प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
विचारः ] स्वार्थानुमानपरिच्छेदः ३१९
शास्त्राधिकारेऽसम्बद्धा¹ बहवोऽर्था अतीन्द्रियाः ॥ १९९ ॥
अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धितः ।
सदसन्निश्चयफला नेति स्याद् वाऽप्रमाणता ॥ २०० ॥
प्रमाणमपि काचित् स्याद् लिङ्गातिशयभाविनी ।
स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः ॥ २०१ ॥
कार्ये तु कारकाज्ञानमभावस्यैव साधकम् ।
यत्र तर्हि प्रत्यक्षानुमानयोः शास्त्रस्य निवृत्तिः, तस्याभाव एव साधयितुं
युक्तः ? इत्याह—शास्त्राधिकारेऽसम्बद्धाः, अनेन शास्त्राविषयत्वमाह । बह-
वोऽर्था अनियतकारणोपनिपातजन्याः सूक्ष्मा दुर्लक्षभेदा मनोवृत्तयो जन्मिनाम्,
देशफलव्यवहिता वाऽनुत्पन्ना द्रव्यविशेषा अतीन्द्रियाः, अनेन प्रत्यक्षा-
विषयतामाह । लिङ्गाच्चानुमेयतामाह । तेषामर्थानां प्रत्यक्षानुमानशास्त्रनिवृत्ति-
लक्षणाया अनुपलब्धितः कथमभावः साधयितुं युक्तः; सत्यप्यनुपलम्भे तेषां
सत्त्वसम्भवात् ! अत ईदृश्यनुपलब्धिः सतोऽसन्निश्चयफला नेति अप्रमाणता
वाऽस्याः स्यात् ॥ २०० ॥
सत्त्वप्रतिषेधे साध्ये काचित् त्वनुपलब्धिर्लिङ्गजा प्रतीतिरस्मिन्नेव साध्ये
प्रमाणमपि स्याल्लिङ्गातिशयभाविनी लिङ्गविशेषप्रभवा । यथोक्तं प्राक्—“हेतु-
भेदव्यपेक्षया” ( प्र० वा० ३. ५) इति । उपलब्धिलक्षणप्राप्तानुपलब्धि-
लिङ्गेत्यर्थः ।
यत पुनरुक्तम्—“अप्रमाणमनुपलब्धिः” इति । यस्य कस्यचित् स्वभावस्य
ज्ञापकस्य लिङ्गस्य चाज्ञानस्यानुपलब्धेरयं न्याय उदाहृतः । न हि स्वभावो
नोपलभ्यत इत्येव नास्ति; देशकालस्वभावविप्रकृष्टनामदर्शनेऽपि सत्त्वाविरोधात् ।
ततो नास्ति विरक्तचेत इत्याद्ययुक्तम् । न च कारणमित्येव कार्याण्यव्यवधानतो
भवन्ति । ततो नास्ति दानहिंसाविरतिचेतनानामभ्युदयहेतुता फलानन्तर्या-
भावादित्ययुक्तम् ॥ २०१ ॥
कारकाज्ञानं तु कार्येऽभावस्यैव साधकम्, न ह्यसति कारणे कार्यसम्भवः ।
१. शास्त्राधिकारासम्बद्धा—रा० ।
३२० प्रमाणवार्त्तिके [ शब्द-
स्वभावानुपलम्भश्च स्वभावेऽर्थस्य लिङ्गिनि ॥ २०२ ॥
तदभावः प्रतीयेत हेतुना यदि केनचित् ।
दृश्यस्य दर्शनाभावकारणाऽसम्भवे सति ॥ २०३ ॥
भावस्यानुपलब्धस्य १ भावाभावः प्रतीयते ।
विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥ २०४ ॥
तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः ।
तथार्थस्य व्यापकतया निश्चितस्य स्वभावस्यानुपलम्भश्च स्वभावे व्याप्ये
लिङ्गिन्यसत्तया साध्ये साधनम् ॥ २०२ ॥
तदा च कारणव्यापकानुपलब्धी गमिके, यदि केनचिद्धेतुनोपलब्धि-
लक्षणप्राप्तानुपलम्भेनान्येन वा तयोः कारणव्यापकयोरभावः प्रतीयते, न
तूपलम्भाभावमात्रेण; सन्दिग्धासिद्धत्वात् ।
स्वभावानुपलम्भमाह—दृश्यस्य वस्तुनो दर्शनाभावस्य यत् कारणं
व्यवधानेन्द्रियवैकल्यादि, तस्यासम्भवे सति भावस्यानुपलब्धस्य भावा-
भावः स्वभावानुपलब्धेः प्रतीयते ।
विरुद्धस्य निवर्त्तकस्य वह्न्यादेर्भावस्य भावे तस्य सलिलादेर्निवर्त्त्यस्य
भावबाधनात् । तद्विरुद्धोपलब्धौ सत्यामसत्ताया विनिश्चयः स्यात् ।
नन्वनुपलब्धेरभावसाधने को दृष्टान्तः ? व्योमकुसुमादिरिति चेत् ? अत्रापि
यद्यनुपलब्धेरभावसिद्धिः, तदा दृष्टान्तरापेक्षायामनवस्थाप्रसङ्गः ।
तदनपेक्षायां तदनुपलब्धिरभावाख्यं प्रमाणमस्तु ? असम्बद्धमेतत्; न
ह्यभावोऽनुपलब्ध्या साध्यते । अनुपलब्धिरेव ह्यभावः, स च सिद्ध एव ।
तथापि तु मूढस्तमव्यवहरन् निमित्तोपदर्शनेन व्यवहार्यते । तथा च भावोऽभावस्य
दृष्टान्तः, तयोः स्वनैमित्तिकप्रवर्त्तनस्य सिद्धत्वात् ।
ननु यदिदम्—“न सन्ति प्रधानादयोऽनुपलब्धेः” ( ) इति, तत्र
कथमसद्व्यवहारविधिः, सद्व्यवहारप्रतिषेधो वा, प्रधानादिशब्दवाच्यस्य प्रतिषेधे
तच्छब्दाप्रयोगात् ?
