सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

प्रत्यक्षपरिच्छेदः १५१
तस्यागतौ च संकेतक्रिया व्यर्था तदर्थिका ॥ १६६ ॥
शब्दोऽर्थांशं¹ कमाहेति¹ तत्रान्यापोह उच्यते ।
आकारः स च नार्थेऽस्ति तं वदन्नर्थभाक् कथम् ॥ १६७ ॥
शब्दस्यान्वयिनः कार्यमर्थेनान्वयिना स च ।
अनन्वयी धियोऽभेदाद् दर्शनाभ्यासनिर्मितः ॥ १६८ ॥
तद्रूपारोपगत्यान्यव्यावृत्ताधिगतेः पुनः ।
शब्दार्थोऽर्थः² स एवेति वचने न विरुध्यते ॥ १६९ ॥
तदकार्यव्यावृत्तस्यार्थस्य शब्दादगतौ च सत्यां संकेतक्रिया व्यर्था; यस्मात्
तदर्थिका अतत्कार्यव्यावृत्तार्थप्रतीतिफला सेष्यते ॥ १६६ ॥
एवं तर्ह्यन्यापोहेऽपि संकेते कृते प्रवृत्तिरर्थेषु न स्यात्, तस्यार्थात्मत्वाभा-
वाद् ? इत्याह—शब्दोऽर्थांशं कमाहेति प्रश्ने तत्रान्यापोहोऽतत्कार्यव्यावृत्तिः
सर्वविशेषसम्भविनो वाच्यतयोच्यते । अतोऽर्थाशात्मन्यन्यापोहे गृहीतसंकेतः
शब्दादुच्चरितार्थं प्रतीत्य तत्र प्रवर्त्तित इति युक्तम् । यस्तत्राक्षाकारः स
चार्थे नास्ति, तं बुद्ध्याकारं वदन् शब्दोऽर्थभाक् बाह्यार्थाभिधायी
कथमस्तु ! ॥ १६७ ॥
किञ्च—शब्दस्यान्वयिनोऽन्वयिनार्थेन कार्यं व्यवहारकाले प्रतीतिलक्षणं
प्रयोजनम् । स च बुद्ध्याकारः स्वलक्षणदर्शनाभ्यासेन वासनया निर्मितोऽ-
नन्वयी; धियोऽनन्वयिन्या अभेदात् ॥ १६८ ॥
ननु यद्यर्थः शब्दस्य न विषयः, तदा तदंशरूपोऽप्यन्यापोहः कथं
वाच्यः ? इत्याह—बुद्ध्याकारे तद्रूपस्यार्थाशापोहस्यारोपगत्या एकत्वाध्यव-
सायेनान्यव्यावृत्तस्यार्थस्याधिगतेः शब्दार्थाशापोहः शब्दार्थ उच्यते, न तु
सामान्याच्छब्दार्थप्रतीतेः । यदि पुनर्बुद्ध्याकारस्य व्यावृत्तार्थत्वेन प्रतीतेः
स बुद्ध्याकार एव शब्दार्थ इत्युपचारादुच्यते बुद्ध्याकारशब्दार्थवादिना,
तदैवं वचने किञ्चिदपि न विरुध्यते; बुद्ध्याकारस्यानन्वयिनः शब्दार्थत्वानिष्टेः
॥ १६९ ॥
१-१. शब्दोऽर्थांशकमाहेति—रा० । २. शब्दार्थार्थः—रा० ।

१५२ प्रमाणवार्त्तिके
मिथ्यावभासिनो वैते प्रत्ययाः शब्दनिर्मिताः ।
अनुयान्तीममर्थाशमिति चापोहकृत् श्रुतिः ॥ १७० ॥
तस्मात् संकेतकालेऽपि;
निर्दिष्टार्थेन संयुतः ।
स्वप्रतीतिफलेनान्यापोहः सम्बध्यते श्रुतौ ॥ १७१ ॥
अन्यत्रादृष्ट्यपेक्षत्वात् क्वचित्तद्दृष्ट्यपेक्षणात् ।
श्रुतौ सम्बध्यतेऽपोहो नैतद् वस्तुनि युज्यते ॥ १७२ ॥
मिथ्यावभासिनो वा शब्दनिर्मिता एते प्रत्ययाः । तथा हि—न
तावदर्थः शब्दबुद्धेर्विषयः; तत्स्वरूपानवभासतः, तत्र शब्दसंकेताभावच्च ।
नापि बुद्ध्याकारः; तस्य वेदनेऽपि विषयत्वेनानध्यवसायात्, स्वलक्षणत्वात्, संकेता-
भावाच्च । न हि बुद्ध्याकारस्य बहिष्ठं बाह्यस्य वा बुद्ध्याकारत्वमस्ति, येन तथेति
भासः सत्यप्रतिभासः स्यात् । तस्माद् वस्तुतोऽवस्तुप्रतिभासिनः शाब्दाः प्रत्ययाः ।
कथं तर्हीदानीमर्थांशापोहकृच्छ्रुतिरुक्ता ? इत्याह— इममन्यापोहमर्थांशं
शब्दा अतःप्रतिभासित्वेऽपि अनुयान्ति वृत्तिविषयत्वेन व्यवस्थापयन्ति । अर्थदर्श-
नायातत्वेन परस्परं या, तत्प्रतिबन्धनादिति चान्यापोहकृच्छ्रुतिरुक्ता¹ ॥ १७० ॥
यस्माद् व्यवहारकालेऽन्यव्यवच्छेदप्रतीतिः शब्दात्, तस्मात् संकेतकाले-
ऽप्यन्यापोहः श्रुतौ वाच्यतया सम्बध्यते, नान्यत् ।
नन्वर्थमुपदर्श्य संकेत: क्रियते, तत्कथमपोह उच्यते ? इत्याह— निर्दिष्टे-
नार्थेनान्याव्यावृत्तेन व्यवहारकाले स्वस्य प्रतीतिः फलं प्रयोजनं यस्य तेन
संयुतोऽभेदाध्यवसायादेकत्वमुपनीतोऽन्यापोहो बुद्ध्याकारस्वभावः श्रुतौ सम्ब-
ध्यते, न त्वर्थ एव ॥ १७१ ॥
तथा हि—संकेतस्यान्यत्र व्यवच्छेद्येऽवृक्षेऽदर्शनापेक्षत्वात्, क्वचि-
दन्यव्यवच्छेद्ये वृक्षैकदेशे दृष्ट्यपेक्षणात् श्रुतावपोहः सम्बध्यत इति निश्चीयते ।
वस्तुनि सामान्यादौ संकेतविषये एतत् व्यवच्छेद्याव्यवच्छेद्ययोर्दर्शनादर्शनापेक्षं
न युज्यते । वस्तुनि विधिमुखेन प्रतिपाद्ये किमन्यत्रादर्शनापेक्षया, अपेक्ष्यते च,
१. आचार्यदिङ्नागेनेति शेषः ।

