सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 340, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 340

३१४ प्रमाणवार्त्तिके [ शब्द-
भेदसंहारवादस्य तद्भेदादसम्भवः १ ।
शब्दविचारः
रूपाभावादभावस्य २ शब्दा रूपाभिधायिनः ॥ १८५ ॥
नाशंक्या एव सिद्धास्तेऽतो व्यवच्छेदवाचकाः ।
उपाधिभेदापेक्षो वा स्वभावः केवलोऽथ वा ॥ १८६ ॥
उच्यते साध्यसिद्ध्यर्थं नाशे कार्यत्वसत्त्ववत् ।
एकविषयत्वात् । तयोर्धीध्वन्योरभेदात् भेदसंहारवादस्यासम्भवः स्यात् ।
'उष्ट्राद् भिन्नं दधि' इति भेदव्यवहारः, 'दध्येवोष्ट्रः' इति च तदात्मतोपसंहार-
व्यवहारश्च बुद्धिशब्दयोरभेदान्न स्यात् । न हि बुद्धिशब्दयोर्भेदव्यवहारो युक्तः;
तन्निबन्धनत्वात् तस्य । तदभावेऽपि भावे चातिप्रसङ्गात् । भेदप्रतीत्योर्भावात्
तादात्म्योपसंहारश्च कथम् ; तदधीनत्वात् तस्य ।
उक्तं तावद् भावादिशब्दानां व्यवच्छेदविषयत्वम् ॥
येऽप्यभावादिशब्दा अभावस्य स्वरूपाभावात् तेऽपि रूपाभिधायिनो
वस्तुवाचका नाशङ्कया एव । सम्भवद् वस्तु वाच्यं स्यान्न वेति चिन्त्येतापि ।
यत्र तु वस्त्वेव नास्ति, तत्र का चिन्ता ! अतस्तेऽभावादिशब्दा व्यवच्छेदस्य
भावव्यावृत्तेर्वाचकाः सिद्धाः । तस्मात् स्थितमेतत्—स्वभावहेतोर्वस्तुतः
साध्यात्मकत्वेऽपि न प्रतिज्ञार्थैकदेशो हेतुः; साध्यसाधनधर्मिध्वनिविकल्पानां
भिन्नव्यवच्छेदविषयत्वात् । न च साध्यादीनां कल्पितत्वम्; भेदस्य कल्पनात् ।
शब्दत्वेन निश्चितो धर्मी, सत्त्वेन च हेतुः, क्षणिकत्वेन निश्चितः साध्यः—
इत्यकल्पिता एव धर्म्यादय इत्युक्तम् ।
स चायं स्वभावो हेतुः कचिदुपाधिभेदो विशेषणविशेषो भिन्नः,
अभिन्नो वा तदपेक्षः, केवलो विशेषणरहितः शुद्धः, अथ वा साध्यसिद्ध्यर्थ-
मुच्यते, नाशे कार्यत्वसत्त्ववत् । नाशे साध्ये कार्यत्वं भिन्नविशेषणापेक्षः
स्वभावः; तज्जन्मन्यपेक्षितपरव्यापारस्य कार्यत्वात् । एवं प्रत्ययभेदभेदित्वादयो
१. तदभावादसम्भवः—पाठा० ।
२. द्रव्याभावा०—रा० ।