१. ०नुपलम्भस्य—रा० ।
विचारः ] स्वार्थानुमानपरिच्छेदः ३२१
अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ॥ २०५ ॥
शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रयः ।
तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम् ॥ २०६ ॥
तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः ।
परमार्थैकतानत्वे शब्दानामनिबन्धना ॥ २०७ ॥
न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ।
अतीताजातयोर्वापि न च स्यादनृतार्थता ॥ २०८ ॥
वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता ।
शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः ॥ २०९ ॥
अत्राह--अनादिविकल्पाभ्यासवासना उद्भूतविकल्पे परिनिष्ठितः
प्रतिभासमानः शब्दार्थो धर्मी त्रिविधः । कथम् ? इत्याह--भावाभावो-
भयाश्रयः; सदसदुभयविकल्पवासनाप्रभवत्वात्, तदध्यवसायेन तद्विषयत्वात् ।
तत्र भावोपादानो विकल्पः--घटादिः, अभावोपादानः--शशविषाणादिः, उभयो-
पादानः--प्रधानेश्वरादिः ।
तस्मिन् शब्दार्थे प्रधानादौ भावानुपादाने भावभूतप्रधानाश्रये साध्येऽस्य
प्रधानादेस्तथा बाह्यभावाश्रयत्वेनानुपलम्भनं हेतुर्व्यवहारसाधनः, न तु तस्य
शब्दार्थस्यैवाभावः; प्रधानादिशब्दस्य तत्प्रतिपादकस्य प्रयोगतः ।
यदि तु वस्त्वेव शब्दविषयः, तदा परमार्थैकतानत्वे परमार्थैकपरवृत्तित्वे
शब्दानामर्थेषु दर्शनान्तरभेदिषु प्रतिदर्शनं भिन्नाभ्युपगमेन नित्यत्वानित्यत्व-
त्रिगुणमयत्वादिकल्पितभेदेषु अनिबन्धना परमार्थनिबन्धनरहिता प्रवृत्तिर्न
स्यात् । न हि परस्परविरुद्धा बहवो धर्मा एकत्र सन्ति ।
अतीताजातयोर्वाप्यसतोर्न स्याच्छब्दवृत्तिः । न च कस्याश्चिद्
वाचोऽनृतार्थता स्यात्; अर्थमन्तरेण शब्दाभावात् । यस्मादेते दोषा वस्तु-
विषयत्वे वाच इति तस्मादेषा बौद्धार्थविषया कल्पितार्थगोचरा मता ।
यश्च शब्दार्थः, तस्य भावानुपादानत्वं साध्यते, न तु स एव निषि-
ध्यते; अन्यथा शब्दार्थस्यापह्नवे साध्ये धर्माधारस्य धर्मिणो निराकृतेः
प्र० वा० : २१
३२२ प्रमाणवार्त्तिके [ शब्द-
न साध्यः समुदायः स्यात् सिद्धो धर्मश्च केवलः ।
सदसत्पक्षभेदेन शब्दार्थानपवादिभिः ॥ २१० ॥
वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः ।
अर्थक्रियाऽसमर्थस्य विचारैः किं परीक्षया ॥ २११ ॥
षण्ढस्य रूपे१ वैरुप्ये१ कामिन्या किं परीक्षया ।
शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः ॥ २१२ ॥
धर्मो वस्त्वाश्रयासिद्धिरस्योक्ता२ न्यायवादिना ।
आगमविचारः
नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह ॥ २१३ ॥
समुदायः साध्यो न स्यात् । धर्मिधर्मसमुदायश्चानुमेयः । धर्म एव केवलः
साध्यते इति चेत् ? सिद्धो धर्मश्चाभावादिः केवलः किमर्थं साधनीयः !
प्रधानादिविकल्पस्य भावानुपादानत्वं तु न सिद्धम्, तदेव साध्यं युक्तम् ।
किञ्च —सदसत्पक्षभेदेन वस्त्वेव व्यवहारिभिः शब्दार्थानपवादिभिः
चिन्त्यते, नावस्तु; हि यस्माद् अत्र वस्तुनि फलस्यार्थक्रियाया उदयः
प्रतिबद्धः ।
ततश्च---अर्थक्रियायामसमर्थस्य शब्दार्थादेर्विचारैः सदसत्पक्षचिन्ता-
भिस्तदर्थिनामर्थक्रियार्थिनां किम् न किञ्चित् प्रयोजनम् ! षण्ढस्य नपुंसकस्य
रूपे वैरुप्ये वा कामिन्या वृषस्यन्त्या योषितः किं परीक्षया !
यत् पुनराचार्येणोक्तम् —“कल्पितस्यानुपलब्धिर्धर्मः” इति, तस्य कोऽर्थः ?
कल्पनाज्ञानस्य विषयत्वेन कल्पित इष्टः प्रधानादिशब्दार्थः । अस्य
कल्पितस्य वस्त्वाश्रयासिद्धिर्वस्वाधिष्ठानत्वानुपलब्धिर्धर्मो न्यायवादिना-
चार्येणोक्ता ।
ननु यदुक्तम्—‘प्रमाणत्रयनिवृत्तावपि नार्थाभावनिश्चयः’ इति, तन्मा भूत ;
प्रत्यक्षानुमानयोरसर्वविषयत्वात् तन्निवृत्त्याऽभावनिश्चयः । आगमस्तु सर्वविषय
१-१. रूपवैरूप्ये—पाठा० ।
२. ०रस्योक्तो—पाठा० ।
विचारः ] स्वार्थानुमानपरिच्छेदः ३२३
नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः ।
आप्तवादाविसंवादसामान्यादनुमानता¹ ? ॥ २१४ ॥
सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् ।
परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम् ॥ २१५ ॥
प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनम् ।
दृष्टादृष्टार्थयोरस्याविसंवादस्तदर्थयोः ॥ २१६ ॥
इति तन्निवृत्तौ युक्तोऽर्थसत्त्वनिश्चयः ? इत्याह—नान्तरीयकताया अविना-
भावस्याभावाद् वस्तुभिः सह शब्दानाम्, ततः शब्देभ्यो नार्थस्य
सिद्धिनिश्चयः । किं तर्हि तेभ्यो गम्यते ? इत्याह—वक्तुरभिप्रायस्य विवक्षाया-
स्ते शब्दाः सूचकाः; तदन्वयव्यतिरेकानुविधायित्वात् । न च विवक्षा यथार्थं
भवति, येन परम्परया तत्संवादः स्यात्; विसंवादाभिप्रायादज्ञानाद् वाऽन्यथापि
विवक्षासम्भवात् ।
यद्येवम् , सर्वमेव वचनं प्रवृत्तिकामानां परीक्षार्हं स्यात् । कश्च संवादार्थः,
कथं चाप्तवादसामान्यादनुमानतास्याचार्येणोक्ता ? इत्याह—सम्बद्धवाक्यानां
परस्पराभिसम्बद्धानामेकार्थोपसंहारात् , न च दशदाडिमादिवाक्यमिवैकार्थानभिधायि,
अनुगुणोपायं शक्यानुष्ठानोपेयसाधनम् , न तु विषशमनतक्षकफणारत्नालङ्कारो-
पदेशकमिव पुरुषार्थस्य स्वर्गापवर्गस्याभिधायकम् , न तु काकदन्तपरीक्षोप-
देशकमिव, परीक्षायां प्रवृत्त्यर्हविषयमधिकृतं वाक्यम् । अतोऽपरमनधिकृतम् ,