प्रत्यक्षपरिच्छेदः १५३
तस्माद् जात्यादितद्योगो नार्थे तेषु च न श्रुतिः ।
संयुज्यतेऽन्यव्यावृत्तौ १ शब्दानामेव योजनात् ॥ १७३ ॥
प्रत्यक्षे शब्दकल्पनानिराकरणम्
संकेतस्मरणोपायं दृष्टसंकलनात्मकम् ।
पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥ १७४ ॥
अन्यत्रगतचित्तोऽपि चक्षुषा रूपमीक्षते ।
तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना ॥ १७५ ॥
ततोऽन्यव्यवच्छेद एव प्रतिपाद्यत इति गम्यते । अन्यव्यवच्छेदः सामान्यादिकं
चापेक्ष्यते विपक्षपरिहारेण प्रतिपत्त्यर्थमिति चेत् ? अलं तदा सामान्येन; अन्यव्य-
वच्छेदेनैव व्यवहारपरिसमाप्तेः ॥ १७२ ॥
यतश्च जातिगुणक्रियादीनि विशेषणानि वस्तुग्राहिणि ज्ञाने नाभासन्ते;
तस्माज्जात्यादयस्तेषां योगाश्चार्थे न सन्ति, अतस्तेषु श्रुतिश्च नोप-
युज्यते; अन्यव्यावृत्तावेव प्रतीतिसिद्धायां शब्दानां योजनात् ॥ १७३ ॥
तदेवं जात्यादिकल्पना तत्सम्बन्धकल्पना च नास्तीत्युक्तम् । शब्दकल्पनापि
न सम्भवति ? इत्याह-- शब्दकल्पनं हि पूर्वगृहीतस्य संकेतस्य स्मरणमुपायो
यस्य संकेतस्मरणोपायं वाचकत्वेन दृष्टस्य शब्दस्य संकलनं तथायोजनमात्मा
यस्य तत् दृष्टसंकलनात्मकं प्रसिद्धम् । तच्च पूर्वस्य संकेतकालदृष्टवाचक-
शब्दस्यापरस्य दृश्यमानार्थस्य परामर्शो वाच्यवाचकतायोजनम्, तेन शून्या
शब्दामिश्रवस्तुस्वरूपग्राहिणि चाक्षुषे ज्ञाने कथं सम्भाव्यते । चाक्षुषं चाक्षज-
मात्रोपलक्षणमिन्द्रियज्ञानमित्यर्थः ॥ १७४ ॥
किञ्च--दृश्यमानादर्थादन्यत्रातीतादौ विकल्पनीये गतचित्तः प्रवृत्तवि-
कल्पोऽपि द्रष्टा चक्षुषा चक्षुर्विज्ञानेन रूपमीक्षते । तस्य दृश्यमानार्थस्य
संकेत: संकेतविषयो वाचकं नाम, तस्याग्रहोऽस्मरणं तत्र चाक्षुषे ज्ञाने
स्पष्टः । ततस्तज्जा वाचकनामस्मरणप्रभवा कल्पना च चाक्षुषे ज्ञाने
नास्तीति शेषः ॥ १७५ ॥
१. संयोज्यते--रा० । सम्बध्यते--पाठा० ।

१५४ प्रमाणवार्त्तिके
जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः ।
तेनेच्छात्तः प्रवर्त्तेरन् नेक्षेरन् बाह्यमक्षजाः ॥ १७६ ॥
रूपं रूपमितीक्षेत तद्धियं किमितीक्षते ।
अस्ति चानुभवस्तस्याः सोऽविकल्पः कथं भवेत् ॥ १७७ ॥
तयैवानुभवे दृष्टं न विकल्पद्वयं सकृत् ।
एतेन तुल्यकालान्यविज्ञानानुभवो गतः ॥ १७८ ॥
स्मृतिर्भवेदतीते च साऽगृहीते कथं भवेत् ।
स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः ॥ १७९ ॥
किञ्च—तत्र विषये शब्दयोजनात्मिकाः कल्पना जायन्ते, यत्र
संकेतकाले शब्दो निवेशितः । न चेन्द्रियविषये शब्दसंकेत इति न तत् ज्ञानं
शब्दयोजनात्मकं प्राक् , अथेन्द्रियविषय एव शब्दनिवेशः, तदा तेन शब्द-
विषयत्वेन कारणेनेच्छात्तः प्रवर्त्तेरनक्षजाः प्रत्ययाविकल्पवत्, न चैतदस्ति;
इच्छाप्रभवत्वे वा बाह्यार्थसन्निधानानपेक्षत्वात्, बाह्यमर्थं नेक्षेरन्नक्षजाः,
प्रत्ययविकल्पवत् ॥ १७६ ॥
अपि च—सर्वविकल्पवादिनो मते रूपमिति प्रवृत्तविकल्पबुद्धौ रूपमी-
क्षेत, तद्धियं रूपधियमपि कल्प्यमानां किमितीक्षते ज्ञाता ! रूपबुद्ध्यनुभवो
नास्तीति न युक्तम्; यस्मादस्ति चानुभवस्तस्याः सर्वेषां प्रतिपत्तॄणाम् ।
न च रूप इव तद्बुद्धावपि कल्पनाऽनुभूयते । ततश्च रूपबुद्धेरनुभवोऽविकल्पः
कथं भवेत् ॥ १७७ ॥
तयैव रूपबुद्ध्या रूपस्य स्वात्मनश्चानुभवेऽभ्युपगम्यमाने—रूपमिति,
रूपानुभव इति च विकल्पद्वयं सकृत् स्यात्, तच्च नास्ति; अनुभवबाधितत्वात् ।
एतेन सकृत्कल्पनाद्वयनिषेधेन तुल्यकालेनान्येन निर्विकल्पज्ञानेनानुभवो
रूपबुद्धेर्गतो निर्णीतोत्तरो बोद्धव्यः ॥ १७८ ॥
उत्तरकालभाविना विकल्पज्ञानेनानुभव इति चेद् ? आह--अतीते च
रूपानुभवे स्मृतिः पश्चात्तनेन विकल्पेन न भवेन्नानुभवः । सा स्मृतिरगृहीते-
ऽनुभवे कथं भवेत् ! यदि चातीतबुद्धिर्विकल्प्यते, तदाऽन्यस्य पुंसो धियः

