सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

-विचारः ] स्वार्थानुमानपरिच्छेदः २६९
हेतुः, युक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥ २९ ॥
इतीयं त्रिविधोक्ताप्यनुपलब्धिरनेकधा¹ ।
तत्तद्विरुद्धाद्यवगतिगतिभेदप्रयोगतः ॥ ३० ॥
कार्यकारणभावाद्वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ ३१ ॥
अवश्यंभावनियमः² कः परस्यान्यथा² परैः ।
अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥ ३२ ॥
व्यवहारे च हेतुः । तथा तस्य प्रतिषेध्यस्य युक्तोपलम्भस्य उपलब्धि-
लक्षणप्राप्तस्यानुपलम्भनं प्रतिषेधे प्रतिषेधव्यवहारे हेतुः, तस्य स्वयमेवाभाव-
रूपत्वात् ॥ २९ ॥
इति निर्दिष्टक्रमेणेयमनुपलब्धिः कारणव्यापकस्वभावानुपलब्धिभेदेन
त्रिविधाप्यनेकधा बहुप्रकारा; तत्तद्विरुद्धाद्यवगतिगतिभेदप्रयोगतः । ते च
कारणव्यापकस्वभावास्तेषां विरुद्धादयश्च तत्तद्विरुद्धादयः, आदिशब्दाद् विरुद्ध-
कार्यादयश्च, विरुद्धादीनामुपलब्धयश्च तासामन्योन्यं भेदो नानात्वं तस्य प्रयोगतः
शब्दस्याभिधाव्यापारात् । यथोक्तं प्राक् । सैषाऽनेकप्रकारापि त्रिविधानुपलब्धिः
संगृहीतेत्यर्थः ॥ ३० ॥
उक्तमर्थं श्लोकाभ्यां संगृह्णन्नाह—कार्यकारणभावात् तदुत्पत्तेर्वा
नियामकात् साधनस्य साध्याव्यभिचारकारणात् स्वभावात् तादात्म्याद् वा
नियामकादविनाभावनियमः साध्याव्यभिचारित्वनियमः साधनस्य । विपक्षे
हेतोरदर्शनात् न सपक्षे दर्शनात् ; दर्शनादर्शनयोर्व्यभिचारिण्यपि हेतौ
सम्भवात्, नियमहेत्वभावाच्च ॥ ३१ ॥
अन्यथा तादात्म्यतदुत्पत्त्योर्व्यभिचारनिबन्धनयोरस्वीकारे परस्य साध्यस्य
परैः साधनैः कोऽवश्यम्भावनियमः, न कश्चित् । उत्पादकादन्योऽर्थोऽर्थान्तरं
तन्निमित्ते वा धर्मेऽस्वभावभूते कोऽवश्यम्भावनियमः । वाससि रागवत्
यथा अर्थान्तरनिमित्तस्य रागस्य वस्त्रे नावश्यम्भावनियमः॥ ३२ ॥
१. त्रिविधाप्युक्तानु०—क० । २-२. ०नियमोऽन्यथा परस्य कः—रा० ।

२७० प्रमाणवार्त्तिके [ व्याप्ति-
अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः ।
पश्चाद्भावान्न हेतुत्वं फलेऽप्येकान्तता कुतः ॥ ३३ ॥
कार्यं धूमो हुतभुजः कार्यधर्मानुवृत्तितः ।
तस्याभावे१ तु स भवन्१ हेतुमत्तां विलङ्घयेत् ॥ ३४ ॥
नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातश्च२ भावानां कादाचित्कस्य सम्भवः ॥ ३५ ॥
अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः ।
वस्त्रोत्पादकार्थान्तरनिमित्तो रागद्रव्यकारणो हि धर्मो रागः प्रागुत्पन्नाद्
वस्त्रादन्य एव स्याद्; भिन्नकालत्वाद्, भिन्नहेतुकत्वाच्च । इत्थमपि यद्येकत्वम्,
विश्वमेकं भवेत् । ततश्च सहोत्पत्तिनाशौ स्याताम् । सर्वत्र सर्वं चोपयुज्यते,
एकत्वाभिमानस्तु सदृशापरोत्पत्तेर्भ्रान्त्या । तस्य चार्थान्तरनिमित्तस्य धर्मस्य
वस्त्रोत्पादात् पश्चाद् भावान्न हेतुत्वं वस्त्रं प्रति । अतः कारणतयापि नास्यानु-
मानम् । रागोत्पत्तौ वस्त्रं सहकारि कारणम्, अतः कार्यतया रागानुमानं चेत् ?
फलेऽपि कारणादनुमीयमाने एकान्तता कुतः ! न ह्यवश्यं कारणानि कार्यवन्ति
भवन्ति ॥ ३३ ॥
यदि दर्शनादर्शने नान्वयव्यतिरेकबुद्धिहेतूधूमोऽग्निं न व्यभिचरतीति न
स्यात् प्रतिपत्तिः ? इत्याह—कार्यं धूमो हुतभुजः कार्यधर्मस्य कारणान्वयव्य-
तिरेकानुविधायित्वस्य त्रिविधदर्शनादर्शननिश्चितस्यानुवृत्तितः स धूमस्तस्या-
ग्नेरभावे तु भवन् हेतुमत्तां विलङ्घयेदतिक्रामयेत् ॥ ३४ ॥
अहेतुत्वे च धूमस्य नित्यं सत्त्वमाकाशस्येव स्यात् । असत्त्वं शशवि-
षाणादेरिव; अहेतोरन्यानपेक्षणाभावात् । अपेक्षातश्च भावानां कादाचित्कस्य
सम्भवः । ततो यद्यहेतुर्भावः, तदा नित्यं स्यात् । असद्देव वा स्याद्; हेत्वभावात् ।
तस्माद् धूमस्य कादाचित्कत्वदर्शनात् हेतुमत्त्वम् । अग्न्यन्वयव्यतिरेकानुविधान-
दर्शनात् तत्कार्यत्वञ्च । यश्च यस्य कार्यं स तं न व्यभिचरति; तदधीनस्व-
रूपत्वात् ॥ ३५ ॥
अतश्च—अग्निस्वभावः शक्रस्य मूर्द्धा वल्मीकः । यद्यग्निरेव सः,
१-१. स भवँस्तदभावेऽपि- क० । २. अपेक्षया हि—क० ।

। अहेतुत्वे च “नित्यं सत्त्वमसत्त्वं वाQuotation mark beforeनित्यं: “नित्यं`

Line 17:
स्यात्” ( प्र० वा० ३.३५ ) इत्युक्तम् ॥ ३७ ॥
Wait, is it ३.३५?
Let's check the numbers: ( प्र० वा० ३.३५ ) or ( प्र० वा० २.३५ )?
Looking closely at line 17:
( प्र० वा० ३.३५ ) -> wait, the first digit is ३: circle at bottom, looks like ३. Wait, PV 1.35 is Pramanasiddhi or Svarthanumana? In Manorathanandin, Ch 3 is Svarthanumana! In Dwarikadas Shastri's edition, Pramanavarttika chapters are: 1. Pratyaksha, 2. Pramanasiddhi, 3. Svarthanumana, 4. Pararthanumana!
So Svarthanumana is chapter 3! Thus ( प्र० वा० ३.३५ ) makes 100% sense! It cites verse 35 of the same chapter: "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्"!
Yes, ( प्र० वा० ३.३५ )!