अनवधानार्हत्वात् ।
अस्य च परीक्षार्हस्य वाक्यस्याविसंवादः तदर्थयोरागमाभिधेययोर्दृष्टा-
दृष्टयोः प्रत्यक्षाप्रत्यक्षयोरर्थयोः प्रत्यक्षेणानुमानेन च द्विविधेनेति वस्तुबल-
भाविनाऽऽगमाश्रयेण चाबाधनम् , अन्येषाञ्च बाधनं नाम । यथा प्रत्यक्षत्वेन सम्म-
तानां पञ्चानां स्कन्धानां प्रत्यक्षेणाबाधनं सिद्धिरेव, अप्रत्यक्षत्वेनेष्टानां शब्दादि-
त्रिगुणमयत्वद्रव्यकर्मसामान्यसंयोगादीनां च तेन बाधनम् । अनुमेयत्वेनेष्टानां
चतुरार्यसत्यानां वस्तुबलप्रवृत्तेनानुमानेनाबाधनं सिद्धिरेव, अननुमेयत्वेनेष्टानां
१. कारिकांशोऽयं २१७ कारिकायामप्यक्षरशो दृश्यते ।
३२४ प्रमाणवार्त्तिके [ शब्द--
आप्तवादाविसंवादसामान्यादनुमानता ।
बुद्धेरगत्याभिहिता निषिद्धाप्यस्य गोचरे ॥ २१७ ॥
हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः ।
प्रधानार्थाविसंवादादनुमानं परत्र वा ॥ २१८ ॥
पुरुषातिशयापेक्षं यथार्थमपरे विदुः ।
इष्टोऽयमर्थः प्रत्येतुं शक्यः सोऽतिशयो यदि ॥ २१९ ॥
चात्मेश्वरादीनामनुमानेन बाध एव । अत्यन्तपरोक्षाणां रागादिहेतुकाधर्मप्रहाणादी-
नामागमाश्रयानुमानेनाबाधनं सिद्धिः । एवं रागादिहेतुत्वेनेष्टस्य हेतुत्वानुपरोधिनः
स्नानोपवासाग्निहोत्रादेः प्रहाणोपायतयाऽनुपदेशात् हेतुव्याघातस्योपायत्वेनोपदेशा-
च्चैवंविधमबाधनमविसंवाद इष्टः ।
तस्यैवम्भूतस्याप्तवादस्यादृष्टव्यभिचारस्याविसंवादसामान्यात् प्रत्यक्षानुमा-
नागमेऽप्यर्थे उत्पन्नाया बुद्धेरविसंवादादनुमानता चाचार्यदिङ्नागेनाभिहिता-
ऽगत्या । अत्यन्तपरोक्षेष्वर्थेषु दानहिंसाचेतनादिष्वर्थानर्थश्रवणादागमप्रामाण्य-
मनाश्रित्य स्थातुमसामर्थ्यादितद्भावे विरोधाभावाच्च सत्यां प्रवृत्तौ वरमेवं
प्रवृत्तिरित्यगत्याऽनुमानतोक्ता, न तु वस्तुतो वचनानामर्थेषु नान्तरीयकत्वा-
भावात् ॥ २१७ ॥
किं वा—हेयस्य दुःखसत्यस्य उपादेयस्य निरोधसत्यस्य सोपायस्य
यथाक्रमं समुदयसत्यस्य समार्गसत्यस्य चागमोक्तवस्तुबलप्रवृत्तेनानुमाने प्रसि-
द्वितो निश्चयात् । सत्यचतुष्टयाधिगमस्य निर्वाणहेतुत्वेन प्रधानार्थस्यावि-
संवादात् । परत्रात्यन्तपरोक्षेऽप्यर्थे भगवद्वचनादुत्पन्नं ज्ञानमनुमानं युक्तमिति
वा पक्षान्तरम् ॥ २१८ ॥
अपरे नैयायिकादयः पुरुषस्यातिशयापेक्षं यथाभूतार्थदर्शि तदाख्यात-
पुरुषप्रणीतं वचनं यथार्थं सत्यार्थं प्रतिजानीयुः ।
सिद्धान्तमाह—'पुरुषातिशयप्रणीतं वचनं प्रमाणम्' इतीष्टोऽयमर्थो यदि,
पुरुषाणां सोऽतिशयो ज्ञातुं शक्यः स्यात् ॥ २१९ ॥
विचारः ] स्वार्थानुमानपरिच्छेदः ३२५
पौरुषेयत्वविचारः
अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा ।
दुर्लभत्वात् प्रमाणानां दुर्बोध्येत्यपरे विदुः ॥ २२० ॥
सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम्¹ ।
सात्मीभावात् तदभ्यासाद् हीयेरन्नास्रवाः क्वचित् ॥ २२१ ॥
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ २२२ ॥
सर्वासाम् दोषजातीनां जातिः सत्कायदर्शनात् ।
किन्तु अयं पुमान् एवं दोषवान् न वा निर्दोष इत्यन्यस्य दोषा निर्दो-
षतापि वा प्रमाणानां दुर्लभत्वात् दुर्बोध्येत्यपरे सौगता विदुः । 'दुर्बोधा'
इति 'अन्यदोषा' इत्यनेन लिङ्गवचनविपरिणामेन सम्बन्धनीयम् ॥ २२० ॥
तत्किमशक्योच्छेदा दोषा न ? इत्याह—सर्वेषामास्रवाणां रागादीनां प्रतिपक्ष-
सम्मुखीभावाभावयोर्निर्ह्रासातिशयावुपचयापचयौ श्रयन्त इति निर्ह्रासातिशयं
श्रितास्तेषां सविपक्षत्वात् प्रतिपक्षसम्भवात् तस्य प्रतिपक्षस्याभ्यासात्
सात्मीभावादास्रवा क्वचिच्चित्तसन्ताने हीयेरन्निति खलु निर्दोषपुरुषापलापः
क्रियते, किन्तु तदवधारणोपायो नास्तीत्युच्यते । इच्छाधीनस्य व्याहारस्यान्यथापि
कर्तुं शक्यत्वात् न ततस्तथार्थनिश्चयः ॥ २२१ ॥
अथ सात्मीभूतप्रतिपक्षस्य² मार्गाभ्यासान्निर्दोषतायामपि सत्यां विपक्षाभ्या-
सात् पुनर्दोषोत्पत्तिः ? इत्याह—निरुपद्रवस्य दोषराशेरुद्वेजकस्य प्रहाणात्,
भूतार्थस्य प्रमाणपरिदृष्टार्थविषयत्वात् , स्वभावस्यानारोपितत्वात् मार्गसात्म्यस्य
विपक्षेण न बाधा; यत्नवत्त्वेऽपि । यत्न एव तावन्न सम्भवति; विपक्षाभ्यासे
दोषदर्शनात् । यत्नवत्त्वेऽपि तु बुद्धेस्तत्र मार्गसात्म्येऽभिरुचिविषयत्वेन पक्षपाततो
न बाधा । न हि रज्ज्वां निवृत्तसर्पभ्रमः सर्पं भावयितुं यतते कश्चित्;
भूतार्थस्य दर्शनात् ॥ २२२ ॥
कः पुनर्दोषाणां हेतुर्यत्प्रहाणादमी प्रहीयन्ते ? इत्याह—सर्वासां दोष-
१. ०तिशयं श्रितः—रा० । २. सात्मीयभूत०—रा० ।
३२६ प्रमाणवार्त्तिके [ पौरुषेयत्व-
साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः ॥ २२३ ॥
मोहो निदानं दोषाणामत एवाभिधीयते ।
सत्कायदृष्टिरन्यत्र;
तत्प्रहाणे प्रहाणतः ॥ २२४ ॥
अपौरुषेयत्वविचारः
वेदप्रामाण्यनिराकरणम्
गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥ २२५ ॥
गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
जातीनां दोषप्रकाराणां जातिर्जन्म सत्कायदर्शनादात्माभिनिवेशात् ।
नन्वविद्याहेतुकाः क्लेशा भगवतोक्ताः ? इत्याह—साऽविद्या सत्कायदर्शन-
मेवाविद्याऽन्यत्रोच्यत इति नास्ति विरोधः । तत्र सत्कायदर्शने सति तेष्वात्मीयेषु
स्नेहः, तस्मादात्मीयेषु स्नेहात् तदपकारिषु द्वेषादीनां सम्भव इति दोषो-