प्रत्यक्षपरिच्छेदः १५५
अतीतमपदृष्टान्तमलिङ्गं चार्थवेदनम् ।
सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥ १८० ॥
तत्स्वरूपावभासिन्या बुद्ध्यानन्तरया यदि ।
रूपादिरिव गृह्येत;
न स्यात् तत्पूर्वधीग्रहः ॥ १८१ ॥
सोऽविकल्पः स्वविषयो विज्ञानानुभवो यथा ।
परिच्छेदेन परोक्षबुद्धिविकल्पात्मकेनाभिन्नरूपा तथात्वेन स्वबुद्धिधीः
स्यात् । अस्ति च परबुद्धिप्रतीतिविलक्षणस्वबुद्ध्यनुभवः । तस्मादविकल्प
एवासौ ॥ १७९ ॥
किञ्च--सविकल्पकप्रत्यक्षवादिना निर्विकल्पस्याप्यस्वसंवेदनवादिनो १
मतेऽतीतमर्थवेदनं न केवलमध्यक्षतो वर्तमानविषयत्वान्न सिध्यति,
किन्त्वनुमानादपि; यस्मादलिङ्गं लिङ्गरहितम् । तथा हि--धर्मिणो ज्ञानस्यासि-
द्धत्वात् लिङ्गमाश्रयासिद्धम् । अनुमानात् ज्ञानसिद्धिवादिनः कस्यचिज्ज्ञानस्या-
ध्यक्षासिद्धत्वात् अनुमानसिद्धावनवस्थानाद् अपदृष्टान्तम् । दृष्टान्तासिद्धौ न व्याप्ति-
सिद्धिरिति लिङ्गरहितमेवातीतं रूपादिदर्शनम् । तत् तस्मात् केन प्रमाणेन सिद्धम् !
तस्मिन् हि रूपादिदर्शने न प्रत्यक्षमभिमतत्वादस्ति । न च लैङ्गिकमनुमान-
मुक्तक्रमादिति सकलमप्रतिपत्तिकमन्धमूकं जगत् प्राप्तमिति ॥ १८० ॥
अथ तत्स्वरूपावभासिन्याऽतीतरूपादिबुद्धिरूपप्रतिभासिन्या तज्जन्यया-
ऽनन्तरया २ धियाऽतीतबुद्धिर्यदि गृह्यते सौत्रान्तिकमते रूपादिरिव तदनु-
कारिण्या तदनन्तरया धिया, तदा को दोषः ? इत्याह--यदा चिरं बहुषु विषयेषु
ज्ञानानि प्रवर्त्तन्ते, तदा तस्मादन्त्यात् ज्ञानात् याः पूर्वाः धियस्तासां ग्रहो न
स्यादिति दोषः । अन्त्यबुद्धिजनितया हि धिया सैव गृह्यते, न त्वन्या इति
स्यात् । अस्ति चानुभवस्तासाम्, यद्बलेन 'चिरमहमद्राक्षम्' इति भवति द्रष्टुः ।
तस्मात् स्वविषयः स्वरूपालम्बनतो विज्ञानानां पूर्वभाविनामनुभवोऽविकल्पः,
१. वैशेषिकस्येति शेषः ।
२. ऽनन्तया--रा० ।

१५६ प्रमाणवार्त्तिके
अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥ १८२ ॥
सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना ।
अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ १८३ ॥
अस्ति चेन्निर्विकल्पं च किञ्चित् तत्तुल्यहेतुकम् ।
सर्वं तथैव हेतोर्हि भेदाद् भेदः फलात्मनाम् ॥ १८४ ॥
अनपेक्षितबाह्यार्था योजना समयस्मृतेः ।
तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः ॥ १८५ ॥
संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि ।
स यथा, तद्वदन्यदपि ज्ञानमन्त्यमप्रतिबद्धवृत्ति चाविकल्पकं बोद्धव्यम् ।
यस्मात् सकलमेव स्वरूपमशक्यसमयं शब्दसंकेताविषयः, ततश्च न विकल्प-
ग्राह्यम् ॥ १८१-१८२ ॥
किञ्च—विशेषसंकेताभावात् व्यवहारकालानुयायित्वाच्च सामान्यवाचिनः
शब्दाः, तैः शब्दैरेकार्था एकविषया च कल्पना शब्दयोजनया शब्दार्थ एव
कल्पना । परमते च निर्विकल्पस्य ज्ञानस्याभावे विशेषस्य विकल्पाविषयस्या-
धिगमः कथम्, न कथञ्चिदित्यर्थः । विशेषानुभवदर्शनादस्ति किञ्चिन्निर्विकल्पं
च ज्ञानं यथाहुर्मीमांसकादय इति चेत् ? एवं तर्हि तेन निर्विकल्पेन तुल्य-
हेतुकं चक्षूरूपमनस्कारादिसमानहेतुकं विशेषविषयं सर्वं ज्ञानं तथैवाविकल्पक-
मस्तु, न तु स्वलक्षणविषयमपि किञ्चित् सविकल्पकम्; हि यस्माद्धेतोर्भेदात्
फलात्मनां भेदो भवति । हेत्वभेदे तु फलाभैद एव युक्तः, नान्यथा क्वचि-
दप्येकजातीयता स्यात् ॥ १८३-१८४ ॥
किञ्च—योजना कल्पनाऽनपेक्षितबाह्यार्था बहिरर्थसंकेतविषयमनपेक्ष्यैव
समयस्य प्राग्गृहीतस्य स्मृतेः सकाशाद् भवति तावत् । तथा समयमनपेक्ष्य
वस्तुनः स्वलक्षणस्य शक्त्या स्वाकारानुकारिविज्ञानजननसामर्थ्येनैव नेत्रधी-
र्जायते यदि, तदा को विरोधः ॥ १८५ ॥
स्यादेतद् । रूपमक्षचेतसि कर्तव्ये संकेतस्मरणापेक्षं तदनपेक्षं पुनर्ना-

प्रत्यक्षपरिच्छेदः १५७
अनपेक्ष्य न चेच्छक्तं स्यात् स्मृतावेव लिंगवत् ॥ १८६ ॥
तस्यास्तत्सङ्गमोत्पत्तेरक्षधीः स्यात् स्मृतेर्न वा ।
ततः कालान्तरेऽपि स्यात् कचिद् व्याक्षेपसम्भवात् ॥ १८७ ॥
क्रमेणोभयहेतुश्चेत् प्रागेव स्यादभेदतः ।
अन्योऽक्षबुद्धिहेतुश्चेत् स्मृतिस्तत्राप्यनर्थिका ॥ १८८ ॥
यथासमितसिद्धयर्थमिष्यते समयस्मृतिः ।
भेदश्चासमितो ग्राह्यः स्मृतिस्तत्र किमर्थिका ! ॥ १८९ ॥
शक्तमिति ? एवं तर्हि श्रुतावेव रूपं शक्तमिति स्यात्, न त्विन्द्रियबुद्धौ; लिङ्गवत् ।
यथा हि लिङ्गं न लिङ्गबुद्धौ साक्षाच्छक्तम्, किन्तु लिङ्गलिङ्गिनोः सम्बन्धि-
स्मृतावेव, तथा संकेतस्मरणे रूपं निमित्तं स्यात् । न चागृहीतं स्मृतिप्रति-
बोधकमिति निर्विकल्पकमस्य ग्रहणं प्राक्, ततः स्मृतिः, ततश्च योजनेति
क्रमः ॥ १८६ ॥
कथं पुनरर्थसम्मुखीभावात् स्मृतिजन्म ? इत्याह-तस्याः स्मृतेस्तस्यार्थस्य
सङ्गमनेन सम्मुखीभावेनोत्पत्तेः । न त्वक्षधीरर्थात् स्यात् । सा तु स्मृतेरर्थ-
जनितायाः स्यात्, न वा स्मृतेरपि भवेत् । स्मृत्यधीनतायां नार्थाधीनता । यच्च
स्मरणं भावि, तन्नावश्यं भवतीति कदाचिन्न भवेदपि । ततः स्मृतेः कालान्त-
रेणापि स्यादध्यक्षधीः स्मृत्यनन्तरं क्वचिद् विषयान्तरे व्याक्षेपस्याशक्ति-
लक्षणस्य सम्भवात् । तन्निवृत्तौ सत्यां क्रमेण भवेत् ॥ १८७ ॥
स्यादेतत् । प्रथममभिमुखीभवन्नर्थः स्मृतेर्हेतुः, तत इन्द्रियज्ञानस्येति क्रमे-
णोभयहेतुरभिमतश्चेत् ? यद्येवम्, पूर्वापरैकस्वभावसामर्थ्यस्य भावस्याभेदत-
स्तज्जन्यं द्वयमपि प्रागेव स्यात्, न क्रमशः ।
स्यादेतद् । भावानां क्षणिकत्वाच्चान्यः स्मृतिप्रबोधकः क्षणोऽन्यश्चाक्ष-
बुद्धेर्हेतुश्चेत् ? तत्राद्येऽपि क्षणे वाचकशब्दस्मृतिरनर्थिका; यस्माद् यथा-
समितस्य शब्दवाच्यतयाऽर्थस्य सिद्धयर्थं समयस्मृतिरिष्यते । भेदो
विशेषोऽसमितः संकेताविषयश्चाक्षधिया ग्राह्यः । तत्र स्मृतिः समयस्य किम-
र्थिका निष्प्रयोजना ॥ १८८-१८९ ॥

