सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 343, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 343

विचारः ] स्वार्थानुमानपरिच्छेदः ३१७
अहेतुकविनाशः
अनित्यत्वे यथा कार्यमकार्यं वाऽविनाशिनि ॥ १९३ ॥
अहेतुत्वाद् विनाशस्य स्वभावानुबन्धिता ।
सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते ॥ १९४ ॥
बाहुल्येऽपीति¹ चेत्¹ तस्य हेतोः क्वचिदसम्भवः ।
एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः ॥ १९५ ॥
सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् ।
असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः ॥ १९६ ॥
उदाहरणमाह—अनित्यत्वे साध्ये कार्यं हेतुः, यथा यत् कृतकं तदनित्यं
यथा घटः कृतकश्च शब्द इति साधर्म्यप्रयोगः । अकार्यमकार्यस्वभावो वाऽ-
विनाशिनि नाशाभाव इति, अनित्यत्वनिवृत्तौ कृतकत्वनिवृत्तिर्यथा आकाशे कृतकश्च
शब्द इति वैधर्म्यप्रयोगः । कथं पुनर्गम्यते सत्त्वमात्रानुबन्धिनी नश्वरता ? इत्याह—
अहेतुत्वात् अहेतुकत्वाद् विनाशस्य स्वभावाद् वस्तुसत्तामात्रेणानुबन्धिता ।
कस्मादेवम् ? इत्याह—सापेक्षाणां भावानां हि यस्मादवश्यम्भाविता
नेक्ष्यते, रागस्येव वाससि, ततश्च कश्चिद् घटो न विनश्येदपि ॥ १९४ ॥
विनाशकानां हेतूनां बाहुल्यादवश्यमिति चेत् ? बाहुल्येऽपि तस्य नाश-
कस्य हेतोः क्वचिद् घटादावसम्भवः स्यात्; तद्व्याघातकानामपि बाहुल्यात् ।
एतेन नाशहेतूनां प्रतिरोधसम्भवेन हेतुमन्नाशवादिनां मतेन नाश-
हेतूनां मुद्गरादीनां सर्वेषां नाशे कार्येऽनुमापयितव्ये व्यभिचारित्वमुक्तं
बोद्धव्यम्; कार्याव्यवस्थितेः विनाशहेतोर्विनाशस्योत्पत्तिनियमाभावात् ।
कथं पुनर्विनाशस्याहेतुता ? इत्याह—असामर्थ्याच्च तद्धेतोर्विनश्वरस्य वा
भावस्य विनाशः क्रियते नाशहेतुना । तत्र विनश्वरस्य स्वयमेव विनाशादलं
नाशहेतुना ! अविनश्वरस्य नाशं कर्तुं न कश्चित् समर्थः । च-शब्दात् क्रिया-
प्रतिषेधः स्यात् । तथा हि—अभावो यदि पर्युदासो भावान्तरं कपालादिकम्,
तदा तस्य मुद्गरादिहेतुतेष्यत एव । तदुत्पादेऽपि घटस्य न किञ्चिदिति
१-१. बाहुल्येऽपि हि—पाठा०.।