त्पत्तिक्रमः । अतो नैरात्म्यदर्शनं मार्गो युक्तः, सत्कायदृष्टिप्रतिपक्षत्वात् ॥२२३॥
यतश्च सत्त्वदृष्टिरविद्या, अत एव मोहोऽविद्या दोषाणां निदानम-
भिधीयते भगवता “अविद्याहेतुकाः सर्वे क्लेशाः” ( ) इति, पुनरन्यत्र
प्रदेशे “सत्कायदृष्टिर्दोषनिदानम्” ( ) अभिधीयते ।
नन्वन्येऽपीन्द्रियविषया योनिशोमनस्कारादयो दोषहेतवः, तत् किमविद्या-
सत्कायदृष्टी एवाभिहिते ? इत्याह—तस्य मोहस्य सत्कायदृष्टिलक्षणस्य प्रहाणे
दोषाणां प्रहाणतः प्राधान्यात् स एवोक्तः, नेतर इत्यर्थः ॥ २२४ ॥
वेदप्रामाण्यं निराचिकीर्षन् परमतमुत्थापयति—गिरां वाचां मिथ्यात्वस्य
हेतूनां दोषाणामज्ञानविसंवादाभिप्रायादीनां वा पुरुषस्याश्रयादाश्रयणत्वात्
अपौरुषेयं वाक्यं मिथ्यात्वहेतोः पुरुषदोषस्याभावात् सत्यार्थमिति केचित्
जैमिनीयाः प्रचक्षते ॥ २२५ ॥
तानेव¹ प्रति गिरां सत्यत्वस्य हेतूनां दयाधर्मपरत्वादीनां गुणानां
१. मीमांसकानेवेत्यर्थः ।
विचारः ] स्वार्थानुमानपरिच्छेदः ३२७
अपौरुषेयं मिथ्यार्थं किं नेत्यन्ये प्रचक्षते ॥ २२६ ॥
अर्थज्ञापनहेतुर्हि संकेतः पुरुषाश्रयः ।
गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसम्भवः ॥ २२७ ॥
सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः ।
संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना ॥ २२८ ॥
गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः ।
पुरुषस्याश्रयादपौरुषेयं वाक्यं सत्यताहेतोः पुरुषगुणस्याभावात् मिथ्यार्थं किं
न भवतीत्यन्ये सौगताः प्रचक्षते ॥ २२६ ॥
किञ्च—संकेतमन्तरेणापौरुषेयादपि वाक्यादर्थप्रतीतेरभावात् अर्थज्ञापन-
हेतुरिह संकेतः स्वीकर्त्तव्यः । स च पुरुषकृतत्वात् पुरुषाश्रयः । अतः
संकेतस्य पुरुषाश्रयत्वात् गिरामपौरुषेयत्वेऽपि मिथ्यात्वस्य सम्भवः ।
संकेतवशेन वाचोऽर्थं ब्रुवते । स च दोषाश्रयेण पुरुषेण क्रियत इति तासां न
विसंवादशङ्कानिरासः, पौरुषेयवाक्यवदिति व्यर्थमपौरुषेयत्वकल्पनम् ॥ २२७ ॥
अथ शब्दार्थयोः सम्बन्धो न पौरुषेयः, किन्तु स्वाभाविकः, ततो न
मिथ्यात्वसम्भवः; तदा सम्बन्धापौरुषेयत्वेऽपीष्यमाणे स्यादर्थानां प्रतीतिः;
असंविदोऽविद्यमानसंकेतप्रतीतेः पुंसः । न चेच्छब्दार्थयोः सांकेतिको वाच्य-
वाचकतासम्बन्धः, किन्तु स्वाभाविकः । तदाऽगृहीतसङ्केतोऽपि श्रुताच्छब्दादर्थं
प्रतिपद्येतेति ।
अथ संकेतात् सतोऽपि तस्य सम्बन्धस्याभिव्यक्तिः, प्रदीपादिवद् घटादेः,
अतो नागृहीतव्यञ्जकस्य व्यङ्ग्यप्रतीतिः ? तदा संकेतात् तस्य सम्बन्धस्या-
भिव्यक्ताविष्यमाणायां संकेतादन्यस्य सम्बन्धस्य कल्पनाऽसमर्था सम्बन्ध-
व्यवस्थापनाय; संकेतादेव वाच्यवाचकभावस्य कल्पितस्य घटमानत्वात्, हस्त-
संज्ञादेरिवार्थप्रतिपादनस्य ॥ २२८ ॥
किञ्च—वाचा किमेकेनार्थेन सह वाच्यवाचकसम्बन्धः ? अथानेकैः ?
तत्र गिरामेकस्मिन्नर्थे वाचकत्या नियमे सति संकेतवशादन्यत्रार्थे न स्याद्
गतिः, दृश्यते च विवक्षातोऽनेकार्थाभिधानम् ।
३२८ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥ २२९ ॥
अपौरुषेयतायाश्च¹ व्यर्था स्यात् परिकल्पना ।
वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः ॥ २३० ॥
असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता ।
संस्कारोपगमे मुख्यं गजस्नानमिदं² भवेत् ॥ २३१ ॥
सम्बन्धविचारः
सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता ।
अनेकैरर्थैर्वाचकत्वाभिसम्बन्धे विरुद्धस्यार्थस्य व्यक्तेः प्रतीतेः सम्भवः
स्यात् । 'अग्निष्टोमः स्वर्गस्य साधनम्' इति विपर्ययोऽप्यवसीयेत । ततश्चाप्रवृत्ति-
रेव स्यात् स्वर्गार्थिनः ॥ २२९ ॥
अथानेकार्थाभिधाय्यपि शब्दः पुरुषेण संकेतादभिमतार्थाभिधायित्वेन निय-
म्यते ? तदा अपौरुषेयतायाश्च व्यर्था परिकल्पना स्यात्, तदभ्युपगमेऽपि
पुरुषस्वातन्त्र्याभ्युपगमात् । तदर्थेभ्यो भिन्नानां शब्दानां तैः सह सम्बन्धस्य
व्यवस्थितिः । हेतुश्च वाच्यो येनाव्यभिचारः । न हि शब्दार्थयोस्तादात्म्यम् ;
भेदात् । नापि तदुत्पत्तिः, अर्थमन्तरेणापि विवक्षातः शब्दोत्पत्तेः, अन्यथा
चाव्यभिचाराभावात् ॥ २३० ॥
उक्तमर्थं संगृह्णाह — यदि संकेतनिरपेक्षाणां स्वत एव वाचकत्वं शब्दा-
नाम्, तदा पुंभिरसंस्कार्यतया संकेतद्वारेण नियम्यतया सर्वथा निरर्थता
स्यात् ; सङ्केतनिरपेक्षाच्छब्दादर्थप्रतीतेरभावात् । एतद्दोषाभावात् संस्कारस्योप-
गमे स्वीकारे इदमपौरुषेयत्वं मुख्यमनुपचरितं गजस्नानं भवेत् । गजो हि
स्नानेन पङ्कमपनीय पुनस्तेनात्मानं लिम्पति । तथाऽपौरुषेयत्वं सम्बन्धस्य स्वी-
कृत्यापि पुनः सङ्केते पुरुषापेक्षेति व्यक्तं साम्यम् ॥ २३१ ॥
तथा सम्बन्धिनामर्थानामनित्यत्वात् सम्बन्धे नित्यता नास्ति । न
ह्याश्रयापाये भवत्याश्रितम् ।
१. अपौरुषेयतायाञ्च—रा० ।
२. गजस्नाननिभं—रा० ।
विचारः ] स्वार्थानुमानपरिच्छेदः ३६९
नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः ॥ २३२ ॥
अर्थैरतः स शब्दानां संस्कार्यः पुरुषैर्धिया ।
अर्थैरेव सहोत्पादे न स्वभावविपर्ययः ॥ २३३ ॥
शब्देषु युक्तः;
सम्बन्धे नायं दोषो विकल्पिते ।
नित्यत्वादाश्रयापायेऽप्यनाशो यदि जातिवत्¹ ॥ २३४ ॥
नित्येष्वाश्रयसामर्थ्यं किं येनेष्टः स चाश्रयः ।
किञ्च—नित्यस्य सम्बन्धस्यानुपकार्यत्वात् अकुर्वाणोऽनुपकुर्वाणः