१५८ प्रमाणवार्त्तिके
सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते ।
तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधीः ॥ १९० ॥
साक्षाच्च$^१$ ज्ञानजनने समर्थो विषयोऽक्षवत् ।
प्रत्यक्षभेदाः
१. इन्द्रियप्रत्यक्षम्
अथ कस्माद् द्वयाधीनजन्म तत् तेन नोच्यते ॥ १९१ ॥
समीक्ष्य गमकत्वं हि व्यपदेशो नियुज्यते$^२$ ।
तच्चाक्षव्यपदेशेऽस्ति तद्धर्मश्च नियोज्यताम् ॥ १९२ ॥
सामान्ये कालान्तरानुवर्त्तिनि संकेत: स एव स्मर्येत इति चेद् ? आह—
न; सामान्यमात्रस्य ग्रहणेऽभ्युपगम्यमाने भेदस्य विशेषस्य संकेतविषयस्या-
पेक्षा न युज्यते, यथा—गौरित्युक्ते 'कीदृशो गौ:' इति । तस्मात् सामान्यवति
विशेषे संकेत:; तेनैवार्थित्वाद् व्यवहारिणाम् । तथा च “भेदश्चासमितो ग्राह्य:”
(प्र० वा० २.१८९) इत्युक्तम् । तस्माच्चक्षुश्च रूपञ्च प्रतीत्यासायोदेति
नेत्रधीरित्यभ्युपगन्तव्यम् ॥ १९० ॥
व्यवधानेनापि रूपकारणता स्यादिति चेत् ? आह—साक्षाच्च विषयो
रूपादिः स्वग्राहकज्ञानजनने समर्थोऽक्षवत्, न व्यवधानेन; स्मृत्यधीनतायां
दोषस्योक्तत्वात् । तस्मादशब्दसंसृष्टार्थबलभावितद्रूपानुकारि प्रत्यक्षमनाविष्टाभिलाप-
मविकल्पकमेव युक्तम् ।
अथ द्वयाधीनजन्मविषयेन्द्रियोत्पत्तितदिन्द्रियज्ञानमिन्द्रियेणोच्यते व्यप-
दिश्यते प्रत्यक्षमिति—प्रतिगतमक्षं प्रत्यक्षम्, इन्द्रियाश्रितमित्यर्थः; कस्मात्
पुनर्विषयेण नोच्यते प्रतिविषयमिति ? ॥ १९१ ॥
न खलु व्यसनितया व्यपदेशो नियुज्यते, अपि तु गमकत्वं समीक्ष्य
परिभाव्य । तच्च गमकत्वमक्षेण व्यपदेशे प्रत्यक्षमित्यत्रास्ति । तस्य गमकत्वस्य
व्यापकस्य धर्मो व्याप्यभूतो नियोज्यताम् ॥ १९२ ॥
१. साक्षाच्चेत्—रा० । २. न गृह्यते—रा० ।

प्रत्यक्षपरिच्छेदः १५९
ततो लिंगस्वभावोऽत्र व्यपदेशे नियोज्यताम् ।
निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः ॥ १९३ ॥
सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः ।
सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते ? ॥ १९४ ॥
अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे ।
उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ १९५ ॥
अणूनां स विशेषश्च नान्तरेणापरानणून् ।
तदेकानियमाज्ज्ञानमुक्तं सामान्यगोचरम् ॥ १९६ ॥
ततो व्यापकाभावात् व्यपदेशे धर्मिणि अत्र गमकत्वे साध्ये नियोज्यतां
लिङ्गम् । प्रतिविषयमिति व्यपदेशात् व्यापकस्य गमकत्वस्य निवृत्तितो
निवर्त्तते नियोज्यतेति व्यापकानुपलब्ध्या तत्र नियोज्यत्वाभावः सिद्धः ॥१९३॥
ननु ‘सञ्चितालम्बनाः पञ्च विज्ञानकायाः’ इति सिद्धान्तः । “तत्रानेकार्थ-
जन्यत्वात् स्वार्थे सामान्यगोचरम्” ( प्र० समु० १.४ ) इति चोक्तम् । तथा च
परमाणूनां समुदायः सञ्चित इत्युच्यते । स एव च सामान्यं मतः । तत्र
च सामान्येऽक्षधीर्जायते । सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते अनु-
सीव्यते, तत् कथमविकल्पं प्रत्यक्षमुच्यते ? ॥ १९४ ॥
अत्राह—अर्थान्तराणां परमाण्वन्तराणामभिसम्बन्धात् सन्निधानविशे-
षेणोपसर्पणप्रत्ययेभ्यः पूर्वकेभ्यः परमसन्निहितेभ्योऽपरेऽन्ये येऽणवो जायन्ते
ते सञ्चिता उक्ताः “सञ्चितालम्बना विज्ञानकायाः” इत्यादौ । ज्ञानजन्मनस्त
एव हि निमित्तमुक्ताः “तत्रानेकार्थजन्यत्वात्” इत्यादिना ॥ १९५ ॥
अणूनां स च ज्ञानजननसामर्थ्यलक्षणो विशेषोऽपरानणून्यवधान-
वर्त्तिनोऽन्तरेण विना न भवति । न हि प्रत्येकमणवो दृश्याः, किन्तु सहिता
एव । तत् तस्मादेकस्मिन्नर्थे परमाणौ ज्ञानस्यानियमात् सामान्यगोचरं
सञ्चितपरमाणुसंघातविषयं ज्ञानमुक्तं तत्त्ववादिना, न तु परमाण्वतिरिक्त-
सामान्यविषयम्, तत् कथं सामान्यविषयत्वात् सविकल्पत्वप्रसङ्गः ॥ १९६ ॥

