सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 312, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 312

२८६ प्रमाणवार्त्तिके [ सामान्य-
यथाप्रतीति कथितः शब्दार्थोऽसावसन्नपि ।
सामानाधिकरण्यं च वस्तुन्यस्य न सम्भवः ॥ ८४ ॥
धर्मधर्मिव्यवस्थानं भेदोऽभेदश्च यादृशः ।
असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते ॥ ८५ ॥
तं तथैव समाश्रित्य साध्यसाधनसंस्थितिः ।
परमार्थावताराय विद्वद्भिरवकल्प्यते ॥ ८६ ॥
संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः ।
रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः ॥ ८७ ॥
अनालोककारिभ्यो भेदादालोककृदनन्धकारहन्तृभ्यो भेदादन्धकारहन्ता दीप उच्यत
इत्यादि ॥ ८३ ॥
तदेवं यथाप्रतीति संव्यवहारानतिक्रमेण शब्दार्थः सामान्यलक्षणः
सामानाधिकरण्यं विशेषणविशेष्यभावश्च, च-शब्दात् कथितोऽसन्नपि
परमार्थतः, यतो वस्तुन्यस्य शब्दार्थस्य सामान्यादेः पारमार्थिकस्यासम्भवः;
सर्वतो व्यावृत्तस्य वस्तुमात्रस्याध्यक्षेणोपलम्भात् । तद्व्यावृत्त्याश्रयेण कल्प्यमानं
तत्सामानाधिकरण्यं चावस्त्वेव ॥ ८४ ॥
तथा धर्मधर्मिणोर्व्यवस्थानियमः शब्दो धर्म्येव, कृतकत्वं धर्म एव,
तयोर्भेदः—शब्दो धर्मी कृतकत्वं धर्म इति, अभेदश्च—कृतकोऽनित्यश्च शब्द
इत्यादि यादृशो धर्मान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यामुक्तोऽसमीक्षिततत्त्वार्थोऽ-
लक्षिततत्त्वो यथा लोके प्रतीयते, तं धर्मधर्मादिविभागं तथैव समाश्रित्य
साध्यसाधनसंस्थितिर्विद्वद्भिरवकल्प्यते । परमार्थे वस्तुस्वभावभूते क्षणिक
त्वादावताराय लोकस्य वस्तुत्वक्षणिकत्वयोर्भेदः परः कल्पितः । वस्तु तु क्षणिक-
मेव, तच्च साध्यसाधनकल्पनया शक्यं प्रत्येतुम् ॥ ८५-८६ ॥
कस्मात् पुनर्वस्तुनि सामान्यधर्मिधर्मादि नास्ति ? इत्याह—पारमार्थिका
अर्थाः स्वतः स्वरूपेण न संसृज्यन्ते; यतः सामान्यं वस्तु स्यात् । नापि
भिद्यन्ते कृतकत्वशब्दत्वादिना; यतो धर्मिधर्मभेदो भवेत् । यत्तु तेषु रूपमेकं
गोत्वाद्यनुयायि, अनेकं च शब्दकृतकत्वादि व्यवह्रियते; असौ बुद्धेरनादिवास-