शब्दोऽर्थश्चाश्रयो न युक्तः । यतः स्वाभाविकसम्बन्धानुपपत्तिः, अतः सम्बन्धो
ऽर्थैः सह शब्दानां पुरुषैर्व्यवहर्तृभिरर्थप्रतिपादनाभिप्रायान्वयव्यतिरेकानुविधान-
माश्रित्य धिया कल्पिकया संस्कार्यो व्यवस्थाप्यः ।
अथानित्य एव सम्बन्धः ? तदा सम्बन्धिनां नाशे सम्बन्धस्य नष्टत्वान्निरर्थकः
शब्दः स्यात् ।
अथ वा—वाच्यैरर्थैरेव सह सम्बन्धस्योत्पाद इष्यते, तदोत्पाद इष्य-
माणेऽपि पूर्वमर्थेन सह सम्बन्धस्य विनष्टत्वात् अर्थसम्बन्धरहितानामसु शब्देषु
स्वभावस्य सम्बन्धविकलस्य विपर्ययः सम्बन्धयोगी न युक्तः । न हि
नित्यस्य पूर्वापरैकस्वभावस्यान्यथात्वं युक्तम्; अन्यथा नित्यताहानिप्रसङ्गात् ।
अस्मन्मते तु—विकल्पिते कल्पनानिर्मिते सम्बन्धेऽयं स्वभावान्यत्व-
प्रसङ्गदोषो न भवति । न हि कल्पनाक्लृप्तो धर्मः स्वभावं वस्तुतः स्पृशति ।
सम्बन्धस्य नित्यत्वात् आश्रयस्य वाच्यस्यापायेऽप्यनाशो यदि
जातेरिव सम्मतः, तदा नित्येषु जातिसम्बन्धादिष्वाश्रयस्य वाच्यस्य वाचकस्य
च किं सामर्थ्यमुपकारविशेषाधायकम्, येन [सामर्थ्येन स वाच्यादिराश्रय
इष्टः । न ह्यनुपकार्यमाश्रितम्; अतिप्रसङ्गात् । नित्यस्य चोपकारासम्भवः; भेदा-
भेदकल्पनायामयुक्तत्वात् ।
१. सम्मतः—रा० ।
३३० प्रमाणवार्त्तिके [ अपौरुषेयत्व-
ज्ञानोत्पादनहेतूनां¹ सम्बन्धात् सहकारिणाम् ॥ २३५ ॥
तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते ।
घटादिष्वपि युक्तिज्ञैः;
अविशेषेऽविकारिणाम् ॥ २३६ ॥
व्यञ्जकैः स्वैः कृतः² कोऽर्थो व्यक्तास्तैस्ते यतो मताः ।
सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता ॥ २३७ ॥
ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गतिः ।
भिन्नत्वाद् वस्तुरूपस्य सम्बन्धः कल्पनाकृतः ॥ २३८ ॥
अथ नित्यस्यापि जातिसम्बन्धादेराश्रयेणाभिव्यक्तिलक्षण उपकारः क्रियते,
न चाभिव्यक्तिहेतुः³ कारकः, दीपादिवत् घटादेः ? इत्याह—ज्ञानोत्पादनहेतूनां
दीपादीनां सहकारिणां सम्बन्धात् तदुत्पादनयोग्यत्वेन ज्ञानोत्पादनसमर्थत्वे-
नोत्पत्तिर्घटादिष्वपि भावेषु युक्तिज्ञैर्न्यायविद्भिर्व्यक्तिरिष्यते; अन्यथा
ज्ञानोत्पादनयोग्यस्य स्वभावस्यानुत्पत्तौ ज्ञानोत्पादनं न स्यात् ।
नित्यानां जातिसम्बन्धादीनामविकारिणां कुतश्चिदविशेषे विशेषासम्भवे
स्वैर्व्यञ्जकैराश्रयाभिमतैः कोऽर्थः स्वभावान्यथात्वादिः कृतः, न कश्चित्; यतो-
ऽर्थात् कृतात् तैर्व्यञ्जकैस्ते जात्यादयो व्यक्ता मताः ।
किञ्च—यदि सम्बन्धस्य वस्तुत्वम्, तदा वस्तुत्वे सति भेदोऽभेदो
वाभ्युपगन्तव्यः । तत्र भेदात् बुद्धेश्चित्रता स्यात् । वाच्यवाचकौ सम्बन्धश्चेति
त्रितयं दृश्येत, न चेष्यते । अथ द्वितीयः पक्षः, तदा ताभ्यामभेदे सम्बन्धस्य
तौ वाच्यवाचकावेव स्याताम्, न तु सम्बन्धो नाम कश्चित् । अथ सम्बन्धो
न भिन्नः, नाप्यभिन्नः । अतो भेदाभेदाभ्यामन्या वस्तुनो गतिर्नास्ति ।
अन्योन्यव्यवच्छेदात्मकत्वादनयो राश्यन्तरासम्भवान्नान्यः प्रकारोऽस्ति वस्तुनः ।
तस्माद्—भिन्नत्वाद् वस्तुनोः सम्बन्धिनोः रूपस्य सम्बन्धः श्लेष-
१. ज्ञानोत्पादेन हेतूनां—रा० । एवं वृत्तावपि ।
२. कुतः—रा० । एवं वृत्तावपि ।
३. चाव्यक्तिहेतुः—रा० ।
विचारः ] स्वार्थानुमानपरिच्छेदः ३३१
सद् द्रव्यं स्यात् पराधीनं सम्बन्धोऽन्यस्य वा कथम् ।
वर्णा निरर्थकाः सन्तः;
पदादिपरिकल्पितम् ॥ २३९ ॥
लक्षणः कल्पनया कृतो न वास्तवः; अन्यथा सद् द्रव्यं सम्बन्धाख्यं पराधीनं
सम्बन्ध्यायत्तं कथं स्यात् ! कथं वा भिन्नयोः सम्बन्धिनोः श्लेषलक्षणः सम्बन्धः;
परस्परममिश्रस्वभावत्वात् सर्वस्य ! तथापि सम्बन्धेऽतिप्रसङ्गात् ।
किञ्च —अयं सम्बन्धो वर्त्तमानो वर्णेषु पदादिषु वा वर्त्तेत । तत्र वर्णाः
सन्तो निरर्थकाः; प्रत्येकं तेषामर्थप्रतिपादकत्वाभावात् । नानाप्रयोक्तृप्रयुक्ते-
भ्योऽर्थप्रतिपत्तेश्च व्यतिक्रमप्रयुक्तेभ्यश्च सरो रस इत्यादिभ्यस्तुल्या स्यात्
प्रतिपत्तिः, तत्समुदायस्य चासम्भवः; क्रमेणोपलम्भात् । न च समुदायो नाम
समुदायिभ्यो भिन्नः; अनुपलब्धबाधितत्वात् । तेषां च वाचकत्वादेकस्मादपि
प्रतीतिः स्यात् । प्रत्येकं न चेद् वाचकाः, समुदितेभ्योऽपि तेभ्यो न स्यात्
प्रतीतिः; तदाप्यन्यस्याभावात् ।
अथ क्रमेण वर्णेषु गृहीतेषु तत्संस्कारसहायेनाध्यक्षेण गृहीतादन्त्यवर्णा-
दर्थप्रतीतिः । तत् किमन्य एव वर्णो वाचकः, नान्ये ! तथा चेद् ? व्यर्थं तेषा-
मुच्चारणम् । सर्वेषु प्रतीतेष्वर्थप्रतीतिरिति चेत् ? किमन्यवर्णग्राहिकया बुद्ध्या
सर्वत्र ग्रहणम् ! अन्यान्यबुद्धयैव चेत् ? ताः किं बुद्धयोऽन्त्यवर्णबुद्धिकाले भवन्ति,
येन तदर्थप्रतीतिरुच्यते ! अन्यान्यकाल एवेति चेत् ? यदि ताभिर्वाचका वर्णा
गृह्यन्ते, एकैकवर्णग्रहणेऽप्यर्थप्रतीतिः स्यात् । वाचकेषु सर्वेषु गृहीतेषु प्रती-
तिरिति चेत् ? तदा तु न प्रत्येकं वाचकः, तदतिरिक्तश्च समुदायो नास्ति ।
प्रत्येकं समर्थाः स्थितिबीजादयोऽङ्कुरजनने, न च केवला जनयन्तीति
चेत् ? ये समर्थाः, न तेषां क्षणिकत्वात् पृथग्भाव इत्यसमानम् । समुदिता एव तु
समर्थाः । न त्वेवं वर्णानां कापि समुदायः; क्रमोपलभ्यत्वात् । तदा चेद् ? प्रति-
पादका अवाचका एव । पूर्ववर्णग्रहणसंस्कारेऽपि किमन्यवर्णबुद्धौ सर्वे प्रतिभान्ति ?
