तु वस्त्वेव नास्ति, तत्र का चिन्ता ! अतस्तेऽभावादिशब्दा व्यवच्छेदस्य
भावव्यावृत्तेर्वाचकाः सिद्धाः । तस्मात् स्थितमेतत्—स्वभावहेतोर्वस्तुतः
साध्यात्मकत्वेऽपि न प्रतिज्ञार्थैकदेशो हेतुः; साध्यसाधनधर्मिध्वनिविकल्पानां
भिन्नव्यवच्छेदविषयत्वात् । न च साध्यादीनां कल्पितत्वम्; भेदस्य कल्पनात् ।
शब्दत्वेन निश्चितो धर्मी, सत्त्वेन च हेतुः, क्षणिकत्वेन निश्चितः साध्यः—
इत्यकल्पिता एव धर्म्यादय इत्युक्तम् ।
स चायं स्वभावो हेतुः कचिदुपाधिभेदो विशेषणविशेषो भिन्नः,
अभिन्नो वा तदपेक्षः, केवलो विशेषणरहितः शुद्धः, अथ वा साध्यसिद्ध्यर्थ-
मुच्यते, नाशे कार्यत्वसत्त्ववत् । नाशे साध्ये कार्यत्वं भिन्नविशेषणापेक्षः
स्वभावः; तज्जन्मन्यपेक्षितपरव्यापारस्य कार्यत्वात् । एवं प्रत्ययभेदभेदित्वादयो
१. तदभावादसम्भवः—पाठा० ।
२. द्रव्याभावा०—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३१५
सत्तास्वभावो हेतुश्चेत् सा१ सत्ता साध्यते कथम् ॥ १८७ ॥
अनन्वयो२ हि भेदानां२ व्याहतो हेतुसाध्ययोः ? ।
भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि ॥ १८८ ॥
न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् ।
उपात्तभेदे साध्येऽस्मिन् भवेद्धेतुरनन्वयः ॥ १८९ ॥
सत्तायां तेन साध्यायां विशेषः साधितो भवेत् ।
अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने ॥ १९० ॥
द्रष्टव्याः । उत्पत्तिमत्त्वं पुनरभिन्नविशेषणमुत्पत्त्या स्वभावभूतया कल्पितभेदया
विशेषणात् । सत्त्वं तु केवलं नाश एव साध्ये स्वभावः; विशेषणानुपदानात् ।
ननु सत्तास्वभावो हेतुश्चेदभिमतः सामान्यरूपो विशेषस्यानन्वयात्, तदा
सा सत्ता प्रधानाख्या सर्वव्यक्तिव्यापिनी कथं साध्यतेऽचेतनत्वादिहेतोः !
अथ भेदानां परस्परमत्यन्तं भेदेनानन्वयान्न साध्यते, तदा सोऽयं भेदाना-
मनन्वयो हि हेतुसाध्ययोर्व्याहतः ।
अर्थानन्वयिनः साध्यता न युक्ता, तथा साधनतापि, तत् कथं सत्त्वं
साधनम् । तस्मात् सत्ता सामान्यं साध्यं च साधनं चानन्वयात् स्यात् ?
अत्राह—भावः सत्ता सा उपादानं विशेषणं यस्य स भावोपादानः,
स एव केवलस्तन्मात्रं तस्मिन् साध्ये सामान्यधर्मिणि सामान्यधर्मवति न
कश्चिदर्थः प्रधानसिद्धिलक्षणः सांख्यस्य सिद्धः स्यात्; सत्त्वमात्रविशेषणस्य
धर्मिणः साधनात् । अनिषिद्धं च तादृशं साध्यम्; भेदानां सत्त्वस्येष्टत्वात् ।
अथैकसुखाद्यात्मकमित्यप्रधानविशेषणविशेषितं सत्त्वं साध्यम् ? तदोपा-
त्तभेदे साध्येऽस्मिन् सत्त्वे भवेद्धेतुरनन्वयोऽन्वयरहितः; प्रधानस्य क्वचि-
दन्वयासिद्धेः । सामान्यमेव पुनः किं न साध्यते ? सामान्ये साध्ये सिद्धसाधन-
दोषात् । सत्तायां साध्यायामिष्टायां तेन वादिना विशेष एवाभिमतः साधितो
भवेत् । अत्र चानन्वयदोष उक्तः ।
अस्माकं तु—अपरामृष्टोऽनध्यवसितस्तस्य वस्तुनो भेदो यस्मिन् तस्मिन्
१. न—पाठा० । २-२. भेदेनानन्वयात् सोऽयं—रा० ।

३१६ प्रमाणवार्त्तिके [ शब्द-
तन्मात्रव्यापिनः साध्यस्यान्वयो न विहन्यते ।
नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ॥ १९१ ॥
धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् !
