सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 295, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 295

-विचारः ] स्वार्थानुमानपरिच्छेदः २६९
हेतुः, युक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥ २९ ॥
इतीयं त्रिविधोक्ताप्यनुपलब्धिरनेकधा¹ ।
तत्तद्विरुद्धाद्यवगतिगतिभेदप्रयोगतः ॥ ३० ॥
कार्यकारणभावाद्वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ ३१ ॥
अवश्यंभावनियमः² कः परस्यान्यथा² परैः ।
अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥ ३२ ॥
व्यवहारे च हेतुः । तथा तस्य प्रतिषेध्यस्य युक्तोपलम्भस्य उपलब्धि-
लक्षणप्राप्तस्यानुपलम्भनं प्रतिषेधे प्रतिषेधव्यवहारे हेतुः, तस्य स्वयमेवाभाव-
रूपत्वात् ॥ २९ ॥
इति निर्दिष्टक्रमेणेयमनुपलब्धिः कारणव्यापकस्वभावानुपलब्धिभेदेन
त्रिविधाप्यनेकधा बहुप्रकारा; तत्तद्विरुद्धाद्यवगतिगतिभेदप्रयोगतः । ते च
कारणव्यापकस्वभावास्तेषां विरुद्धादयश्च तत्तद्विरुद्धादयः, आदिशब्दाद् विरुद्ध-
कार्यादयश्च, विरुद्धादीनामुपलब्धयश्च तासामन्योन्यं भेदो नानात्वं तस्य प्रयोगतः
शब्दस्याभिधाव्यापारात् । यथोक्तं प्राक् । सैषाऽनेकप्रकारापि त्रिविधानुपलब्धिः
संगृहीतेत्यर्थः ॥ ३० ॥
उक्तमर्थं श्लोकाभ्यां संगृह्णन्नाह—कार्यकारणभावात् तदुत्पत्तेर्वा
नियामकात् साधनस्य साध्याव्यभिचारकारणात् स्वभावात् तादात्म्याद् वा
नियामकादविनाभावनियमः साध्याव्यभिचारित्वनियमः साधनस्य । विपक्षे
हेतोरदर्शनात् न सपक्षे दर्शनात् ; दर्शनादर्शनयोर्व्यभिचारिण्यपि हेतौ
सम्भवात्, नियमहेत्वभावाच्च ॥ ३१ ॥
अन्यथा तादात्म्यतदुत्पत्त्योर्व्यभिचारनिबन्धनयोरस्वीकारे परस्य साध्यस्य
परैः साधनैः कोऽवश्यम्भावनियमः, न कश्चित् । उत्पादकादन्योऽर्थोऽर्थान्तरं
तन्निमित्ते वा धर्मेऽस्वभावभूते कोऽवश्यम्भावनियमः । वाससि रागवत्
यथा अर्थान्तरनिमित्तस्य रागस्य वस्त्रे नावश्यम्भावनियमः॥ ३२ ॥
१. त्रिविधाप्युक्तानु०—क० । २-२. ०नियमोऽन्यथा परस्य कः—रा० ।