अथैकायतनत्वेऽपि नानेकं दृश्यते सकृत् ।
सकृद्ग्रहावभासः किं वियुक्तेषु तिलादिषु ॥ १९७ ॥
प्रत्युक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु ।
किं नाक्रमग्रहस्तुल्यकालाः सर्वाश्च बुद्धयः ॥ १९८ ॥
काश्चित् तास्वक्रमाभासाः क्रमवत्योऽपराश्च किम् ।
सर्वार्थग्रहणे तस्मादक्रमोऽयं प्रसज्यते ॥ १९९ ॥
नैकं चित्रपतंगादि रूपं वा दृश्यते कथम् ।
चित्रं तदेकमिति चेदिदं चित्रतरं ततः ॥ २०० ॥
अथ एकेन्द्रियज्ञानजनकत्वात् नीलपीतादीनामेकायतनत्वे रूपायतनत्व-
संग्रहेऽपि नानेकं नीलादि सकृद् दृश्यते, किन्तु क्रमेण; तत् कथमणूनां
बहूनामेकदा ग्रहणम् ? अत्रोच्यते—यदि नानेकमेकदा गृह्यते, तदा तिला-
दिषु वियुक्तेषु विभिन्नदेशेषु सकृद्ग्रहावभासो युगपद्ग्रहणानुभवः किं
कस्माद्धेतोः ! ॥ १९७ ॥
ज्ञानानां लघुवृत्तित्वात् सकृद्ग्रहणभ्रमश्चेत् ? आह—प्रत्युक्तं प्रतिक्षिप्तं
चात्र सकृद्ग्रहावभासे लाघवं बुद्धीनाम्—“अन्यत्रापि समानं तद् वर्णयोर्वा
सकृच्छ्रुतिः” ( प्र० वा० २. १३५ ) इत्यादिना । तथाप्युच्यते—तेष्वेव
तिलादिषु हस्तादिभ्यः क्रमपातिषु किं कस्मान्नाक्रमग्रहणं भवति । सर्वाश्च
बुद्धयः सहावस्थितेषु सम्भवन्त्यस्तुल्यकालाः ॥ १९८ ॥
ततः तासु काश्चिदक्रमाभासाः१ सहस्थितवस्तुविषयाः१, अपराश्च
बुद्धयः क्रमवत्योऽयुगपत्प्रतिभासाः किं भवन्ति याः क्रमपातिवस्तुविषयाः,
अस्ति चायं भेदः, तस्मात् सर्वस्यार्थस्य क्रमिणोऽक्रमिणश्च ग्रहणेऽक्रमोऽयं
लाघवाविशेषात् प्रसज्यते ॥ १९९ ॥
किञ्च—चित्रपतङ्गादि नैकमनेकं नीलादिरूपं वा दृश्यते कथम् , यदि
नानेकमेकेन गृह्यते । चित्रं नीलपीताद्यात्मकं तत् पतङ्गादिकमेकमिति चेत् ? इदं
चित्रमेकं यदुच्यते तत् ततश्चित्रपतङ्गादपि चित्रतरमाश्चर्यतरम् । चित्रमिति
नानारूपाणि, तदेव पुनरेकमुच्यत इत्युपहसति ॥ २०० ॥
१-१. ०दक्रमाभासायाः सहस्थितवस्तुविषयायाः—रा० ।

प्रत्यक्षपरिच्छेदः १६१
नैकं स्वभावं चित्रं हि मणिरूपं यथैव तत् ।
नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु ॥ २०१ ॥
तत्रावयवरूपं चेत् केवलं दृश्यते तथा ।
नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे ॥ २०२ ॥
तुल्यार्थाकारकालत्वेनोपलक्षितयोर्द्वयोः ।
नानार्था क्रमवत्येका किमेकार्थाऽक्रमापरा ॥ २०३ ॥
वैश्वरूप्याद् धियामेव भावानां विश्वरूपता ।
तथा च चित्रमनेकरूपं हि यस्मात्, तस्मान्नैकं पतङ्गादि । यथैव संस्थान-
विशेषेण संनिविष्टानां बहूनां मणीनां रूपं तच्चित्रमनेकं नैकमवयवि द्रव्यम्;
विजातीयानां द्रव्याणारम्भाद् ।
चित्रबुद्धिरेकत्वान्मुख्या पतङ्गे, मणिरूपादिषु पुनरुपचरितेति चेत् ?
आह—नीलादिप्रतिभासश्चित्रप्रतिभासः स चित्रपट आदिर्येषां मणिरूपादीनां
तेषु, चित्रपतङ्गे च तुल्यः, न त्वग्निमाणवकयोर्दहनबुद्धिरिव स्खलदस्खलद्-
वृत्तिर्लक्ष्यते ॥ २०१ ॥
तत्र चित्रपटादिषु केवलमवयवरूपं तथा चित्रतया दृश्यते, नावयवी; विजा-
तीयानां द्रव्याणारम्भादिति चेत् ? चित्रपतङ्गादावपि नीलादीनि निरस्य पृथक्-
कृत्य तेभ्योऽन्यच्चित्रमवयविरूपं यदीक्षसे त्वम्, तच्चित्रमाश्चर्यम्, स्वसिद्धान्ता-
नुरागभेषजविशोधितचक्षुरीक्षसे त्वमेव यदीदृशमवयविनम्; परं नात्रान्येषा-
मधिकारः ॥ २०२ ॥
अपि च—तुल्यार्थाकारत्वेन तुल्यकालत्वेन चोपलक्षितयोः कृत्रिमा-
कृत्रिमपतङ्गविशेषणयोर्द्वयोर्मध्ये एका कृत्रिमपतङ्गविषया धीर्नानार्था, विजाती-
यात्मकद्रव्याणारम्भात् । क्रमवती च; नीलानां बहूनां क्रमेण ग्रहणात् । अपरा
अकृत्रिमपतङ्गविषया एकार्थायविविषया, अत एवाक्रमा च किं कस्मादिष्यते !
द्वयोरपि समानता युक्ता; निमित्तस्य साम्यात् ॥ २०३ ॥
किञ्च—धियामेव वैश्वरूप्याद् नानाकारत्वाद् भावानां ग्राह्याणां
विश्वरूपता व्यवस्थाप्यते । चित्रस्यावयविन एकतास्वीकारे तद्बुद्धिषु प्रतिभास-
प्र० वा० : ११

'?
Wait, let's look at the letter:
थ + ै = र्थै?
Wait, look at 'तस्मात्': त - स्मा - त्.
Before it: भ - वेत्.
Before it:
ना - ना - र्थे - का or ना - ना - र्था - का or ना - ना - र्थै - का?
Wait! Look at the top stroke above that vertical line:
There is an 'े' slanting left towards the repha!
Wait! An 'े' slanting left, PLUS the vertical line: that's an 'ो'? No!
Wait, is it "नानार्थैका"?
Look at 'चित्रा' vs 'नानार्थैका':
Wait, in some fonts, 'ै' is written as one stroke above and one prishthamatra? No.
Wait, could it simply be a misprint in the book: "नानार्थैका" where the two slanting strokes didn't print well, or did it print "नानार्थाका"?
Wait, look at the text:
It literally looks like:
ना - ना - र्था - का !
Wait, let me look at the dot above:
Wait, above 'र्था', there is a repha.
Above the vertical line of 'र्था', is there a slant?
Wait, let me zoom in 500%:
Let's inspect line 7:
न + ा = ना
न + ा

प्रत्यक्षपरिच्छेदः १६३
चित्रैकत्वविचारः
चित्रावभासेष्वर्थेषु यद्येकत्वं न युज्यते ।
सैव तावत् कथं बुद्धिरेका चित्रावभासिनी ॥ २०८ ॥
इदं वस्तुबलायातं यद् वदन्ति विपश्चितः ।
यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते¹ तथा तथा ॥ २०९ ॥
किं स्यात् सा चित्रतैकस्याम्;
न स्यात् तस्यां मतावपि ।
यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥ २१० ॥
ननु चित्रं नानाकारोऽवभासो येषां पत्त्रादीनां तेष्वर्थेष्वेकत्वं न
युज्यते, यदि सैव चित्रार्थग्राहिणी बुद्धिश्चित्रावभासिनी चित्राकारा कथ-
मेका सम्मता ! यथा चित्रत्वेऽपि बुद्धिरेका, तथा कार्यद्रव्यञ्चैकं स्यात् ? ॥२०८॥
अत्राह—इदं वस्तुनोऽव्यभिचारि लिङ्गस्य बलादायातं यद् वदन्ति
विपश्चितो बुद्धा भगवन्तः ।
[L15