Line 18:
`स्या

२७२ प्रमाणवार्त्तिके [ सामान्य-
सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः ।
स्वभावपरभावाभ्यां यस्माद्¹ व्यावृत्तिभागिनः¹ ॥ ४० ॥
तस्माद् यतो² यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः² ।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ ४१ ॥
तस्माद् विशेषो³ यो येन धर्मेण³ सम्प्रतीयते ।
न स शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः ॥ ४२ ॥
यदि य एव कृतकः स एवानित्यः, भेदाभावात्; तदा प्रतिज्ञार्थैकदेशो हेतुः
स्यादित्याह—सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः आत्मात्मीय-
रूपव्यवस्थितत्वात् । स्वभावपरभावाभ्यां सजातीयाद् विजातीयाच्च व्यावृत्ति-
भागिनो यस्मान्न केनचिन्मिश्राः, तस्माद् यतो यतोऽस्वरूपात्पदार्थाद्
व्यावृत्तिरर्थानां तन्निबन्धनाः तत्तद्व्यावृत्तिनिमित्ता जातिभेदास्तद्विशेषाव-
गाहिनः तत्स्वलक्षणाश्रयाः कल्प्यन्ते शब्दैः स्ववाच्यतया ॥ ४०-४१ ॥
यतः शब्दः काश्चिद् अर्थक्रियाः कुर्वन्नतत्कारिणोऽशब्दादकृतकानित्यादेश्च
व्यावृत्त इति तत्तद्व्यवच्छेदप्रतिपादनार्थं शब्दकृतकानित्यत्वाद्या जातयोऽनन्य-
शब्दवाच्यतया कल्प्यन्ते, तस्मात् स्वभावाभेदेऽपि कृतकत्वानित्यत्वादीनां येन
धर्मेण नाम्नाऽनित्य इत्यनेन यो विशेषो नित्याद् व्यावृत्तिः सम्प्रतीयते, न
स विशेषः शक्यस्ततोऽनित्यशब्दादन्येन कृतकशब्देन प्रत्येतुम् । तेन कारणेन
साध्यसाधनयोर्भिन्ना व्यवस्थितिः ।
यद्यपि शब्द एव कृतकोऽनित्यश्च, तथाप्यशब्दव्यावृत्ततया निश्चितो धर्मी
कृतकतया च हेतुः, अनित्यतया चासिद्धः साध्यः । ततो धर्मिसाध्यसाधनानां
भेदः कल्पितः, न तु तान्येव कल्पितानि; तेषां सत्त्वात् । ततः कल्पित-
धर्मिणि कल्पितात् साधनात् कल्पितस्य साध्यस्य सिद्धिमाचक्षाणः प्रत्याख्यातः ।
तस्मान्न प्रतिज्ञार्थैकदेशो हेतुः; साध्यसाधनयोर्भिन्नव्यवच्छेदरूपत्वात् ॥ ४२ ॥
१. व्यावृत्तिभागिनो यतः—रा० ।
२-२. तस्माद् व्यावृत्तिरर्थानां यतश्च तन्निबन्धनाः—रा० ।
३-३. यो येन धर्मेण विशेषः—पाठा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः २७३
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो भागो १ न दृष्टः १ स्याद् यः प्रमाणैः परीक्ष्यते ॥ ४३ ॥
नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ ४४ ॥
तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।
भ्रान्तेर्निश्चीयते २ नेति २ साधनं सम्प्रवर्तते ॥ ४५ ॥
वस्तुग्रहेऽनुमानाच्च धर्मस्यैकस्य निश्चये ।
सर्वग्रहो ३ ह्यपोहे तु ३ नायं दोषः प्रसज्यते ॥ ४६ ॥
कस्मात् पुनर्व्यवच्छेदः शब्दलिङ्गाभ्यां प्रतिपाद्यत इतीष्यते, न तु वस्त्वेव
विधिरूपेण ? इत्याह — एकस्यार्थस्वभावस्य स्वयमात्मना प्रत्यक्षस्य सतः
कोऽन्यो भागो न दृष्टः स्यात्, यः प्रमाणैः परीक्ष्यते निर्णीयते । यदि
प्रमाणान्तरैः शब्दान्तरैश्च वस्त्वेव विषयीकर्त्तव्यम्, तदा तत् प्रत्यक्षेण शब्दान्तरेण
च दृष्टमेवेति व्यर्थानि प्रमाणानि स्युः ॥ ४३ ॥
तन्मतेऽपि प्रत्यक्षेण दृष्टे धर्मिणि प्रमाणान्तरवैफल्यं स्यात् ? नेत्याह —
दृष्टे सर्वथा वस्तुनि नो चेद् भ्रान्तिनिमित्तेन सादृश्यादिना संयोज्येतारोप्येत
गुणान्तरं धर्मान्तरमसदेव शुक्तौ वा शुक्ताविव रूपसाधर्म्यदर्शनात् भ्रान्ति-
निमित्ताद् रजताकारः, तदा सर्वथा वस्तुनिश्चयात् प्रमाणान्तरशब्दान्तरवैफल्यं
स्यात् ॥ ४४ ॥
एतदेवाह — तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः धर्मः ।
तथापि भ्रान्तेर्विपरीताकारारोपिकाया न निश्चीयत इत्यारोपितव्यवच्छेदार्थं
साधनं शब्दान्तरं च सम्प्रवर्त्तते ॥ ४५ ॥
न केवलं प्रत्यक्षाद् वस्तुग्रहे साधनान्तरशब्दान्तरवैफल्यम्, किन्त्वनुमाना-
दपीत्याह — वस्तुग्रहेऽनुमानाच्च धर्मस्यैकस्य कृतकत्वादेः प्रत्ययभेदाभेदित्वादि-
कृते निश्चये सर्वस्यानित्यत्वादेर्ग्रहः स्यात्; एकरूपत्वात्, कृतकत्वादिसाधनान्तर-
१-१. न दृष्टो भागः—पाठा० । २-२. भ्रान्तेर्न निश्चय इति—रा० ।
३-३. सर्वधर्मग्रहोऽपोहे—पाठा० ।
प्र० वा० : १८

२७४ प्रमाणवार्त्तिके [ सामान्य-
तस्मादपोहविषयमिति¹ लिङ्गं¹ प्रकीर्तितम् ।
अन्यथा धर्मिणः सिद्धावसिद्धं² किमतः² परम् ॥ ४७ ॥
क्वचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् ।
कथमन्यापोहविषयम् ? तन्मात्रापोहगोचरम्³ ॥ ४८ ॥
निश्चयारोपमनसोर्बाध्यबाधकभावतः ।
समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥ ४९ ॥
वैयर्थ्यम् । अपोहे त्वन्यव्यवच्छेदे शब्दलिङ्गविषये स्वीक्रियमाणे नायं
प्रमाणान्तरादिवैफल्यदोषः प्रसज्यते । न खलु प्रत्यग्दृष्टं वस्त्वन्तरं शब्द-
लिङ्गाभ्यां विषयीक्रियते; किन्त्वन्यव्यवच्छेदः । एकस्मिंश्च व्यवच्छेदे सिद्धेऽप्य-
सिद्धं व्यवच्छेदान्तरं लिङ्गान्तरतः शब्दान्तरतश्च साध्यत इति न कश्चिद्
दोषः ॥ ४६ ॥
तस्मादाचार्येणापोहविषयं लिङ्गमिति प्रकीर्तितम् । लिङ्गमुपलक्षणम्,
शब्दश्च । अन्यथा यदि वस्तुविषयं लिङ्गम्, तदा धर्मिणः सर्वात्मना प्रत्यक्षतः
सिद्धौ किमतो धर्मिणः परमसिद्धमस्ति यत्प्रसाधकं लिङ्गं प्रमाणं
स्यात् ! ॥ ४७ ॥
ननु क्वचिन्नीलादावसमारोपितोऽन्यो विपरीतांशो यस्मिन् तस्मिन्
प्रत्यक्षेण दृष्टे यज्ज्ञानमलिङ्गजं विकल्पकं सामान्यविषयं भवति, तदारोपा-
भावात् कथमन्यापोहविषयम् ? आह—तन्मात्रस्यानीलमात्रस्यापोहो
विजातीयाद् व्यावृत्तिर्व्यवच्छेदः स गोचरो यस्य तत् तथा । नीलविकल्पस्यानील-
व्यवच्छेद एव विषय इत्यर्थः ॥ ४८ ॥
कस्मादेवम् ? इत्याह—निश्चयारोपमनसोर्बाध्यबाधकभावतः । समा-
रोपस्य विवेके व्यवच्छेदेऽस्य निश्चयस्य प्रवृत्तिरिति गम्यते ॥ ४९ ॥
१-१. विषयं लिङ्गमिति—रा० । २-२. सिद्धौ किमतः साधकं—रा० ।
३. कारिकेयं क० मा० पुस्तकयोरेवमुपलभ्यते—
“क्वचिद् दृष्टेऽपि यज्ज्ञानं सामान्यार्थं विकल्पकम् ।
असमारोपितान्यांशे तन्मात्रापोहगोचरम्” ॥