न वा ? न तावदुपलभ्यन्ते । ततस्तदुपदर्शमपि व्यर्थम् । सर्वेषु क्रमात् प्रतीतेषु
स्मृतिः समुदायविषया भवतीति चेत् ? किं वर्णानां समुदायोऽस्ति, प्रतीतो वा;
३३२ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः ।
अपौरुषेयतापीष्टा कर्तॄणामस्मृतेः किल ॥ २४० ॥
सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तमः ! ।
कुमारिलमतखण्डनम्
यथायमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम् ॥ २४१ ॥
यः स्मर्यते केवलं कल्प्यते । कल्पितस्य वाचकत्वाभ्युपगमे न विवादः । तस्मान्न
वर्णे सम्बन्धवृत्तिः ।
पदवाक्यादिषु तर्हि स्यादिति चेत् ? न हि क्रमोच्चारितेभ्यो वर्णेभ्यो
व्यतिरिक्तं पदादिकमुपलभ्यते । केवलं कल्पनाबुद्ध्या क्रमोच्चारितानां वर्णानां
समुदायः कल्पितः पदम् । पदानां च समुदायः कल्पितो वाक्यमुच्यते । तच्च
कल्पितत्वादवस्तु । अवस्तुनि सम्बन्धस्यास्य वस्तुनः कथं वृत्तिः ! न
हि शशविषाणस्य नीलादिधर्मो युक्तः । तदेवं न सम्बन्धो नित्योऽनित्यो वा
युक्त इति स्थितम् ।
वेदवाक्यानामपौरुषेयतापि केनचिन्मीमांसकप्रवरेणेष्टा; कर्तॄणामस्मृतेः
लिङ्गात् किल । अक्षमायां किल-शब्दः । अस्याप्यर्थस्य न्यायाद् दूरमायातस्या-
नुवक्तारः पण्डितम्मन्याः१ सन्ति । तस्यैव तावदीदृशं प्रज्ञास्खलितं कथं
वृत्तमिति सविस्मयानुकम्पञ्चेत् । तदप्यपरेऽनुवदन्तीति निर्दयाक्रान्तभुवनम् !
धिग्व्यापकं तमः ! तथा हि—कर्तुः स्मरणमसिद्धं स्मरन्ति सौगता मन्त्राणां
कर्तॄन् अष्टकादीन्, काणादाश्च विधातारम् । मिथ्या तत्स्मरणञ्चेत् ? कुमार-
सम्भवादेरपि कालिदासादिकर्तृस्मरणं मिथ्येति तदप्यपौरुषेयम् । तत्रैकं स्म-
रणमप्रमाणमन्यच्चान्यथेति नात्र विभागकारणम् । बहूनां सम्प्रतिपत्तिविप्रतिपत्तयश्च
न प्रमाणेतरलक्षणे संवादसत्त्वेन सिध्यतः । ततश्चास्मृतकर्तृकमित्यशक्यनिश्चयम्;
सन्दिग्धविपक्षव्यावृत्तिकत्वात् ।
यदापि वेदानधीयानो यथायमिदानीन्तनो माणवकोऽन्यत उपा-
ध्यायादश्रुत्वा इममुच्यमानं वर्णपदयोः क्रममानुपूर्वीविशिष्टां वेदारूख्यां
१. कुमारिलादयः ।
विचारः ] स्वार्थानुमानपरिच्छेदः ३३३
वक्तुं समर्थः पुरुषस्तथान्योऽपीति कश्चन¹ ।
अन्यो वा रचितो ग्रन्थः सम्प्रदायादृते परैः ॥ २४२ ॥
दृष्टः कोऽभिहितो येन सोऽप्येवं नानुमीयते ।
यज्जातीयो यतः सिद्धः सोऽविशिष्टोऽग्निकाष्ठवत्² ॥ २४३ ॥
अदृष्टहेतुरुपन्यस्तद्भवः सम्प्रतीयते ।
तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात् ॥ २४४ ॥
वक्तुमसमर्थः; वेदकपाठकत्वात् । तथाऽन्य उपाध्यायस्तदुपाध्यायोऽपीत्य-
नादिरेष क्रम इति कश्चन मीमांसकः । सर्वस्यैव वेदपाठः परोपदेशादिति
नित्यतैव वेदानाम् ।
तत्राप्याह—अन्यो वा वेदादितरः काव्यादिग्रन्थो रचितः कवि-
प्रभृतिभिः सम्प्रदायादृते उपदेशाद्विना परैरध्येतृभिरभिहितः को दृष्टः,
न कश्चित्, येन परोपदेशेऽसत्यशक्याध्ययनत्वेन सोऽपि काव्यादिरेवं नित्यं
नानुमीयते । तत्रापि हेतुरयं सिद्ध एव । अथ पुरुषेण, तत्करणाविरोधात्
सन्दिग्धव्यतिरेकताऽस्य हेतोः, तदा वेदेऽपि दुष्टत्वमस्याः कथं निवार्यम् ।
अपि च—यज्जातीयो यद्द्रव्यसमानजातीयो यः पदार्थो यतो हेतोः सिद्धः,
अन्वयव्यतिरेकाभ्यां निश्चितः, स तज्जातीयत्वेनाविशिष्टो अन्योऽदृष्टहेतुरपि
तद्धेतुकत्वेन सम्प्रतीयते । किमिव ? अग्निकाष्ठवत् काष्ठकार्यत्वेन वह्नेर्नि-
श्चितत्वात् वह्निदर्शनाददृष्टमपि काष्ठमनुमीयते । न च वैदिकपौरुषेयवाक्यानां
कश्चिद् भेदः; सर्वेषां दुर्भणत्वादीनां मन्त्रादिसामर्थ्यानां च साधारणत्वात् ।
इदानीं वेदकरणसमर्थपुरुषादर्शनं भारतादिष्वपि समानम्, ततोऽसत्य-
वान्तरभेदे भेदाद्धेतूपन्यासो न युक्तः । सति तु वस्तुतः तत्र साधनीकृते
वस्तुन्यवान्तरभेदे भेदमप्रदर्श्य कार्यसामान्यस्य विजातीयव्यावृत्तिमात्रस्य
१. “वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा” ॥ ( श्लो० वा०, वाक्याधि० ३६६ )
इति दूषयन्नाह आचार्यः ।
२. स तस्मादग्निकाष्ठवत्—पाठा० ।
हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः ।
सर्वथाऽनादिता सिध्येदेवं नापुरुषाश्रयः ॥ २४५ ॥
तस्मादपौरुषेयत्वे स्यादन्योऽप्यनराश्रयः ।
म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि ॥ २४६ ॥
अनादित्वाद् तथाभावः;
पूर्वसंस्कारसन्ततेः ।
दर्शनात् । ये हेतवः—"यद्वेदाध्ययनं तद्वेदाध्ययनपूर्वकम्, न करणपूर्वकम्,
यथा यः पथिकाग्निः स ज्वालापूर्वको नारणिन्निर्मथनपूर्वकः¹" इत्यादयः
प्रवितन्यन्ते विस्तार्यन्ते, सर्वे ते व्यभिचारिणोऽनैकान्तिकाः; न हि वेदाध्य-