१६४ प्रमाणवार्त्तिके
तस्मान्नार्थेषु न ज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न सम्भवः ॥ २११ ॥
परिच्छेदोऽन्तरन्योऽयं भागो बहिरिव स्थितः ।
ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ह्युपप्लवः ॥ २१२ ॥
तत्रैकस्याप्यभावेन द्वयमप्यवहीयते ।
तस्मात् तदेव तस्यापि तत्त्वं या द्वयशून्यता ॥ २१३ ॥
तद्भेदाश्रयिणी चेयं भावानां भेदसंस्थितिः ।
तदुपप्लवभावे च तेषां भेदोऽप्युपप्लवः ॥ २१४ ॥
तस्मान्नार्थेषु बाह्येषु न ज्ञाने तद्ग्राहके स्थूलाभासः स्थूल आकारः
सङ्गच्छते । तदात्मनः स्थूलस्वरूपस्यैकत्रावयवे परमाणौ वा प्रतिषिद्धत्वात् ।
बहुष्वपि तेषु सम्भवो नास्ति, मिलिता अपि हि त एव । ते च प्रत्येकं
स्थौल्यविकला इति समुदिता अपि तथैव स्युः । तथा नीलाद्याकारेषु प्रत्येकं
चित्रस्य स्थौल्यस्याभावात् समुदायेऽप्यभावः ॥ २११ ॥
ननु सुखाद्यात्मकं स्वप्रकाशं विज्ञानमेकमिदमिति योगाचारमतमव्याहतम् ?
इत्याह—परिच्छेदो ग्राहकाकारः सुखादेरन्तर्बहिर्देशे परिच्छेदादन्योऽयं भागो
ग्राह्यो नीलादिर्बहिःस्थित इवाभाति सर्वेषाम्; हि यस्मात् ज्ञानस्याभेदिनौ
भिन्नावाकारौ तत्त्वतो न युक्तौ । तस्मादन्तर्बहिर्देशसम्बन्धतया प्रतिभास
उपप्लवः, न सत्यः ॥ २१२ ॥
तत्र एकज्ञानात्मनि विरुद्धं द्वयं न युक्तमित्येकस्य ग्राह्यत्वस्य ग्राहकत्वस्य
वावश्याभ्युपगन्तव्येनाभावेन द्वयमप्यवहीयते; अन्योन्यसापेक्षयोरेकाभावेऽ-
पराभावस्य न्यायप्राप्तत्वात् । तस्मात् तस्य ज्ञानस्यापि तत्त्वं तदेव या द्वयेन
ग्राह्यग्राहकाकारेण शून्यता नाम ॥ २१३ ॥
इयं च भावानां रूपवेदनादीनां भेदसंस्थितिः तस्य ग्राह्यग्राहकस्य
भेदः स आश्रयो यस्याः सा तथा । तस्य ग्राह्यग्राहकभावस्य भेदव्यवस्था-
निबन्धनस्योपप्लवभावे मिथ्यात्वे च तेषां रूपादीनां भेदोऽपि तद्व्यवस्थापित
उपप्लवः ॥ २१४ ॥

प्रत्यक्षपरिच्छेदः १६५
न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् ।
अतो लक्षणशून्यत्वान्निःस्वभावाः प्रकाशिताः ॥ २१५ ॥
व्यापारोपाधिकं सर्वं स्कन्धादीनां विशेषतः ।
लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणाः ॥ २१६ ॥
यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् ।
विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥ २१७ ॥
न केवलं रूपादीनां भेदाभेदावुपप्लवः, लक्षणशून्यत्वान्निःस्वभावत्वम-
पीत्याह—रूपादीनां ग्राह्यग्राहकाकाराभ्यां बाह्यं भिन्नं लक्षणं न चास्ति ।
तथा हि—विषयतया किञ्चिन्निर्द्दिश्यते, यथा रूप्यत इति कृत्वा रूपम् । किञ्चिद्
विषयितया, विजानातीत्यादि व्युत्पत्त्या, यथा रूपिणः स्कन्धाः । न त्वेतद्वय-
तिरिक्तं किञ्चिल्लक्षणमस्ति । अतो लक्षणेन ग्राह्यग्राहकत्वेन शून्यत्वान्निः-
स्वभावाः सर्वधर्माः प्रकाशिता भगवद्भिर्बुद्धैः ॥ २१५ ॥
किञ्च बहिरर्थवादेऽपि लक्षणशून्यत्वात् निःस्वभावतां धर्माणामारख्यातुमाह—
स्कन्ध आदिर्येषां धात्वायतनानां तेषां यल्लक्षणम्— राशीभवन्तीति राश्यर्थः
स्कन्धानाम् , कार्योत्पादकत्वेनाकारार्थो धातूनाम् आयं तन्वन्तीत्यायद्वारार्थ आय-
तनानाम् , तत्सर्वं लक्षणं व्यापारोपाधिकं व्यापारविशेषणम् । स च व्यापारो-
ऽप्रतीतेर्भेदपक्षे न तत्त्वम् । अभेदेऽपि प्रागभावो भाव एव स्यात् । स च
तत्त्वं न भवति; “अशक्तं सर्वमिति चेत्” ( प्र० वा० २.४ ) इत्यत्रोक्त-
क्रमात् । तेन व्यापारोपाधिकलक्षणायोगेनापि विलक्षणा निःस्वभावा एते
स्कन्धादयः ॥ २१६ ॥
कथं तर्हि बाह्यस्कन्धादिदेशना भगवताम् ? इत्याह—अनाद्यविद्योपप्लु-
तात्मनामप्रहीणाक्लिष्टज्ञानानां पुंसां यथास्वं यस्य भ्रमस्य य आत्मीयः प्रत्ययो
यथास्वम्प्रत्ययस्तस्यापेक्षणमपेक्षः, तस्माद् वितथौ ग्राह्यग्राहकाकारौ यस्याः
सा तादृशी विज्ञप्तिर्जायते । तिमिरादिवत् तिमिरादाविव, वितथाकारचन्द्र-
द्वयादिविज्ञप्तिः ॥ २१७ ॥