विचारः ] स्वार्थानुमानपरिच्छेदः २७५
यावन्तोंऽशसमारोपास्तन्निरासे¹ विनिश्चयाः¹ ।
तावन्त एव शब्दाश्च² तेन ते भिन्नगोचराः² ॥ ५० ॥
अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि ।
बुद्ध्या वा नान्यविषय इति पर्यायता भवेत् ॥ ५१ ॥
यस्यापि³ नानोपाधेर्ग्राहिकार्थस्य भेदिनः ।
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे³ ॥ ५२ ॥
तस्माद्—यावन्तोंऽशस्य धर्मस्य समारोपास्तस्य निरासनिमित्तं
विनिश्चयाः, शब्दाश्च तावन्त एव । तेन ते निश्चयाः शब्दाश्च भिन्नव्य-
च्छेदगोचराः; अन्यथा यदि शब्दनिश्चयौ सर्वात्मना वस्तु विषयीकुरुतः, तदै-
केन शब्देन बुद्ध्या वा विकल्पिकया व्याप्ते सर्वात्मना विषयीकृते वस्तुन्येकत्र
नान्योऽप्रतिपन्नो विषयोऽस्तीति पर्यायता शब्दानां स्यात्, विकल्पानां च
एकविषयता भवेत् ! ॥ ५०–५१ ॥
ननु द्रव्याद्युपाधयः परस्परं च भिन्नाः, तन्निमित्ता विकल्पाः शब्दाश्च तेषु
तदाधारे वा द्रव्ये वर्त्तन्ते ? इत्याह—यस्यापि नैयायिकादेर्मते नानो-
पाधेर्द्रव्यत्वाद्यनेकधर्मविशिष्टस्य, अत एवोपाधिभेदाद् भेदिनोऽर्थस्य ग्राहिका
विधिरूपेण धीः; तस्यापि मतेन नानाप्रकाराणामुपाधीनामुपकारस्याङ्गं याः
शक्तयस्ताभ्योऽभिन्नात्मन उपाधिमतो द्रव्यस्य निश्चयज्ञानेन ग्रहे सर्वा-
त्मना कृते सत्युपकार्यस्योपाधिकलापस्य मध्ये को भेद उपाधिविशेषः
स्यादनिश्चितः । यथा द्रव्यमेकमुपाधिमुपकरोति, तथा परानपि । तत
एकोपाध्युपकारकत्वे विधिरूपेण गृह्यमाणे सर्वोपाध्युपकारकत्वं गृह्येत ।
तथा च सर्वोपाधिग्रहणप्रसङ्गः । न हि यत्सापेक्षं यद्रूपं तदग्रहणे तद् गृहीतुं
शक्यम् ॥ ५२ ॥
१-१. निश्चयास्तन्निरासतः—रा० ।
२-२. शब्दा भिन्नव्यवच्छेदगोचराः—रा० ।
३-३. “नानोपाधिविशिष्टस्य भेदिनोऽर्थस्य ग्राहिका ।
उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे” ॥—रा० ।

