प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 330, कुल 532 में से
संदर्भ में पढ़ें३०४ प्रमाणवार्त्तिके [ सामान्य-
न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ॥ १५२ ॥
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ! ।
अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि ॥ १५३ ॥
स्वस्मादचलतः¹ स्थानाद् वृत्तिरित्यतियुक्तिमत्¹ ।
यत्रासौ वर्त्तते भावस्तेन सम्बध्यतेऽपि न ॥ १५४ ॥
तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ! ।
व्यक्त्यैवैकत्र² सा³ व्यक्ताऽभेदात् सर्वत्रगा यदि³ ॥ १५५ ॥
अपि च—सामान्यं स्वाश्रयगतं वा कल्प्यते ? सर्वगतं वा आकाशादिवत् ?
तत्र प्रथमपक्षं दूषयितुमाह—एकव्यक्तिस्थितं सामान्यं व्यक्त्यन्तरमुत्पद्यमानं
निष्क्रियत्वान्न याति । न तत्र व्यक्त्युत्पत्तिदेशे प्रागासीत्; व्यक्तिमात्र-
निष्ठत्वात् । अस्ति च पश्चादुत्पत्तेः सामान्यम्; सामान्यशून्याया व्यक्तेः स्थित्यनु-
पगमान्न चांशवत् । न हि सामान्यं सावयवम्, येन कचिदेकेनावयवेन समवेतं
सद् अवयवान्तरैरुत्पद्यमानव्यक्तिभिः सम्बध्यते । न च पूर्वोत्पन्नमाधारं
जहाति । उत्पित्सुव्यक्त्यन्तरेण सम्बन्धार्थमन्यत्र स्थितस्यापरसम्बन्धस्तद्देशागमनं
किल न युज्यत इत्यहो व्यसनसन्ततिः स्वाश्रयगतसामान्यवादिनाम् ।
किञ्च—अन्यत्र पूर्वस्थितायां व्यक्तौ वर्तमानस्य सामान्यस्य स्वस्मात्
स्थानादाश्रयादचलतः ततः पूर्वव्यक्तेरन्यत्र स्थाने जन्म यस्य तत्र द्रव्ये
वृत्तिरित्यतियुक्तिमत् । न हि व्यक्त्यन्तरस्थितस्य व्यक्त्यन्तरमनागच्छतस्तेन
सहानुत्पद्यमानस्य च तत्सम्बन्धो युक्तः ।
तथा—यत्र देशेऽसौ शाबलेयादिर्भावो वर्तते, तेन देशेन सामान्यं न
सम्बध्यते; स्वव्यक्तिनिष्ठत्वात् तस्य ॥ १४८–१५४ ॥
तद्देशिनं सामान्यसम्बन्धरहितो देशो यस्य तं विशेषं च व्याप्नोतीति
किमपि महाद्भुतमेतद् दुर्बुद्धिविलपितेषु ।
अथ सर्वत्रगा जातिरिष्यते, तदैकत्रैव देशे व्यक्त्या व्यक्ता सा
१-१. स्वस्थानादचलतोऽन्यत्र वृत्तिरयुक्तिमत्—रा० ।
२. व्यक्त्येवैकत्र—पाठा० । ३-३. व्यक्ताथ सर्वगा जातिरिष्यते—रा० ।