१६६ प्रमाणवार्त्तिके
असंविदिततत्त्वा च सा सर्वापरदर्शनैः ।
असम्भवाद् विना तेषां ग्राह्यग्राहकविप्लवैः ॥ २१८ ॥
तदुपेक्षिततत्त्वार्थैः कृत्वा गजनिमीलनम् ।
केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते ॥ २१९ ॥
नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनः;
तं हि पतत्यर्थे विवेचयन् ॥ २२० ॥
सा च विज्ञप्तिः सर्वैरपरदर्शनैरनुत्कृष्टदर्शनैरसंविदिता द्वयशून्यता तत्त्वं
यस्याः साऽसंविदिततत्त्वा ।
कस्माद् ? इत्याह—ग्राह्यग्राहकविप्लवैर्विना तेषामपरदर्शनानां विज्ञप्तेर-
सम्भवात् । ग्राह्यग्राहकोपप्लुतदर्शनत्वमेव चानुत्कृष्टदर्शनत्वम् ॥ २१८ ॥
तद् आन्तदर्शनानुरोधादुपेक्षिततत्त्वार्थैरवधारिततद्द्वयविवेकैर्भगवद्भिर्बुद्धै-
र्गजनिमीलनं कृत्वा गजस्येव पार्श्वद्वयं पश्यतोऽपि नयननिमीलनकलया
तत्त्वमपश्यन्तमिवात्मानं दर्शयद्भिर्लोकस्याविद्योपहतस्य बुद्ध्या द्वयग्राहिण्या
बाह्यस्य चिन्ता स्कन्धायतनादित्वेन प्रतन्यते । स्कन्धादिदेशनया हि लोक-
बुद्ध्यनुरोधप्रवर्त्तितपाषण्डग्राहनिवृत्तौ मुख्याया यत्र १ मुमुक्षवोऽवतार्यन्त इति
देशनाक्रमः ॥ २१९ ॥
अथ वा—चित्रत्वेऽपि बाह्यमेकं न युक्तम्, बुद्धिरस्तु चित्राप्येकैवेति दर्श-
यितुमाह—नीलादिश्चित्रे ज्ञाने ज्ञानोपाधिरनुभवस्यात्मभूतः अनन्यभाक्
आकारान्तरासहचरः केवल इत्यर्थः । तादृशोऽशक्यदर्शनः सहैवाकारान्तरवेदन-
नियमात् । न हि चित्रे विज्ञाने समुत्पन्ने नीलं निरस्य पीतं शक्यदर्शनम् ।
तस्मादशक्यविवेचनत्वं तुल्ययोगक्षेमत्वं सहप्रतिभासनियतत्वं ज्ञानात्मनां नीलादीना-
मेकत्वम् । बाह्यात्मनां तु नैतत् सम्भवति; एकं पिधायापि द्रष्टुमन्यस्य शक्यत्वात् ।
ननु ज्ञानाकारोऽपि नीलः पीतानुभवकाले यदा नानुभूयते, तदा शक्य-
विवेचन एव ? इत्याह—तमनुभूयमानात् पीतात् विवेचयन् भेदेन व्यवस्थापयन्
१. येषु—रा० ।

प्रत्यक्षपरिच्छेदः १६७
यद् यथा भासते ज्ञानं तत् तथैव प्रकाशते ।
इति नामैकभावः स्याच्चित्राकारस्य चेतसि¹ ॥ २२१ ॥
पटादिरूपस्यैकत्वे तथा स्यादविवेकिता ।
विवेकीनि निरस्यान्यदा विवेकि च नेक्षते² ॥ २२२ ॥
को वा विरोधो बहवः सञ्जातातिशयाः पृथक्³ ।
भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत् ॥ २२३ ॥
प्रमाता अर्थ एव नीले पतति विवेचकत्वेन । परोक्षं तदा नीलमर्थ एव ।
अपरोक्षतैव तु ज्ञानस्वभावः । अतो यद् विविच्यते तद्ज्ञानम् । यज्ज्ञानं तन्न
विवेच्यत एव ॥ २२० ॥
तस्माद् यज्ज्ञानं यथा नीलाद्यात्मतया जातं सत् यथा भासते प्रका-
शते, भासमानस्वभावत्वात् ज्ञानं तथा तेनैव स्वरूपेणानुभूयते सर्वैः प्रति-
पत्तृभिः । न चोत्पन्नस्यापि ज्ञानस्य स्वप्रकाशकस्याविदितः कश्चिदाकारोऽस्ति
इत्यशक्यविवेचनत्वात् तुल्ययोगक्षेमत्वात् सहप्रतिभासनियमात् चित्रस्य
नीलपीताद्याकारस्य चेतसि बुद्धावेकभावो नाम भवेत् तदा को
दोषः ! ॥ २२१ ॥
ज्ञानवत पटादिरूपस्य एकत्वेऽभ्युपगम्यमाने तथा ज्ञानस्येवाविवेकिता-
ऽशक्यविवेचनत्वं स्यात् , न चास्ति; नीलादीनां ग्रहणाग्रहणभेदस्य दर्शनात् ।
स्यादेतद् । अवयवा नीलाद्याः परस्परतोऽवयविनश्च भिन्नाः, तेषां
भेदाद् विवेकेन ग्रहणम्; यस्त्वभिन्नोऽवयवी न तस्य विवेकेन ग्रहणम् ?
इत्याह—विवेकीनि नीलाद्यवयवरूपाणि निरस्य पृथक् कृत्वा अन्यदा
विवेकिरूपं च नेक्षते । दृश्यसम्मतमनुपलभ्यमानं कथमभ्युपगमार्हम् ॥२२२॥
यच्चोच्यते—"परमाणवः प्रत्येकमतीन्द्रियत्वात् सञ्चिता अपि न ज्ञान-
गोचराः” ( न्या० सू० वा० भा० ४.२.१४ ) इति, तत्राह—यदि बहवः
परमाणव उपसर्पणप्रत्ययात् सञ्जातातिशया विज्ञानजननयोग्याः संहता उत्पन्नाः
स्वग्राहि कार्यञ्च बुद्धेः कारणं भवेयुः, तदा को विरोधः, इन्द्रियादिवत् ।
१. चेतसः—पाठा० । २ नेक्ष्यते—पाठा० । ३. सकृद्—पाठा० ।

१६८ प्रमाणवार्त्तिके
हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन ।
तत्र बुद्धैर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते ॥ २२४ ॥
कथं वाऽवयवी ग्राह्यः सकृत् स्वावयवैः सह ।
न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने ॥ २२५ ॥
गुणप्रधानाधिगमः सहाप्यभिमतो यदि ।
सम्पूर्णाङ्गो न गृह्येत सकृन्नापि गुणादिमान् ॥ २२६ ॥
इन्द्रियादयः प्रत्येकं न बुद्धेर्हेतुः, मिलितास्तु भवन्ति, तद्वदणवोऽपि स्युः । न
हि परेषामिवास्माकञ्च नित्यैकस्वभावा अणवः, ते हि यथाप्रत्ययमतीन्द्रियाः
सन्त ऐन्द्रिया अपि स्युः ॥ २२३ ॥
ननु हेतुत्वेऽपि कथमणवो ग्राह्याः ? इत्याह—हेतुभावाद् ऋते विना
ग्राह्यता नाम या प्रसिद्धा सा नान्या काचित्, अपि तु हेतुतैव ग्राह्यता ।
एवं तर्हीन्द्रियादिकमपि हेतुत्वाद् ग्राह्यं स्याद् ? इत्याह—तत्र तेषु हेतुषु
बुद्धैर्यदाकारा भवति तस्या बुद्धेस्तद्ग्राह्यमुच्यते अणुसञ्चयः । सैव च
बुद्धिराकारमनुकरोति, नेन्द्रियादेः, तत् कथं तद्ग्राह्यम् ! ॥ २२४ ॥
योऽप्याह—‘नानेकं सकृद् गृह्यते’ इति, तन्मतेऽवयवी स्वावयवैः
सास्नाककुदलाङ्गूलादिभिः सह कथं वा ग्राह्यो युक्तः । न गृह्यत एवेति चेत् ?
न हि गोरवयविनः प्रत्ययः सास्नादीनामवयवानामदर्शने क्वापि दृष्टः
॥ २२५ ॥
यदि सहाप्यभिमतो गुणप्रधानयोर्विशेषणविशेष्ययोरधिगमः, नोपा-
धीनामन्योऽन्यं विशेषणविशेष्यभूतानां द्रव्याणां वा तादृशानाम् ? एवं तर्हि
विषाणी सास्नादिमानिति वा यदा गृह्यते, तदा तेनैवावयवेन सम्बन्धव्यवसायादि-
तरावयवसम्बन्धानवसायात् सम्पूर्णाङ्गोऽवयवी न गृह्येत । सकृद् गृह्यते च ।
नापि गुणादिमान् गृह्येत । ‘विषाणी गौः’ इति बुद्ध्या विषाणविशिष्टो गौर्विषयी-
कृतः, न त्वन्ये गुणकर्मसामान्यादयः । ततश्च नीलादिरूपं गुणः, परिस्पन्दादि च
कर्म, वस्तुत्वादि च सामान्यं न गृह्येत । दृष्टविरुद्धं चैतत् ॥ २२६ ॥