२७६ प्रमाणवार्त्तिके [ सामान्य-
सर्वात्मनोपकार्यस्य¹ को भेदः स्यादनिश्चितः ।
तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः ॥ ५३ ॥
ननु धूमापेक्षं वह्नेः कारणत्वम् , न च तद्ग्रहे धूमग्रहः; नैतद् युक्तम् ,
तथा हि—किं पुनः कारणत्वमिष्टं वह्नेर्यद्यविद्यमानत्वाद् धूमात् पूर्वकालभाविता ।
धूमासाहित्यं वर्त्तमानकालसत्ता । न तद् धूमापेक्षम्; स्वकारणात् तथोत्पत्तेः, धूम-
मन्तरेणैव च भावात् । न च तद्ग्रहे धूमग्रहः; विरुद्धत्वात् । न हि धूमग्रहणे
तस्मात् प्राग्भावित्वस्य तदसाहित्यस्य च ग्रहणम् । अथ धूमस्यायं हेतुरिति निश्चय-
विषयत्वं कारणत्वमिष्टम्, तदाऽस्त्येवेदशकारणत्वस्य ग्रहे धूमप्रतीतिः, उभयप्रतीत्या-
कारत्वादस्य निश्चयस्य द्वयान्वयव्यतिरेकग्रहणसापेक्षत्वाच्च ?
ननु च गृहीततदुत्पत्तेरग्निमात्रदर्शनात् कारणत्वप्रतीतिः, न च तदा धूम-
प्रतीतिः ?
(सिद्धान्तवाद्याह—) न च तत्र प्रत्यक्षात् कारणत्वस्य प्रतीतिः, किं
त्वग्निरूपमात्रस्य; अन्यथा सर्वस्य तद्दर्शिनः कारणत्वप्रतीतिप्रसङ्गः । किन्तु
व्याप्तिग्रहसापेक्षा आनुमानिकी तत्प्रतीतिः । तथा हि—गृहीततदुत्पत्तेरेवेयं भवति,
नान्यस्य । तदुत्पत्तिग्रहे च 'यदेवं रूपं तदेतत्कारणम्' इति गृहीता व्याप्तिः, अनुमा-
नप्रतीतौ च धूमकारणं वह्निरिति व्यवच्छेदद्वयमन्योन्यसापेक्षं प्रतीयत एव इत्यलं
तत्प्रसङ्गेन । न ह्यनुत्खातितकार्यः कारणत्वनिश्चयः । अत्यन्ताभ्यासाच्च व्याप्ति-
ग्रहसंस्कारस्य प्रबुद्धत्वादपेक्षा नास्तीत्यतत्त्वविवेकिनां नानुमानत्वप्रबोधः । न
ह्यनुमानमहमित्युत्पन्नमनुमानमुच्यते; किन्तु त्रिरूपलिङ्गजन्मनुमेयविषयं कारण-
त्वज्ञानं च तादृशमेव । द्रव्यं तु येनैव रूपेण एकमुपाधिमुकरोति, तेनैवापरानपीत्ये-
कोपाध्युपकारकत्वे गृह्यमाणे नानेकोपाध्युपकारकत्वस्य ग्रहणात्सर्वोपाधिग्रहणप्रसङ्गः;
परस्परसापेक्षत्वात् । ततश्च तयोरुपाधिकलापतदुपकारकत्वयोरात्मनि सम्बन्धात्
द्रव्यस्य सम्बन्धादेकस्योपाध्युपकारकत्वस्य ज्ञाने द्वयस्य ग्रहः स्यात् ।
एकनियता प्रतीतिर्न भवेदित्यर्थः ॥ ५३ ॥
१. सर्वात्मना कृते ग्राह्ये—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः २७७
धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ।
नोपकारस्ततस्तासां तदा स्यादनवस्थितिः ॥ ५४ ॥
एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे¹ ।
दृष्टे तस्मिन्नदृष्टाश्च¹ तद्ग्रहे सकलग्रहः ॥ ५५ ॥
न्यायमीमांसामतनिराकरणम्
यदि भ्रान्तिनिवृत्त्यर्थं गृहीतेऽप्यन्यदिष्यते ।
तद्व्यवच्छेदविषयं सिद्धं तद्वत् ततोऽपरम् ॥ ५६ ॥
अथ द्रव्यादुपाध्युपकारिकाः शक्तयो भिन्ना एव, द्रव्यग्रहणे तासामग्रहणात्
न सर्वोपाधिग्रहणप्रसङ्गः ? इत्याह — धर्माणाँमुपाधीनां उपकारस्य निमित्तभूतानां
शक्तीनां द्रव्याद् भेदे स्वीक्रियमाणे ताः शक्तयस्तस्य द्रव्यस्य किं कस्मात् !
यदि नोपकारस्ततो द्रव्यात् तासां शक्तीनामुपकारमन्तरेण सम्बन्धेऽतिप्र-
सङ्गात् । अथ तासां शक्तीनां द्रव्येणोपकारः क्रियते स्वरूपेण, तदा शक्त्युप-
कारत्वस्य ग्रहणाच्छक्तीनां ग्रहः । तद्ग्रहाच्च सर्वोपाधिग्रहप्रसङ्गस्तदवस्थः ।
स्यादेतत् । शक्तीरपि भिन्नाभिः शक्तिभिरुपकरोति तदा स्यादनव-
स्थितिः । तथा हि — यास्ताः शक्त्युपकारिकाः शक्तयस्ता द्रव्यस्योपकारद्वारा
यदीष्टाः, तदा स्वरूपेणोपकारकत्वे सर्वोपाधिग्रहप्रसङ्गभयादन्याः शक्तय
एष्टव्याः । तथा चानवस्था व्यक्ता ॥ ५४ ॥
उक्तमर्थं संगृह्णन्नाह — एकस्योपाधेरुपकारके द्रव्ये ग्राह्येऽभिमते तत्
एकोपाध्युपकारकद्रव्यस्वभावादपरे उपाध्यन्तराणामुपकारका उपकारशक्तिभेदा
दृष्टे तस्मिन्नेकोपाध्युपकारके द्रव्येऽदृष्टा ये ते न सन्ति । एकमेव हि रूपं
सर्वोपाध्युपकारकम्, अतस्तस्यैकोपाधिमतो ग्रहे सकलोपाधिग्रहः स्यात् ॥५५॥
सर्वात्मना विकल्पेन गृहीतेऽपि वस्तुनि भ्रान्त्या तथा न निश्चय इति
यदि भ्रान्तिनिवृत्त्यर्थमन्यत् प्रमाणान्तरमिष्यते, तद् भ्रान्तिनिवर्त्तकादपरं
व्यवच्छेदविषयं सिद्धम्; समारोपितत्वापोहविषयत्वाद् । ततो भ्रान्तिनिवर्त्तकाद-
परं यत् पूर्वमुत्पन्नं वस्तुविषयमिष्टं तद्वदपोहविषयं सिद्धम् ॥ ५६ ॥
१-१. ऽदृष्टाः तस्मिन्न सन्ति ते । सर्वोपकारकं ह्येकं—रा० ।

२७८ प्रमाणवार्त्तिके [ सामान्य-
असमारोपविषये¹ वृत्तेरपि च¹ निश्चयैः ।
यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥ ५७ ॥
प्रत्यक्षेण गृहीतेऽपि विशेषेऽंशविवर्जिते ।
यद्विशेषावसायेऽस्ति प्रत्ययः स प्रतीयते ॥ ५८ ॥
तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि ।
शब्दाश्च निश्चयाश्चैव निमित्तमनुरुन्धते ॥ ५९ ॥
कस्माद् ? इत्याह—अविद्यमानान्यसमारोपे विषये वृत्तेः । विकल्पो हि
व्यवच्छेदविषयं निश्चिन्वन् तद्विपक्षसमारोपविषये न भवति; किन्तु तद्व्यवच्छेद-
निश्चयारोपमनसोर्बाध्यबाधकभावत इत्युक्तम् ।
अपि च—निश्चयैरेकाकारप्रवृत्तैर्यद् रूपं न निश्चीयते तत्तेषां विषयः
कथमुच्यते ! निश्चितम् चाप्रतिपन्नं चेति विप्रतिषिद्धम् । यदि कृतकत्वनिश्चये-
ऽनित्यत्वाद्यपि निश्चितं कथं तस्याप्रतिपत्तिः, कृतकत्वस्यापि वा मा भूत् ॥५७॥
एवं तर्हि प्रत्यक्षगृहीते वस्तुनि निश्चयानिश्चयौ न स्याताम् ? इत्याह-प्रत्य-
क्षेण गृहीतेऽपि विशेषे स्वलक्षणे सर्वतो व्यावृत्तेऽंशैर्भागैर्विवर्जिते यस्य
विशेषस्य व्यवच्छेदस्यावसायेऽस्ति प्रत्ययः सहकारी प्रकरणाभ्यासपाटवादिः,
स प्रतीयते, नेतरः । न खल्वस्मन्मते प्रत्यक्षं निश्चयात्मकम्, नाप्यनुभवमात्रा-
धीनो निश्चयो येन सर्वथा निश्चयप्रसङ्गः; किन्तु यत्र व्यवच्छेदेऽभ्यासादयः
सहकारिणः प्रत्यक्षस्य सन्ति स निश्चीयते, नान्य इति युक्तो विभागः ॥ ५८ ॥
तत्रापि चान्यापोहेऽपि शब्दविकल्पविषयेऽन्यव्यावृत्तिरन्यव्यावृत्त
इत्यपि ये शब्दाश्च निश्चयाश्चैव भिन्नविषया इव प्रवर्त्तन्ते, न ते व्यावृत्ति-
व्यावृत्तयोर्वास्तवभेदनिबन्धनाः, किं तर्हि ? संकेतमेव भेदव्यवहारव्यवस्थापकं वक्ष्य-
माणनिमित्तमनुरुन्धतेऽनुवर्त्तन्ते । यदि गोरन्याऽगोव्यावृत्तिः, तदा यथा
गौरगोरश्वादेर्व्यावृत्तः, तथाऽगोव्यावृत्तेरपि व्यावृत्तः । ततश्चाश्वादिवद् गौर-
गौरैव स्यात् । यो ह्यगोव्यावृत्तेर्व्यावृत्तः सोऽगौर्यथाश्वादिर्गौश्च तथेति स्यात् ।
तथाऽगोव्यावृत्तिरपि न प्राप्नोति; सर्वस्यैवागोत्वात् । गोरगोरन्यत्वे हि तस्माद्
१-१. तद्विपक्षसमारोपविषये यदि—रा०।