यनमित्येवाध्ययनपूर्वकं कृत्वा करणपूर्वकस्याप्यध्ययनस्योपपत्तेः, अरणिन्निर्मथनस्य
च वह्नेर्भावाविरोधात् ।
भवतु वा । एवं वेदाध्ययनमध्ययनपूर्वतासाधनम्, तथापि सर्वथाऽना-
दिता वेदाध्ययनस्य सिध्येत् डिम्भकपांशुकीडादीनामिव । नापुरुषाश्रयः
पुरुषाश्रयणाभावस्तु न सिध्येत् । डिम्भकपांशुकीडादयो हि दर्शनपूर्वका अनाद-
यश्च । न चापौरुषेयाः; डिम्भकैरेव क्रियमाणत्वात् । एवं शब्दा अप्यध्येतृभिरेव
क्रियन्ते, न तु स्वयमात्मानं ध्वनयन्ति येनापौरुषेयाः स्युः । अनादिस्तादृक्
करणक्रमः; पुरुषपरम्पराया अनादेरागतत्वात् ॥ २४५ ॥
अथानादित्वादेवापौरुषेयता ? इत्याह—तस्मादनादित्वादपौरुषेयत्वे साध्ये
स्यादन्योऽप्यपौरुषेयोऽनराश्रय इति प्रसङ्गः ।
तमेवाह—म्लेच्छादेर्व्यवहाराणां मातृविवाहमुक्तिप्रापणमारणादीनां
नास्तिक्यवचसामपि परलोककर्मफलाद्यपवादिनामनादित्वात् तथाभावोऽपौ-
रुषेयत्वं स्यात् ।
यदि पौरुषेयाः, कथमनादयः ? इत्याह—पूर्वसंस्कारादनादेः सन्ततेः
सन्तानेन प्रवृत्तेः। अथानादित्वात् म्लेच्छादिव्यवहाराणाम्नापौरुषेयतास्तु ? इत्याह—
१. नावारणि०—रा० ।
विचारः ] स्वार्थानुमानपरिच्छेदः ३३५
तादृशेऽपौरुषेयत्वे कः सिद्धेऽपि गुणो भवेत् ॥ २४७ ॥
अर्थसंस्कारभेदानां दर्शनात् संशयः पुनः ।
अन्याविशेषाद् वर्णानां साधने किं फलं भवेत् ॥ २४८ ॥
वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भतः ।
अनेकावयवात्मत्वे पृथक् तेषां निरर्थता ॥ २४९ ॥
अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् ।
प्रत्येकं सार्थकत्वेऽपि मिथ्यानेकत्वकल्पना ॥ २५० ॥
एकावयवगत्या च वाक्यार्थप्रतिपद् भवेत् ।
तादृशे म्लेच्छादिव्यवहारसाधारणेऽपौरुषेयत्वे सिद्धेऽपि को गुणोऽविसंवा-
दकलक्षणो भवेद् । पौरुषेयवाक्यानां विसंवादादर्शनादपौरुषेयत्वमिष्टम्, स च
तस्मिन्नपि सति म्लेच्छादिव्यवहाराणामिव दुष्परिहरः ॥ २४६-२४७ ॥
अथ वेदवाक्यानामेवानादित्वादपौरुषेयत्वम् ? तदा अर्थस्य संस्कारो
व्याख्यानं तस्य भेदानां विकल्पानां प्रकृतिप्रत्ययानेकार्थत्वात् रूढेर्निरुक्ता-
दिभ्यश्च यथाप्रतिभं पुंसां दर्शनात् संशयोऽर्थनिश्चयाभावः ।
कस्य चापौरुषेयत्वमिष्टम्—किं वर्णानाम्, उत पदवाक्यानाम् ? इत्याह—
अन्यैर्लौकिकैर्वर्णैर्वैदिकानां वर्णानामविशेषात् प्रत्यभिज्ञायमानत्वेनैकत्वादपौरु-
षेयत्वस्य साधने किं फलं भवेत् ; तथात्वे लौकिकानामप्यर्थव्यभिचारात् ॥ २४८ ॥
वाक्यं पदं च वर्णेभ्यो भिन्नं न विद्यते; अनुपलम्भात्, तत् कथमस्या-
पौरुषेयत्वं साध्यम् ? अभिन्नं चेत्, तदानेकावयवात्मत्वे वाक्यस्य तेषामवय-
वानां पृथक् प्रत्येकं निरर्थकतेति पदात्मकमनर्थकमेव स्यात् । ततश्चातद्रूपेऽ-
वाचकरूपे ताद्रूप्यं वाचकत्वं कल्पितं कल्पनाबुद्धिनिर्मितं माणवकादाविव
सिंहतादि । ततः पौरुषेयमेव वाचकत्वं स्यादिति प्रस्तुतक्षतिः ।
अथ प्रत्येकमवयवानां सार्थकत्वम् ; तदा—प्रत्येकं सार्थकत्वेऽपि मिथ्या-
नेकत्वस्यानेकावयवात्मकस्य कल्पना, एकस्मादर्थप्रतीतेः ॥ २४९-२५० ॥
तथैकस्यावयवस्य गत्या वाक्यार्थस्य प्रतिपत् प्रतीतिर्भवेत् ; एकस्यापि
वाचकत्वात् । तत्समुदायो वाचक इति चेत् ? स किं तेभ्यो भिन्नः, स च प्रत्युक्तः ।
३३६ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
सकृच्छ्रुतौ च सर्वेषां कालभेदो न युज्यते ॥ २५१ ॥
स्फोटनिरसनम्
एकत्वेऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात् ।
अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत् ! ॥ २५२ ॥
नित्योपलब्धिर्नित्यत्वेऽप्यनावरणसम्भवात् ।
अश्रुतिर्विकलत्वाच्चेत् कस्यचित् सहकारिणः ॥ २५३ ॥
अवयवा मिलिताः समुदाय इति चेत् ? स च न सम्भवत्येव । तद् यदि प्रत्येकं
वाचकत्वमेव ? तदैषां प्रत्येकं वाचकत्वे चैकस्मादपि स्यादर्थप्रतीतिः ।
अथ एकावयवगत्या ऽर्थप्रतिपत्तेरवयवान्तरवैफल्यदोषात् सर्वावयवानां सकृ-
च्छ्रुतिरिष्यते ? तदा सर्वेषामवयवानां सकृच्छ्रुतौ चाभिमतायामवयवश्रवणस्य
कालभेदो न युज्यते, दृश्येत च ॥ २५१ ॥
अथानवयवमेकं वर्णेभ्यो व्यतिरिक्तं स्फोटरूपं वाक्यम्, तच्च क्रमवद्भि-
र्नियतानुपूर्वीकैर्ध्वनिभिः क्रमेण व्यज्यते । व्यञ्जक्यनुक्रमेणैव च क्रमवत् प्रतीयते,
तद्रूपाविभागेन नादरूपाणां वर्णानां ग्रहणात् वर्णविभागवच्च लक्ष्यते । वस्तु-
तस्तथारहितमपीति केचित् ।
तदेकत्वेऽपि ह्यभिन्नस्यानवयवस्य स्फोटरूपस्य वाक्यस्य प्रथमध्वनिनापि
व्यक्तत्वात् क्रमशो गतेः प्रतीतेरसम्भवात् सकृत्प्रतीतिप्रसङ्गः । यदि प्रथम-
