सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 296, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 296

२७० प्रमाणवार्त्तिके [ व्याप्ति-
अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः ।
पश्चाद्भावान्न हेतुत्वं फलेऽप्येकान्तता कुतः ॥ ३३ ॥
कार्यं धूमो हुतभुजः कार्यधर्मानुवृत्तितः ।
तस्याभावे१ तु स भवन्१ हेतुमत्तां विलङ्घयेत् ॥ ३४ ॥
नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातश्च२ भावानां कादाचित्कस्य सम्भवः ॥ ३५ ॥
अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः ।
वस्त्रोत्पादकार्थान्तरनिमित्तो रागद्रव्यकारणो हि धर्मो रागः प्रागुत्पन्नाद्
वस्त्रादन्य एव स्याद्; भिन्नकालत्वाद्, भिन्नहेतुकत्वाच्च । इत्थमपि यद्येकत्वम्,
विश्वमेकं भवेत् । ततश्च सहोत्पत्तिनाशौ स्याताम् । सर्वत्र सर्वं चोपयुज्यते,
एकत्वाभिमानस्तु सदृशापरोत्पत्तेर्भ्रान्त्या । तस्य चार्थान्तरनिमित्तस्य धर्मस्य
वस्त्रोत्पादात् पश्चाद् भावान्न हेतुत्वं वस्त्रं प्रति । अतः कारणतयापि नास्यानु-
मानम् । रागोत्पत्तौ वस्त्रं सहकारि कारणम्, अतः कार्यतया रागानुमानं चेत् ?
फलेऽपि कारणादनुमीयमाने एकान्तता कुतः ! न ह्यवश्यं कारणानि कार्यवन्ति
भवन्ति ॥ ३३ ॥
यदि दर्शनादर्शने नान्वयव्यतिरेकबुद्धिहेतूधूमोऽग्निं न व्यभिचरतीति न
स्यात् प्रतिपत्तिः ? इत्याह—कार्यं धूमो हुतभुजः कार्यधर्मस्य कारणान्वयव्य-
तिरेकानुविधायित्वस्य त्रिविधदर्शनादर्शननिश्चितस्यानुवृत्तितः स धूमस्तस्या-
ग्नेरभावे तु भवन् हेतुमत्तां विलङ्घयेदतिक्रामयेत् ॥ ३४ ॥
अहेतुत्वे च धूमस्य नित्यं सत्त्वमाकाशस्येव स्यात् । असत्त्वं शशवि-
षाणादेरिव; अहेतोरन्यानपेक्षणाभावात् । अपेक्षातश्च भावानां कादाचित्कस्य
सम्भवः । ततो यद्यहेतुर्भावः, तदा नित्यं स्यात् । असद्देव वा स्याद्; हेत्वभावात् ।
तस्माद् धूमस्य कादाचित्कत्वदर्शनात् हेतुमत्त्वम् । अग्न्यन्वयव्यतिरेकानुविधान-
दर्शनात् तत्कार्यत्वञ्च । यश्च यस्य कार्यं स तं न व्यभिचरति; तदधीनस्व-
रूपत्वात् ॥ ३५ ॥
अतश्च—अग्निस्वभावः शक्रस्य मूर्द्धा वल्मीकः । यद्यग्निरेव सः,
१-१. स भवँस्तदभावेऽपि- क० । २. अपेक्षया हि—क० ।