विचारः ] स्वार्थानुमानपरिच्छेदः २७९
द्वयोरेकाभिधानेऽपि विभक्तिर्व्यतिरेकिणी ।
भिन्नमर्थमिवान्वेति वाच्यलेशविशेषतः¹ ॥ ६० ॥
भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः ।
पदं संकेतभेदस्य ज्ञातृवाञ्छानुरोधिनः ॥ ६१ ॥
भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।
शब्दयोर्न तयोर्वाच्ये विशेषस्तेन कश्चन ॥ ६२ ॥
जिज्ञापयिषुरर्थं तं तद्धितेन कृतापि वा ।
व्यावृत्तिः स्यात् । यदा तु गौरेव नास्ति, तदा कस्य कस्माद् व्यावृत्तिः ! तस्मान्न
व्यावृत्तिव्यावृत्तयोर्वस्तुतो भेदः ॥ ५९ ॥
ततश्च—द्वयोर्व्यावृत्तिव्यावृत्तयोरेकस्यार्थस्याभिधानेऽपि वस्तुतो विभक्तिः
षष्ठ्यादिर्व्यतिरेको वाच्यभेदः तद्वती व्यावृत्तस्य व्यावृत्तिरिति भिन्नमिवा-
र्थमन्वेत्यनुगच्छति वाचकत्वेन; वाच्यस्य लेशविशेषतोऽल्पभेदात् ॥ ६० ॥
साङ्केतिकादभिन्नेऽप्यर्थे किमर्थं संकेतभेदः, कश्च वाच्यविशेषः ? इत्याह-
भेदान्तरस्य प्रतिपाद्यमानाद् व्यवच्छेदादन्यस्य व्यवच्छेदस्य प्रतिक्षेपः, सामाना-
धिकरण्यस्य स्वभावोऽप्रतिक्षेपः तत्सम्भवः तौ, तयोर्द्वयोर्व्यावृत्तिव्यावृत्तशब्दयोः
संकेतभेदस्य ज्ञातृवाञ्छानुरोधिनः पदं कारणम् । ज्ञाता हि कदाचित्
गोरनश्वत्वं निष्कृष्टधर्मान्तरसम्बन्धयोग्यत्वं जिज्ञासते, तदा 'गोत्वमस्य' इत्युच्यते,
न तु 'गोत्वमस्य शुक्लम्' इति । यदा तु व्यावृत्तिरेवानिष्कृष्टधर्मान्तरसम्बन्ध-
योग्या जिज्ञासिता भवति, तदा व्यावृत्तशब्दसंकेतः, यथा—'गौरयम्' इति,
धर्मान्तरसामानाधिकरण्यं च 'गौः शुक्लः' इत्यादि ॥ ६१ ॥
भेदोऽयमेव संकेतकृतो धर्मान्तरप्रतिक्षेपाप्रतिक्षेपप्रतिपत्तिफलो द्रव्य-
भावाभिधायिनोर्धर्मिधर्मवाचिनोः शब्दयोर्न वास्तवः । तेन तयोर्वाच्ये
निश्चयविषये न कश्चन विशेषः; भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यामेकस्यैव प्रत्या-
यनात् ॥ ६२ ॥
तथा व्यवहर्त्ता जिज्ञापयिषुरर्थं तं साङ्केतिकं भेदं तद्धितेन कृतापि वा
१. वाच्यते स विशेषतः—रा० ।

अन्येन वा यदि ब्रूयात् भेदो नास्ति ततः परः ॥ ६३ ॥
तेनान्यापोहविषये तद्गतपक्षोपवर्णनम्¹ ।
प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतोः ॥ ६४ ॥
येषां वस्तुवशा वाचो न विवक्षापराश्रयाः ।
षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तमत् ॥ ६५ ॥
यद् यथा वाचकत्वेन वक्तृभिर्विनियस्यते ।
अनपेक्षितबाह्यार्थं तत् तथा वाचकं वचः ॥ ६६ ॥
—पाचकत्वमस्य, पाचकोऽयम्, पाकः, पाक्यो वेत्यादि, अन्येन वा स्वयंकृतेन
समयेन यदि ब्रूयात्; तथापि ततो भेदप्रतिपादकात् तद्धितादेर्भेदः परो
वास्तवो नास्ति ॥ ६३ ॥
तेन व्यावृत्तिव्यावृत्तयोर्भेदेनान्यापोहविषये जातिमान् शब्दवाच्य इति
पक्षः, तद्गत् पक्षभूतोदोषोऽन्यापोहेऽपि स्यादिति तद्दोषोपवर्णनं प्रत्याख्यातम्,
तद्वत् । पक्षो हि जातिमभिधाय शब्दस्तद्वति वर्त्तत इति तद्वचने स्वातन्त्र्यमस्य
न स्यात्, सामानाधिकरण्यं च न भवेत्; ‘गौः शुक्लः’ इति जातेरशुक्लत्वात् ।
न चोपचाराश्रयेण स्वातन्त्र्यं सामान्याधिकरण्यं चास्खलद्गतियुक्तमित्यादि;
जातितद्वतोः पृथक्त्वे हि स्याद् दोष एषः, न तु व्यावृत्तिव्यावृत्तिमतोर्भेद
इति नात्र तत्पक्षोक्तदोषः ॥ ६४ ॥
यदि व्यावृत्तिस्तद्वतोर्न भेदः, तदा गोगोत्वं शुक्लत्वसास्नादिमत्त्वादयश्चेति
षष्ठीवचनभेदादि न प्राप्नोति ? इत्याह–येषां बाह्यानां मते वस्तुवशा वस्त्वायत्ता
वाचो न विवक्षापर आश्रयः कारणं यासा तास्तथा, षष्ठीवचनभेदादि
चोद्यं तान् प्रति युक्तिमत् ॥ ६५ ॥
अस्माकम्—यद्वचो यथा धर्मान्तरस्य प्रतिक्षेपेणाप्रतिवाचकत्वेन वक्तृ-
भिर्विनियम्यते विशेषेण व्यवस्थाप्यतेऽनपेक्षितबाह्यार्थं संकेतमात्रानुरोधित्वात्
तद्वचस्तथा वाचकमिष्टमिति न चोद्यावकाशः ॥ ६६ ॥
१. तद्दोषोपवर्णनम्—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः २८१
दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः ।
खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् ॥ ६७ ॥
पररूपं स्वरूपेण यया संव्रियते धिया ।
एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः¹ ॥ ६८ ॥
तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।
अभेदिन इवाभान्ति भावा² रूपेण केनचित् ॥ ६९ ॥
तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् ।
यस्य तु वास्तव एव शब्दो व्यवहारः, तस्य दाराः षण्णगरीत्यादौ, आदि-
शब्दात् गृहा विंशतिरित्यादौ च, यथाक्रममभिन्ने भिन्ने च वस्तुतो भेदाभेद-
योर्बहुवचनैकवचननिमित्तयोर्व्यवस्थितेः खस्य स्वभावः खत्वं चेत्यत्र
धर्मिधर्मभेदस्य किं वा निबन्धनं निमित्तम् ! न किञ्चन । न ह्येकस्याः स्त्रिया
बहुत्वम्, षण्णां नगराणां वा एकत्वम्, आकाशस्य स्वभावो भिन्नः सामान्यं वास्ति ।
अथ चास्ति शब्दवृत्तिः, ततः कल्पित एव तद्विषयो वक्तव्यः ॥ ६७ ॥
यदि सर्वतो व्यावृत्तस्वभावा भावाः, न तेषु सामान्यमस्ति, कथं गोत्वमित्या-
दिसामान्यप्रतीतिः ? इत्याह — भेदिनः सर्वतो व्यावृत्तान् भावानाश्रित्य परम्परा-
पातेभ्य उत्पद्य यया धिया एकार्थप्रतिभासिन्या एकार्थाध्यवसायस्वाकारया
स्वरूपेण स्वप्रतिभासेन परेषां स्वलक्षणानां रूपं सर्वतो व्यावृत्तं संव्रियते
प्रच्छाद्यते, सा बुद्धिः संवृतिरुच्यते ॥ ६८ ॥
तया संवृत्या स्वयमात्मना भेदिनः स्वस्वभावव्यवस्थिता भावाः
संवृतनानात्वाः स्थगितभेदाः केनचिद् रूपेण विजातीयव्यावृत्त्युपकल्पितेन
गोत्वादिनाऽभेदिन इवाभान्ति ॥ ६९ ॥
तस्या बुद्धेः सामान्यरूपतयाऽध्यवसिताकाराया अभिप्रायवशात्
१. कारिकेयं रा० संस्करणे इत्थं दृश्यते—
“एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ।
रूपं परेषा व्यावृत्तं सा धीः संवृतिरुच्यते ॥” इति ।
२. भेदा—रा० ।

