प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 332, कुल 532 में से
संदर्भ में पढ़ें३०६ प्रमाणवार्त्तिके [ सामान्य-
असम्बन्धान्न सामान्यं नायुक्तं शब्दकारणात् १।
अतिप्रसङ्गात्;
कर्मापि नासत्, ज्ञानाभिधानयोः ॥ १५९ ॥
अनैमित्तिकतापत्तेः;
न च शक्तिरनन्वयात् ।
सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत् ॥ १६० ॥
इत्यादिशब्दस्य निमित्तत्वात् कर्मणो द्रव्ये पाचकशब्दवृत्तौ नास्ति निमित्तता
परम्परयापि । तथाऽनित्यत्वात् स्थित्यभावाच्च कर्मणस्तस्मिन्निवृत्ते पाचकादि-
प्रतिपत्तिर्न स्यात् । अपचत्यपि तद्व्यपदेशो दृश्यते ॥ १५८ ॥
नित्यत्वात् कर्मसामान्यस्य पाचकव्यपदेशे हेतुश्चेद् ? आह—असम्ब-
न्धात् । द्रव्येण कर्मसामान्यस्य न सम्बन्धः साक्षात्; तत्रासमवायात् । नापि
परम्परया; कर्मणा तत्समवेतस्य नष्टत्वात् समवायिना सामान्येन सम्बन्धाभावात् ।
न सामान्यं शब्दस्य पाचकादेः कारणान्नायुक्तम्, किन्त्वयुक्तमेव; अति-
प्रसङ्गात् । कर्मत्वस्य सम्बन्धव्यतिरेकेण व्यपदेशहेतुत्वे सर्वत्र तथात्वप्रसङ्गः ।
अपचत्यपि पुरुषेऽतीतानागतं कर्म तद्व्यपदेशनिमित्तमिति चेत् ? आह—
न कर्मासदपि ज्ञानाभिधानयोर्हेतुः; अनैमित्तिकताया आपत्तेः हेतुं विना
भावतोऽहेतुकत्वप्रसङ्गात् । अतीतानागतं च कर्माविद्यमानत्वादसदेव ।
पाकादिनिर्वर्त्तिका शक्तिः पाचकादिव्यपदेशहेतुरिति चेत् ? आह—
शक्तिर्हि द्रव्यादभिन्ना, भिन्ना वा प्रतिपन्ना ? अभिन्ना चेत्, तदा द्रव्यवदनन्वयान्न
चान्वयिनोऽन्वयिशब्दहेतुता । अथ भिन्ना ? तदाऽनुपकारकयोः सम्बन्धानुपपत्ते-
र्द्रव्येणोपक्रियमाणा शक्तिस्तत्सम्बन्धिनीति वक्तव्यम् । अत्रापि द्रव्यं शक्त्यन्तरेण
स्वयमेवासमर्थस्वभावतया शक्तिमुपकरोतीति वाच्यम् । आद्येऽनवस्था, द्वितीये तु
कार्यमेव किं न करोतीत्यलं शक्तिस्वीकारेण !
अभिन्नाभिधाने निमित्तं सामान्यमेव पाचकत्वादि यदीष्यते, तदा
पाकादिक्रियातः प्रागेव तत् पाचकत्वादि सामान्यं द्रव्योत्पत्तावेव व्यक्तं भवेत् ॥
१ शब्दकारणम्—पाठा० ।