सिद्धः स्वभावो गमको व्यापकस्तस्य¹ निश्चितः¹ ॥ १९२ ॥
गम्यः² स्वभावस्तस्यायं² स्वनिवृत्तौ³ निवर्तकः ।
वस्तुमात्रे तु साधने तन्मात्रव्यापिनः साध्यस्यानित्यत्वस्यान्वयो न
विहन्यते, अतः साधनत्वं सत्त्वस्य युक्तम् ।
ननु धूमादग्निसाधनेऽपि समानमेतत् । तथा हि—यदि धूमादग्निसत्तामात्रं
साध्यते, तदा सिद्धसाध्यता; अथ पर्वतेऽस्तीति साध्यते, तदाऽन्वयासिद्धिः ?
नैतदस्ति; न हि पक्षायोगव्यवच्छेदस्तमग्निं विशेषीकरोति; अनग्निव्यावृत्तस्य
साधनात् । सत्तासाधने तु तद्(सत्त्व)विशेष एव प्रधानाख्यः साध्यः ।
किञ्च—सत्तायां साधनमचेतनत्वादीष्टं सद्भावधर्मः, अभावधर्मः, उभयधर्मो
वा भवेत् । तत्र साधनात् प्रागसिद्धे भावे भावधर्मो नास्तीत्यसिद्धासौ ।
उभयाश्रयो भावाभावधर्मश्च व्यभिचार्यनैकान्तिकः । न ह्युभयधर्म एकान्तेनैक-
सत्तां गमयति, अमूर्तत्वमिव वस्तुताम् ॥ १९१ ॥
अभावस्य तु धर्मो विरुद्धः; असत्त्वसाधनात् । ततस्त्रिविधदोषदुष्टत्वात्
साधनस्य सा सत्ता कथं साध्यते ?
साधनपक्षे तु सत्ता धर्मिणि सिद्धत्वान्नासिद्धा । अनित्यताव्याप्तिप्राप्तेः विरोध-
व्यभिचारौ चापास्तौ । तस्माद् व्याप्यस्वभावः साध्यात्मतया सिद्धो निश्चितो
गमकः । तस्य व्याप्यस्य व्यापकः स्वभावः सिद्धो गम्यः; व्यापकस्य तत्र
भाव एव, व्याप्यस्य च तत्रैव भाव इत्युभयधर्मरूपाया व्याप्तेः सिद्धत्वात् ।
अतश्चायं व्यापकः स्वनिवृत्तौ तस्य व्याप्यस्य निवर्त्तकः । अनेन
साधर्म्यवैधर्म्यप्रयोगावूद्दिष्टौ ।
१-१. ०ऽतो गम्यस्तस्य व्यापकः—रा० ।
२-२. सिद्धः स्वभावनियतः—रा० ।
३. निवृत्तौ वा—पाठा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३१७
अहेतुकविनाशः
अनित्यत्वे यथा कार्यमकार्यं वाऽविनाशिनि ॥ १९३ ॥
अहेतुत्वाद् विनाशस्य स्वभावानुबन्धिता ।
सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते ॥ १९४ ॥
बाहुल्येऽपीति¹ चेत्¹ तस्य हेतोः क्वचिदसम्भवः ।
एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः ॥ १९५ ॥
सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् ।
असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः ॥ १९६ ॥
उदाहरणमाह—अनित्यत्वे साध्ये कार्यं हेतुः, यथा यत् कृतकं तदनित्यं
यथा घटः कृतकश्च शब्द इति साधर्म्यप्रयोगः । अकार्यमकार्यस्वभावो वाऽ-
विनाशिनि नाशाभाव इति, अनित्यत्वनिवृत्तौ कृतकत्वनिवृत्तिर्यथा आकाशे कृतकश्च
शब्द इति वैधर्म्यप्रयोगः । कथं पुनर्गम्यते सत्त्वमात्रानुबन्धिनी नश्वरता ? इत्याह—
अहेतुत्वात् अहेतुकत्वाद् विनाशस्य स्वभावाद् वस्तुसत्तामात्रेणानुबन्धिता ।
कस्मादेवम् ? इत्याह—सापेक्षाणां भावानां हि यस्मादवश्यम्भाविता
नेक्ष्यते, रागस्येव वाससि, ततश्च कश्चिद् घटो न विनश्येदपि ॥ १९४ ॥
विनाशकानां हेतूनां बाहुल्यादवश्यमिति चेत् ? बाहुल्येऽपि तस्य नाश-