२८२ प्रमाणवार्त्तिके [ सामान्य-
तदसत्¹ परमार्थेन यथा सङ्कल्पितं तया¹ ॥ ७० ॥
व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते ।
ज्ञानाद्व्यतिरिक्तं वा कथमर्थान्तरं व्रजेत् ॥ ७१ ॥
तस्मान्मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रहः ।
इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका ॥ ७२ ॥
एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने ।
भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥ ७३ ॥
सामान्यं सत् प्रकीर्तितम्; विजातीयव्यावृत्तेर्वस्तुष्वभावात् । तदुपकल्पितं
गोत्वादि सामान्यरूपेण बुद्ध्याकारमध्यवस्यन्ति व्यवहारः । अध्यवसाया-
नुरोधेन च सामान्यं सदित्युच्यते । यथा वस्तुत्वेन तत् सामान्यं तया संवृत्ति-
बुद्ध्या कल्पितम्, तथाऽसत् परमार्थतः ॥ ७० ॥
तदेवासत्त्वमाह—व्यक्तयस्तावन्न परस्परमनुयन्ति; भेदात् । तास्व-
नुयायि च अन्यत् किञ्चिन्न भासते; व्यक्तिमात्रवेदनात् । यच्च ज्ञानाद्व्य-
तिरिक्तमाकारस्वरूपं तत् कथमर्थान्तरं ज्ञानान्तरं वा व्रजेत्; स्वलक्षण-
रूपत्वादस्य ॥ ७१ ॥
तस्मादर्थरूपस्य ज्ञानरूपस्य च सामान्यस्य योगान्मिथ्याविकल्पोऽय-
मर्थशून्य एष विकल्पोऽयमर्थेष्वेकात्मतायाः सामान्यरूपताया ग्रहः । अस्य
चैकात्मतया प्रतिभासिनो मिथ्याविकल्पस्य बीजं हेतुरितरस्मात्तत्कार्यकारिणो
भेदो व्यावृत्तिः । यदर्थिका संज्ञा शब्दोऽपि विजातीयव्यावृत्तौ संकेतते,
तद्विषयश्च ॥ ७२ ॥
कथं पुनर्भिनानामभिन्नं कार्यम् ? इत्याह—एकप्रत्यवमर्श एकाकाराध्यव-
सायोऽर्थज्ञानं रूपादिज्ञानं च तदादिर्यस्य ज्वरहरणादेः, तस्यैकार्थस्य साधने
करणे स्वभावेन प्रकृत्या स्वहेतुदत्तया भेदेऽपि भेदाविशेषेऽपि केचिद् बाहुले-
यादयो नियताः, न कर्कादयः; इन्द्रियादिवत् । यथा चक्षूरूपालोकमन-
स्कारादय एव भेदाविशेषेऽपि रूपविज्ञानं जनयन्ति; न श्रोत्रशब्दादयः ॥७३॥
१-१. यथा तयोपकल्पितं तदसत् परमार्थतः—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः २८३
ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा ।
दृष्टा यथा चौषधयो नानात्वेऽपि न चापराः ॥ ७४ ॥
अविशेषान्न सामान्यमविशेषप्रसङ्गतः ।
तासां क्षेत्रादिभेदेऽपि ध्रौव्याच्चानुपकारतः ॥ ७५ ॥
तत्स्वभावग्रहाद्¹ या¹ धीस्तदर्थेवाप्यनर्थिका ।
विकल्पिकाऽतत्कार्यार्थभेदनिष्ठा प्रजायते ॥ ७६ ॥
तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यतः ।
एतदेव दृष्टान्तान्तरेण द्रढयन्नाह²—ज्वरादिशमने कर्त्तव्ये काश्चित् गुडू-
च्यादयः सह परस्परं प्रत्येकं वा दृष्टाः । नानात्वेऽपि न चापराः । यथा
गुडूचीमुस्तादयो भिन्नाः, तथा त्रपुषादयोऽपि । तथापि काश्चिज्ज्वरं शमयन्ति, न
सर्वाः । एवं शाबलेयादय एकत्रप्रत्यवमर्शं कुर्वन्ति, न कर्कादयः ॥ ७४ ॥
स्यादेतत् । तास्वोषधीषु सामान्यं किञ्चिदस्ति, यत् ज्वरादिशमनं करोति,
तन्नैष दृष्टान्तः ? इत्याह—अविशेषात् सामान्यस्याक्रियावस्थातः क्रियावस्थायां
न सामान्यं काञ्चिदर्थक्रियामुपकल्पयति । तासां गुडूच्यादिव्यक्तीनां क्षेत्रादि-
भेदेऽपि सामान्यस्य कार्यिणोऽविशिष्टत्वात् ज्वरशमनादेः कार्यस्याविशेष-
प्रसङ्गतः चिरक्षिप्रप्रशमनाद्यभावासक्तेः । ध्रौव्याच्चानुपकारतः सामान्यस्य
नित्यत्वात् अन्येभ्यः सहकारिभ्य उपकाराभावात् सकृत् तत्कार्याणि स्युः ॥ ७५ ॥
अपोहविषयत्वे शब्दविकल्पयोः सामान्यं विशेषणविशेष्यभावं धर्मिधर्मभावं
च व्यवस्थापयितुमाह—तस्योत्पलादेः शब्दादेश्च स्वलक्षणस्य स्वभावग्रहादूर्ध्वं
या विकल्पिका धीः प्रजायते वस्तुतोऽनर्थिकापि तदर्थेव स्वलक्षणविषये-
वाध्यवसायानुरोधात् परमार्थतोऽतत्कार्येभ्यः अर्थेभ्यो भेदो व्यावृत्तिस्तत्र
निष्ठाऽवस्थानं यस्याः सा तथा, विजातीयव्यावृत्तिविषयेत्यर्थः ॥ ७६ ॥
तस्यां विकल्पबुद्धौ यद् रूपं य आकारो दृश्यविकल्पयोरेकत्वाध्यवसाया-
भ्यासदाढ्यादबाह्यमपि बाह्यमिव, असाधारणमप्येकमिव; सर्वव्यक्तिषु सदृशवृत्तेः ।
यथा यथा व्यक्तयो दृश्यन्ते तथा तथैवाध्यवसायात् व्यावृत्तमिव; विजातीय-
१-१. तत्स्वभावविकल्पा—रा०। २. दृढयन्नाह—रा० ।

