प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 304, कुल 532 में से
संदर्भ में पढ़ें२७८ प्रमाणवार्त्तिके [ सामान्य-
असमारोपविषये¹ वृत्तेरपि च¹ निश्चयैः ।
यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥ ५७ ॥
प्रत्यक्षेण गृहीतेऽपि विशेषेऽंशविवर्जिते ।
यद्विशेषावसायेऽस्ति प्रत्ययः स प्रतीयते ॥ ५८ ॥
तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि ।
शब्दाश्च निश्चयाश्चैव निमित्तमनुरुन्धते ॥ ५९ ॥
कस्माद् ? इत्याह—अविद्यमानान्यसमारोपे विषये वृत्तेः । विकल्पो हि
व्यवच्छेदविषयं निश्चिन्वन् तद्विपक्षसमारोपविषये न भवति; किन्तु तद्व्यवच्छेद-
निश्चयारोपमनसोर्बाध्यबाधकभावत इत्युक्तम् ।
अपि च—निश्चयैरेकाकारप्रवृत्तैर्यद् रूपं न निश्चीयते तत्तेषां विषयः
कथमुच्यते ! निश्चितम् चाप्रतिपन्नं चेति विप्रतिषिद्धम् । यदि कृतकत्वनिश्चये-
ऽनित्यत्वाद्यपि निश्चितं कथं तस्याप्रतिपत्तिः, कृतकत्वस्यापि वा मा भूत् ॥५७॥
एवं तर्हि प्रत्यक्षगृहीते वस्तुनि निश्चयानिश्चयौ न स्याताम् ? इत्याह-प्रत्य-
क्षेण गृहीतेऽपि विशेषे स्वलक्षणे सर्वतो व्यावृत्तेऽंशैर्भागैर्विवर्जिते यस्य
विशेषस्य व्यवच्छेदस्यावसायेऽस्ति प्रत्ययः सहकारी प्रकरणाभ्यासपाटवादिः,
स प्रतीयते, नेतरः । न खल्वस्मन्मते प्रत्यक्षं निश्चयात्मकम्, नाप्यनुभवमात्रा-
धीनो निश्चयो येन सर्वथा निश्चयप्रसङ्गः; किन्तु यत्र व्यवच्छेदेऽभ्यासादयः
सहकारिणः प्रत्यक्षस्य सन्ति स निश्चीयते, नान्य इति युक्तो विभागः ॥ ५८ ॥
तत्रापि चान्यापोहेऽपि शब्दविकल्पविषयेऽन्यव्यावृत्तिरन्यव्यावृत्त
इत्यपि ये शब्दाश्च निश्चयाश्चैव भिन्नविषया इव प्रवर्त्तन्ते, न ते व्यावृत्ति-
व्यावृत्तयोर्वास्तवभेदनिबन्धनाः, किं तर्हि ? संकेतमेव भेदव्यवहारव्यवस्थापकं वक्ष्य-
माणनिमित्तमनुरुन्धतेऽनुवर्त्तन्ते । यदि गोरन्याऽगोव्यावृत्तिः, तदा यथा
गौरगोरश्वादेर्व्यावृत्तः, तथाऽगोव्यावृत्तेरपि व्यावृत्तः । ततश्चाश्वादिवद् गौर-
गौरैव स्यात् । यो ह्यगोव्यावृत्तेर्व्यावृत्तः सोऽगौर्यथाश्वादिर्गौश्च तथेति स्यात् ।
तथाऽगोव्यावृत्तिरपि न प्राप्नोति; सर्वस्यैवागोत्वात् । गोरगोरन्यत्वे हि तस्माद्
१-१. तद्विपक्षसमारोपविषये यदि—रा०।