सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 307, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 307

विचारः ] स्वार्थानुमानपरिच्छेदः २८१
दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः ।
खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् ॥ ६७ ॥
पररूपं स्वरूपेण यया संव्रियते धिया ।
एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः¹ ॥ ६८ ॥
तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।
अभेदिन इवाभान्ति भावा² रूपेण केनचित् ॥ ६९ ॥
तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् ।
यस्य तु वास्तव एव शब्दो व्यवहारः, तस्य दाराः षण्णगरीत्यादौ, आदि-
शब्दात् गृहा विंशतिरित्यादौ च, यथाक्रममभिन्ने भिन्ने च वस्तुतो भेदाभेद-
योर्बहुवचनैकवचननिमित्तयोर्व्यवस्थितेः खस्य स्वभावः खत्वं चेत्यत्र
धर्मिधर्मभेदस्य किं वा निबन्धनं निमित्तम् ! न किञ्चन । न ह्येकस्याः स्त्रिया
बहुत्वम्, षण्णां नगराणां वा एकत्वम्, आकाशस्य स्वभावो भिन्नः सामान्यं वास्ति ।
अथ चास्ति शब्दवृत्तिः, ततः कल्पित एव तद्विषयो वक्तव्यः ॥ ६७ ॥
यदि सर्वतो व्यावृत्तस्वभावा भावाः, न तेषु सामान्यमस्ति, कथं गोत्वमित्या-
दिसामान्यप्रतीतिः ? इत्याह — भेदिनः सर्वतो व्यावृत्तान् भावानाश्रित्य परम्परा-
पातेभ्य उत्पद्य यया धिया एकार्थप्रतिभासिन्या एकार्थाध्यवसायस्वाकारया
स्वरूपेण स्वप्रतिभासेन परेषां स्वलक्षणानां रूपं सर्वतो व्यावृत्तं संव्रियते
प्रच्छाद्यते, सा बुद्धिः संवृतिरुच्यते ॥ ६८ ॥
तया संवृत्या स्वयमात्मना भेदिनः स्वस्वभावव्यवस्थिता भावाः
संवृतनानात्वाः स्थगितभेदाः केनचिद् रूपेण विजातीयव्यावृत्त्युपकल्पितेन
गोत्वादिनाऽभेदिन इवाभान्ति ॥ ६९ ॥
तस्या बुद्धेः सामान्यरूपतयाऽध्यवसिताकाराया अभिप्रायवशात्
१. कारिकेयं रा० संस्करणे इत्थं दृश्यते—
“एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ।
रूपं परेषा व्यावृत्तं सा धीः संवृतिरुच्यते ॥” इति ।
२. भेदा—रा० ।