२८४ प्रमाणवार्त्तिके [ सामान्य-
व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः ॥ ७७ ॥
अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः ।
अभिन्ना¹ इव चाभान्ति¹ व्यावृत्ताः पुनरन्यतः ॥ ७८ ॥
त एव तेषां सामान्यसमानाधारगोचरैः ।
ज्ञानाभिधानैर्मिथ्यार्थो² व्यवहारः² प्रतन्यते ॥ ७९ ॥
स च सर्वः पदार्थानामन्योन्याभावसंश्रयः ।
तेनान्यापोहविषयो वस्तुलाभस्य³ चाश्रयः³ ॥ ८० ॥
व्यावृत्तवस्त्वभेदेन निश्चयात् । न च तद्व्यावृत्तम्; गोरूपत्वप्रसङ्गात् । अत एव
निस्तत्त्वं निःस्वरूपम्; यथाभूतरूपतिरोधानेनान्यथाध्यवसायात् । तथा चाप-
रीक्षाया विचारस्यानङ्गभावदनाश्रयान्निस्तत्त्वम् । तत् द्विविधं त्वर्थो ज्ञानं वा । न
चैतत् तथा; यतः कारणात् तेन कल्पितेन सामान्यरूपेण तेऽर्था एकार्थक्रिया-
कारिणोऽतत्कार्येभ्यो व्यावृत्तस्वभावा ज्ञाननिविष्टा विकल्पबुद्ध्यारूढा अभिन्ना
इवाभान्त्युत्पलत्वादिना शब्दत्वादिना च ।
एतेन सामान्यव्यवस्थोक्ता । त एवैकजात्यवसिताऽन्यतोऽनीलात् नित्याच्च
‘नीलम्’ इत्यादिविकल्पाकारेण एकेन तत्कारिताव्यावृत्तरूपताध्यवसायविषयेण
विशेषिता व्यावृत्ता आभान्ति-नीलोत्पलमिति शब्दस्यानित्यत्वमिति ॥७७-७८॥
तेषामुभयव्यावृत्तिविशेषितानां विकल्पारूढानामर्थानां सामान्ययोर्विशेषण-
विशेष्यभूतयोः, धर्मधर्मिरूपयोश्च सामानाधिकरण्यं समानाधारः; भावप्रधान-
त्वान्निर्देशस्य, स गोचरो येषां तैर्ज्ञानाभिधानैर्विकल्पशब्दैर्विशेषणविशेष्य-
भावस्य धर्मिधर्मभावस्य व्यवहारो मिथ्यार्थः प्रतन्यते विस्तार्यते ॥ ७९ ॥
स च ज्ञानाभिधानलक्षणो विशेषणविशेष्यभावादिव्यवहारः सर्वः पदार्थानां
तदतत्कार्यकारिणामन्योन्यस्य इतरेतरस्याभावो व्यवच्छेदः संश्रयो विषयो
यस्य स तथा । तेन व्यवच्छेदविषयत्वेनान्यापोहविषयो व्यवस्थाप्यते ।
वस्तुनो लाभस्य प्राप्तेश्चाश्रयो निमित्तं स व्यवहारो भवति ॥ ८० ॥
१-१. तेनाभिन्न इवाभान्ति-पाठा० । २-२. ०नैर्व्यवहारो मिथ्यार्थः-रा० ।
३-३. तदतत्कार्यकारिणाम्-रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः २८५
यत्रास्ति¹ वस्तुसम्बन्धो¹ यथोक्तानुमितौ यथा ।
नान्यत्र भ्रान्तिसाम्येऽपि दीपतेजो मणौ यथा ॥ ८१ ॥
तत्रैककार्योऽनेकोऽपि² तदकार्यान्यताश्रयैः ।
एकत्वेनाभिधाज्ञानैः² व्यवहारः प्रतार्यते ॥ ८२ ॥
ततोऽनेककृदेकोऽपि³ तद्भावपरिदीपने³ ।
अतत्कार्यार्थभेदेन नानाधर्मा⁴ प्रतीयते ॥ ८३ ॥
यत्र व्यवहारे वस्तुनः सम्बन्धः परम्परया तदुत्पत्तेरस्ति यथोक्तानु-
मितौ यादृशी साध्यप्रतिबद्धकार्यस्वभावानुपलम्भलिङ्गजानुमितिरुक्ता, तत्र यथा
परम्परया वस्तुसम्बन्धाद् वस्तुप्राप्तिः, नान्यत्र भ्रान्तिसाम्येऽपि दीपतेजो मणौ
यथा । कुञ्चिकाविवरदेशस्थे दीपतेजसि भ्रान्त्या समारोपिते मणौ परम्परयापि
वस्तुसम्बन्धाभावान्न प्राप्तिः । एवं यद्यपि सर्वस्य विकल्पस्य स्वप्रतिभासेऽनर्थे-
ऽर्थाध्यवसायेन वृत्तेर्भ्रान्तत्वम्, तथापि यो वस्तुसम्बन्धवान् स तत्प्रापकः, नेतर
इति युक्तो विभागः ॥ ८१ ॥
ननु यदि ज्ञाननिविष्टाना मर्थानां सामर्थ्यादिव्यवहारः, तदा बाह्येषु स न
स्याद् ? इत्याह—तत्र गवाश्वादिव्यक्तिषु मध्येऽनेकोऽपि शाबलेयबाहुलेयादिरेक-
मभेदावसायादिकार्यं यस्य ज्ञानाभिधानैः, कीदृशैः ? तद्वाहाद्यकार्यं कार्यं न भवति
येषां कर्कादीनां तेभ्योऽन्यतां तद्व्यवच्छेदः स आश्रयो विषयो येषां तैरेकत्वेन
व्यवहारः प्रतार्यते प्राप्यते । शाबलेयादिर्विजातीयव्यावृत्तौ व्यावृत्त्याश्रयैः शब्द-
ज्ञानैरेकत्वेन व्यवह्रियते इत्यर्थः ॥ ८२ ॥
ततश्चैकोऽपि दीपादिरालोकान्धकारापनयनवर्तिदाहाद्यनेककार्यकृत् तद्-
भावस्यानेककार्यकारित्वस्य परिदीपननिमित्तमतत्कार्यार्थेभ्य एकैककार्य-
समर्थेभ्यो भेदेन व्यवच्छेदेन नानाधर्मा प्रतीयते शब्दविकल्पैः । यथा—
१-१. वस्तुलाभाश्रयो यत्र—रा० ।
२-२. तत्रानेकोऽपि कार्यैका न तत्कार्यपराश्रयैः ।
ज्ञानाभिधानैरेकत्वात्—रा० ।
३-३. ततश्चैकोऽप्यनेककृत् तद्भावपरिदीपनात्—रा० ।
४. नानाधर्मः—रा० । एवं वृत्तावपि ।