कस्य हेतोः क्वचिद् घटादावसम्भवः स्यात्; तद्व्याघातकानामपि बाहुल्यात् ।
एतेन नाशहेतूनां प्रतिरोधसम्भवेन हेतुमन्नाशवादिनां मतेन नाश-
हेतूनां मुद्गरादीनां सर्वेषां नाशे कार्येऽनुमापयितव्ये व्यभिचारित्वमुक्तं
बोद्धव्यम्; कार्याव्यवस्थितेः विनाशहेतोर्विनाशस्योत्पत्तिनियमाभावात् ।
कथं पुनर्विनाशस्याहेतुता ? इत्याह—असामर्थ्याच्च तद्धेतोर्विनश्वरस्य वा
भावस्य विनाशः क्रियते नाशहेतुना । तत्र विनश्वरस्य स्वयमेव विनाशादलं
नाशहेतुना ! अविनश्वरस्य नाशं कर्तुं न कश्चित् समर्थः । च-शब्दात् क्रिया-
प्रतिषेधः स्यात् । तथा हि—अभावो यदि पर्युदासो भावान्तरं कपालादिकम्,
तदा तस्य मुद्गरादिहेतुतेष्यत एव । तदुत्पादेऽपि घटस्य न किञ्चिदिति
१-१. बाहुल्येऽपि हि—पाठा०.।

३१८ प्रमाणवार्त्तिके [ शब्द-
यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः ।
या काचिद् भावविषयाऽनुमितिर्द्विविधैव १ सा १ ॥ १९७ ॥
स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात् तयोः ।
अनुपलब्धिचिन्ता
प्रवृत्तेर्बुद्धिपूर्वकत्वात् तद्भावानुपलम्भने ॥ १९८ ॥
प्रवर्त्तितव्यं नेत्युक्ताऽनुपलब्धेः प्रमाणता २ ।
प्राग्वदुपलब्धयादिप्रसङ्गः । तस्माद्भावं करोति भावं न करोतीति स्यात् । तथा
चाकर्तुरहेतुतैव ॥ १९६ ॥
तस्माद् विनाशहेतोरयोगादेव विनाशः स्वभावतः स्वहेतोर्भवति अस्मा-
दिति भावो हेतुः । यत्र नाम विनाशो भवतीति मुद्गरात् कपालोत्पत्तौ लोका-
भिमानः । तत्र विनाशकायोगात् स्वहेतोरेव विनश्वरस्वभावतयोत्पत्तेर्द्वितीये क्षणे न
भवतीति वक्तव्यम् । तस्माद्धेतुत्वव्यवस्थानादन्यत्रापि यत्र विसदृशानुत्पत्त्या
विनाशोऽस्त्यभिमानो नास्ति, तत्रापि स्वभावतः स्वहेतोरेव विनश्यतीति विनाश
एकक्षणस्थायी भावो ज्ञायते ।
तथाविधे च भावमात्रानुरोधिनि विनाशे सत्त्वं हेतुरव्यभिचारः; कार्यस्य कारणे
तदधीनत्वादित्युक्तम् । तदेवाह — या काचिद् भावविषयानुमितिः सा
द्विविधैव कार्यभावाभ्यां हेतुभ्यां कारणव्यापकविषया भवन्ती तयोः कार्यस्व-
भावयोरेव; स्वसाध्ये सम्बन्धस्य नियमात् । अन्यस्य तु साध्येऽनापत्तेर-
तदात्मत्वाच्च नाव्‍यभिचारनियमः ।
अनुपलब्धेरप्युपलब्धिनिवृत्तिमात्रलक्षणायाः प्रामाण्यमाख्यातुमाह—सज्ज्ञान-
शब्दव्यवहाराणां प्रवृत्तेर्बुद्धिपूर्वकत्वात् तस्या बुद्धेर्भावानुपलम्भने कारणा-
भावात प्रवर्त्तितव्यं नेति सामर्थ्यात् सिध्यति । न हि कारणाभावं कार्य युक्तम् ।
अतोऽनुपलब्धेरुपलब्धिनिवृत्तिरूपायाः प्रवृत्तिनिषेधे साध्ये प्रमाणतोक्ता-
चार्येण । न पिशाचादिकं घटादिकं सदिति वक्तव्यमनुपलब्धेरिति सद्द्व्यवहार-
प्रतिषेधमात्रं साध्यते, न त्वसत्त्वव्यवहारः ।
१-१. द्विधैवानुमितिस्ततः—पाठा० । २. इतोऽग्रे मा० पुस्तके—"प्रामाण्यमत्र
विषयेऽसन्निश्चयफलापि सा"—इत्यधिकः कारिकांशो दृश्यते ।