व्यक्तौ न प्रतीतिः, अपरास्वपि न स्यात्; तदेकव्यञ्जकत्वाद् व्यक्तीनाम् ।
किञ्च - वाक्यं तन्नित्यम्, अनित्यं वा स्यात् ? यद्यनित्यम्, पौरुषेयं
कथं न तत्; यत्नसम्भवात् घटादिवत् ॥ २५२ ॥
नित्यत्वेऽप्युपलब्धिर्नित्या भवेत् । वाक्यानामनावरणसम्भवात् आव-
रणायोगात् । यदि नित्यं कदाचिदुपलभ्यते, तदा तस्यानावृतस्वभावताऽभ्युप-
गन्तव्या । तादृशं नित्यमुपलभ्येताभिमतकाल इव । आवृतस्वभावे तु सर्वदाऽ-
नुपलम्भः स्यात् । तस्मात् कालभेदेनोपलभ्यानुपलभ्यस्वभावत्वादेकस्य नाशादन्य-
स्योदय इति स्यात् । तथा च नित्यत्वक्षतिः ।
एकस्वभाव एव शब्दः, परं कस्यचित् सहकारिणो ज्ञानजनकस्य
विचारः ] स्वार्थानुमानपरिच्छेदः ३३७
काममन्यप्रतीक्षाऽस्तु¹, नियमस्तु विरुध्यते ।
सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि ॥ २५४ ॥
सर्वेषामुपलम्भः स्यात् युगपद् व्यापिता यदि ।
संस्कृतस्योपलम्भे च कः संस्कर्त्ताऽविकारिणः ॥ २५५ ॥
इन्द्रियस्य² स्यात्² संस्कारः शृणुयान्निखिलं च तत् ।
संस्कारभेदभिन्नत्वादेकार्थनियमो³ यदि ॥ २५६ ॥
वैकल्यादश्रुतिरिति चेत् ? ॥ २५३ ॥
काममन्यस्य सहकारिण उपकारस्य प्रतीक्षापेक्षणमस्तु, नियमः पूर्वा-
परैकस्वभावतावरणं तु शब्दानां विरुध्यते । न ह्येकस्वभावः, परमपेक्षते चेति
क्षमम्; उपकारकस्यापेक्षणीयत्वात्, उपकारान्तरस्य च स्वभावान्तरलक्षणत्वात् ।
अपि च शब्दा अव्यापिनः, व्यापिनो वा स्युः ? तत्र यद्यव्यापिता,
तेषां सर्वत्र देशेऽनुपलम्भः स्यात् । न ह्येकदेशस्थितः शैलः सर्वत्रोपलभ्यते ।
योग्यतातिशयलाभाद् व्यञ्जकेभ्यो दृश्यत एवेति चेत् ? एवं तर्हि सर्वैः सर्व-
देशस्थैरुपलभ्येत ॥ २५४ ॥
तथा व्यापिता यदि ? सर्वेषां शब्दानां युगपदुपलम्भः स्यात्;
व्यापित्वात् सर्वेषां सर्वत्र भावात् ।
अथ व्यापित्वेऽपि य एवाभिव्यक्त्या संस्कृतः स एवोपलभ्यते, नेतरः ।
संस्कृतस्य चोपलम्भे च स्वीक्रियमाणे नित्यत्वादविकारिणः कः संस्कर्त्ता
नाम ! न ह्यनुपकुर्वन् संस्कर्त्ता, अनुपकार्यो वा संस्कार्यः ॥ २५५ ॥
अथेन्द्रियमनित्यत्वात् संस्कार्यम्, ततः संस्कृत एव पश्यति नान्य इति
विभागः ? सत्यम्, इन्द्रियस्य स्यात् संस्कारः; किन्तु तदिन्द्रियं निखिलं
च शब्दग्रामं शृणुयात्, न त्वेकशब्दम् ।
संस्कारस्य शब्दविषयस्य भेदात् प्रतिनियमाद् भिन्नत्वादिन्द्रियसंस्का-
१. काममन्यप्रतीक्षोक्तिः—रा० ।
२-२. इन्द्रिये स्याद्धि—पाठा० ।
३. संस्कारभेदाद् भिन्न०—रा० ।
प्र० वा० : २२
३३८ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
अनेकशब्दसंघाते श्रुतिः कलकले कथम् ? ।
ध्वनयः केवलं तत्र श्रूयन्ते चेन्न वाचकाः ॥ २५७ ॥
ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमति¹ बह्विदम्¹ ।
स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् ॥ २५८ ॥
कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत् ।
ध्वनयः सम्मता यैस्ते दोषैः कैरप्यवाचकाः ॥ २५९ ॥
ध्वनिभिर्व्यज्यमानेऽस्मिन् वाचकेऽपि कथं न ते ! ।
राणामेकस्मिन्नर्थे शब्दे नियमः श्रुतिर्यदीष्यते तदानेकशब्दसंघाते कलकले
श्रुतिरनेकेषां शब्दानां कथं संस्कारप्रतिनियमादिन्द्रियं नानेकशब्दग्राहि स्यात् ।
अथ तत्र कलकले ध्वनयः शब्दव्यञ्जकाः केवलं श्रूयन्ते, न
वाचकाः शब्दाः ? ॥ २५७ ॥
ध्वनिभ्यः श्रूयमाणेभ्यो भिन्नं शब्दरूपमस्तीति यत्किञ्चिदिदमति
श्रद्धेयम् । श्रद्धावशाद् यच्चेतदङ्गीक्रियते, न तु प्रमाणबलात् ।
किञ्च—कलकले ध्वनिमात्रं यदि श्रूयते, न शब्दः, तदा बहूनां व्याह-
र्तॄणां तूष्णीम्भावादन्येष्वप्येषु शब्देषु स्थितेषु एकस्मिन् पुरुषे व्याहरति कथं
वाचकः श्रूयते, कलकल इव ध्वनिमात्रश्रुतिस्तदापि स्यात् । अथ वाचकस्यो-
लब्धिप्रत्ययभावादुपलब्धिः, तदा कलकलेऽपि स्याद्; विशेषाभावात् ॥ २५८ ॥
यदि चेन्द्रियाणां संस्कारविशेषाच्छब्दविशेषोपलब्धिप्रतिनियमः, तदा²
शक्तिनियमादिन्द्रियाणां कथं भिन्नध्वनिगतिर्भवेत् । शब्दविशेषवद् ध्वनि-
विशेषस्यैव ग्राहकमिन्द्रियं स्यात्, तत् कथं कलकलध्वनिप्रतीतिः ।
किञ्च—यैः कैरपि दोषैर्ध्वनयोऽवाचकाः सम्मताः, ते दोषा
व्यज्यमानेऽपि वाचकेऽस्मिन् कथं न भवन्ति । तथा हि—यथा प्रत्येकम्-
वाचकत्वाद् , वाचकत्वे वा ध्वन्यन्तरवैफल्यात् साहित्याभावाच्च ध्वनयोऽवाचकाः;
तथा ध्वनिभिः प्रत्येकं वाचकानभिव्यक्तेरभिव्यक्तौ वा ध्वन्यन्तरे वैफल्यात्
साहित्याभावाच्च नाभिव्यज्येत शब्दः । अनभिव्यक्तश्च कमर्थं प्रतिपादयेत् !
१-१. ०मविवक्षितम्—रा० ।
२. ०शक्तिनियमस्तदा—रा० ।