२८६ प्रमाणवार्त्तिके [ सामान्य-
यथाप्रतीति कथितः शब्दार्थोऽसावसन्नपि ।
सामानाधिकरण्यं च वस्तुन्यस्य न सम्भवः ॥ ८४ ॥
धर्मधर्मिव्यवस्थानं भेदोऽभेदश्च यादृशः ।
असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते ॥ ८५ ॥
तं तथैव समाश्रित्य साध्यसाधनसंस्थितिः ।
परमार्थावताराय विद्वद्भिरवकल्प्यते ॥ ८६ ॥
संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः ।
रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः ॥ ८७ ॥
अनालोककारिभ्यो भेदादालोककृदनन्धकारहन्तृभ्यो भेदादन्धकारहन्ता दीप उच्यत
इत्यादि ॥ ८३ ॥
तदेवं यथाप्रतीति संव्यवहारानतिक्रमेण शब्दार्थः सामान्यलक्षणः
सामानाधिकरण्यं विशेषणविशेष्यभावश्च, च-शब्दात् कथितोऽसन्नपि
परमार्थतः, यतो वस्तुन्यस्य शब्दार्थस्य सामान्यादेः पारमार्थिकस्यासम्भवः;
सर्वतो व्यावृत्तस्य वस्तुमात्रस्याध्यक्षेणोपलम्भात् । तद्व्यावृत्त्याश्रयेण कल्प्यमानं
तत्सामानाधिकरण्यं चावस्त्वेव ॥ ८४ ॥
तथा धर्मधर्मिणोर्व्यवस्थानियमः शब्दो धर्म्येव, कृतकत्वं धर्म एव,
तयोर्भेदः—शब्दो धर्मी कृतकत्वं धर्म इति, अभेदश्च—कृतकोऽनित्यश्च शब्द
इत्यादि यादृशो धर्मान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यामुक्तोऽसमीक्षिततत्त्वार्थोऽ-
लक्षिततत्त्वो यथा लोके प्रतीयते, तं धर्मधर्मादिविभागं तथैव समाश्रित्य
साध्यसाधनसंस्थितिर्विद्वद्भिरवकल्प्यते । परमार्थे वस्तुस्वभावभूते क्षणिक
त्वादावताराय लोकस्य वस्तुत्वक्षणिकत्वयोर्भेदः परः कल्पितः । वस्तु तु क्षणिक-
मेव, तच्च साध्यसाधनकल्पनया शक्यं प्रत्येतुम् ॥ ८५-८६ ॥
कस्मात् पुनर्वस्तुनि सामान्यधर्मिधर्मादि नास्ति ? इत्याह—पारमार्थिका
अर्थाः स्वतः स्वरूपेण न संसृज्यन्ते; यतः सामान्यं वस्तु स्यात् । नापि
भिद्यन्ते कृतकत्वशब्दत्वादिना; यतो धर्मिधर्मभेदो भवेत् । यत्तु तेषु रूपमेकं
गोत्वाद्यनुयायि, अनेकं च शब्दकृतकत्वादि व्यवह्रियते; असौ बुद्धेरनादिवास-

विचारः ] स्वार्थानुमानपरिच्छेदः २८७
भेदस्ततोऽयं¹ बौद्धेऽर्थे सामान्यं भेद इत्यपि ।
तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते ॥ ८८ ॥
साध्यसाधनसंकल्पे वस्तुदर्शनहानितः ।
भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम् ॥ ८९ ॥
समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथञ्चन ।
भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ॥ ९० ॥
तद्रूपं सर्वतो भिन्नं तथा तत्प्रतिपादिका ।
नोपहताया उपप्लवो मिथ्योपदर्शनम् ॥ ८७ ॥
ततोऽयं विशेषः 'इदं सामान्यम्' इति भेदः, 'इदं साध्यमिदं साधनम्'
इत्यपि भेदो बौद्धे बुद्धिपरिकल्पितेऽर्थे, न वस्तुनि । कथं तर्हि स्वलक्षणे
कृतकत्वादिभेदः ? इत्याह--तस्यैव स्वलक्षणस्यान्यस्मादकृतकादेर्व्यावृत्त्या
तदाश्रयेण धर्मभेदः प्रकल्प्यते ॥ ८८ ॥
कस्मात् कल्पितभेदद्वारेण साध्यसाधनभाव इष्टः, न वस्तुभेदेन ? इत्याह-
साध्यसाधनसङ्कल्पे 'इदं साध्यम्', 'इदं साधनम्' इति विकल्पे क्रियमाणे
वस्तुदर्शनस्य हानितः कल्पित एव भेदः । न खलु विकल्पे वस्तुदर्शनमस्ति;
कल्पितगोचरत्वात् तस्य । आलोचनाज्ञानं वस्तुविषयं न किञ्चित् तद्
विभजति ।
नन्वाचार्यदिङ्नागस्य भेदः सामान्यसंसृष्टो ग्राह्य इष्टः । अत्र "भेदः
सामान्यसंसृष्टः प्रतीयते" इत्यस्मिन् वचने न स्वलक्षणं ग्राह्यतया निर्दिष्टम्,
किन्त्वध्यवसेयतया ॥ ८९ ॥
कस्मादेवम् ? इत्याह-समानभिन्नाद्याकारैः सामान्याकारधर्मिधर्मभेदा-
कारसामानाधिकरण्याद्याकारैश्च तत् स्वलक्षणं कथञ्चन ग्राह्यं न भवति । किं
कारणम् ? इत्याह-भेदानां धर्माणां कृतकत्वादीनां बहुभेदानामनेकप्रकाराणां
तत्र स्वलक्षण एकस्मिन्नयोगतः ॥ ९० ॥
तस्मात् तस्य स्वलक्षणस्य रूपं सर्वतः सजातीयविजातीयाद् भिन्नम् ।
१. ०ततोऽपि-रा० ।

२८८ प्रमाणवार्त्तिके [ सामान्य-
न श्रुतिः कल्पना वास्ति सामान्येनेव वृत्तिः ॥ ९१ ॥
शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः ।
तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न ॥ ९२ ॥
अपि प्रवर्त्तत पुमान् विज्ञायार्थक्रियाक्षमान् ।
तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रियाः¹ ॥ ९३ ॥
तत्रानर्थक्रियायोग्या² जातिस्तद्वानलं² स च ।
साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम् ॥ ९४ ॥
तथा तेन सर्वतो भिन्नेन रूपेण तत्प्रतिपादिका श्रुतिः कल्पना वा नास्ति;
सामान्येनैव कल्पितेन रूपेण शब्दविकल्पयोर्वृत्तिः ॥ ९१ ॥
किं पुनः स्वलक्षणमेव शब्दैर्नोच्यते ? इत्याह—शब्दाः संकेतितमर्थ-
माहुः, न यं कञ्चित् । स संकेतो व्यवहाराय स्मृतः । 'संकेतितमर्थं शब्दा-
दुच्चरितात् प्रतिपद्येयम्' इति संकेतग्रहणम् । तदा व्यवहारकाले च स्वलक्षणं
संकेतविषयो नास्ति, तेन तत्र स्वलक्षणे संकेतो न युक्तः ॥ ९२ ॥
एवं तर्हि सामान्ये व्यवहारकालानुयायिनि संकेत: स्याद् ? इत्याह—अपि
प्रवर्त्तत पुमान् शब्दाद् विज्ञायार्थक्रियाक्षमान् तस्या अर्थक्रियायाः
साधनायेति एतदर्थमर्थेषु संयोज्यन्ते संकेत्यन्ते शब्दाः, न व्यसनितया ॥९३॥
तत्रैवं सत्यनर्थक्रियायां योग्याऽर्थक्रियायां³ शक्ता जातिरिति न तत्र
संकेतो युक्तः । तद्वान् जातिमान् विशेषोऽलं शक्तोऽर्थक्रियायामिति तत्र
संकेत इति चेत् ? स विशेषश्च साक्षात् संकेते कस्मान्न योज्यते, किं
जातिव्यवधिस्वीकारेण; अनर्थक्रियाकारित्वादस्याः, स्वलक्षणस्य च विपर्ययात् !
व्यक्तीनामानन्त्यान्न तत्र शक्य इति चेत् ? इदमानन्त्यं समं जातिमद्-
व्यक्तिष्वपि ॥ ९४ ॥
१. ०भिधायकाः—पाठा० ।
२-२. अत्रानर्थक्रियायोग्यो नास्ति तद्वानलं—रा० ।
३. योग्योऽर्थक्रियायां—रा० ।