प्रत्यक्षपरिच्छेदः १६९
विवक्षापरतन्त्रत्वाद् विशेषणविशेष्ययोः ।
यदङ्गभावेनोपात्तं तत् तेनैव हि गृह्यते ॥ २२७ ॥
स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च ।
अग्रहादेकबुद्धिः स्यात् पश्यतोऽपि परापरम् ॥ २२८ ॥
गुणादिभेदग्रहणान्नानात्वप्रतिपद् यदि ।
अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसङ्करः ॥ २२९ ॥
सर्वेषां गुणकर्मसामान्यावयवादीनां वस्तुतो विशेषणत्वात् सर्वग्रहणमिति
चेत् ? आह—विशेषणविशेष्ययोर्विवक्षापरतन्त्रत्वात् पुरुषेच्छानुरोधात् न
पारमार्थिकत्वम्, तथा 'विषाणी गौः' इति गोर्विषाणमित्यादौ विपर्ययो विशेषण-
विशेष्ययोः प्रयोक्तुरिच्छावशेन दृश्यते । तस्माद् यदेव ह्यङ्गभावेन विशेषण-
भावेन स्वमनीषिकया प्रतिपादयित्रोपात्तम्, तेनैव विशेषणेन विशिष्टं तद्विवक्षितं
गृह्यते, न तदितरैः; तेषामविवक्षितत्वेनाविशेषितत्वात् । ततश्च न सम्पूर्णाङ्गः,
नापि गुणादिमान् गृह्येत ॥ २२७ ॥
किञ्च—वस्तुनः स्वतो वस्त्वन्तराद् भेदाभावात् वदन्ति हि । स्वतो
हि गौर्नगौः, गोत्वयोगात् गौः । तथा स्वतो हि शुक्लो नशुक्लः, शुक्लत्वयोगात् शुक्ल
इत्यादि । भेदकस्य च गुणादेरग्रहात् पदार्थैः सह । ततश्च परापरमर्थजातं
पश्यतोऽप्येकपदार्थत्वबुद्धिः स्यात् । न हि द्रव्याणामन्योऽन्यस्य भेदका गुण-
जात्यादयस्तैः सह गृह्यन्ते येन भेदबुद्धिः स्यात् । द्रव्ये गृहीते पश्चाद् गुणादीनां
भेदानां विशेषाणां नानात्वग्रहणं द्रव्याणां यदीष्यते; अस्तु नाम पश्चाद् गुणा-
दिग्रहणम्, तथाप्येषां गुणकर्मसामान्यादीनां सम्बन्धिनः साङ्कर्यं स्यात् ।
स्वतो हि द्रव्यं भेदान्नोपलभ्यते, पश्चादुपलभ्यमानैस्तु गुणादिभिः
सम्बन्धितयावगतैर्भेदेन तद् व्यवस्थापनीयम्, ततश्चैकत्रैकद्रव्ये गुणादयः सम्ब-
न्धितया प्रतीयेरन्, भिन्नदेशानां गुणानां भिन्नदेशेषु योजनान्न सम्बन्धिसाङ्कर्य-
मिति चेत् ? न; देशभेदस्यापि विशेषणत्वात् सोऽप्येकस्येति स्यात् । एकस्य
विरुद्धधर्मयोगात् प्रतीयमानार्थाः पश्चात् प्रतीयमानैरुपाधिभिर्भिन्ना व्यवस्थाप्यन्त
इति चेत् ? नन्वेवमपि स्वतोऽर्थानां भेदाभावात्, भेदनिबन्धनैश्चोपाधिभिः सह

१७० प्रमाणवार्त्तिके
शब्दादीनामनेकत्वात् सिद्धोऽनेकग्रहः सकृत् ।
सन्निवेशग्रहायोगदग्रहे सन्निवेशिनाम् ॥ २३० ॥
सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः ।
तद्भेदोन्नीतभेदा सा धर्मिणोऽनेकरूपता१ ॥ २३१ ॥
वेदनाभावान्नाध्यक्षसिद्धा भेदव्यवस्थितिः स्यात्; किन्तु विरुद्धोपाधिसम्बन्धान्य-
थानुपपत्त्या कल्पनीया । तथा च प्रत्यक्षविरोधः ।
अथ दृष्टेऽर्थे पश्चात्तनमध्यक्षमुपाधिग्राहकं तान् योजयेद् भेदग्राहकम्, कथ-
मदृश्यमाने योजनोपाधीनां प्रत्यक्षकृता, विकल्पकृतैव तु स्यात् । तथा च व्यक्तं
न भेददर्शनं स्यात्; विकल्पविषयस्यास्फुटत्वात् । दृष्टेऽर्थे, पश्चादुपाधिः प्रतीय-
मानस्तस्यैव दृष्ट इति चेत् ? तस्येति किमुच्यते ? न तावदनेकासु, उपाधि-
ग्रहणात् पूर्वमनेकत्वस्याप्रतीतेः । एकं चेत् ? कथमुपाधिभिर्भेदनीयम् । अनवधृतै-
कानेकभावं वस्तुमात्रं तदिति चेत् ? तत्र तर्हि देशभेदादयो ऽप्युपाधयः पश्चा-
दुपलभ्यमाना योज्यन्ते, तदनन्तरं दृष्टत्वात् । ततश्चानिवार्यः सम्बन्धसङ्कर-
प्रसङ्गः ॥ २२८–२२९ ॥
सांख्यमतेऽपि—शब्दादीनां सुखदुःखमोहात्मकतया अनेकत्वात्
शब्दादिग्रहे सकृदनेकग्रहः सिद्धः; सन्निवेशिनामग्रहे सन्निवेशस्य
ग्रहायोगात् । न ह्यङ्गुल्यग्रहणे मुष्टिग्रहणम् ॥ २३० ॥
यदि प्रत्यक्षमविकल्पम्, तदा कथं धर्मधर्म्यादिग्रहणम् ? इत्याह—सर्वतः
परस्माद् विनिवृत्तस्यार्थस्य यतो यतः परस्माद् विनिवृत्तिस्तैर्भेदैर्व्यावृत्ति-
भिरुन्नीता साऽनेकरूपता धर्मिधर्मात्मकतया धर्मिणोऽर्थस्य । सर्वतो
व्यावृत्ते प्रत्यक्षेण गृहीते वस्तुनि तद्व्यावृत्त्यनुकारिणो विकल्पाः प्रत्यक्षदृष्टत्वेन
धर्मिधर्मभावं व्यवस्थापयन्तीति प्रत्यक्षकृतः स उच्यते, न तु प्रत्यक्षप्रतिभासमान-
त्वात् ॥ २३१ ॥
१. “धर्मिणोऽनेकरूपस्येन्द्रियाद् बोधो न सम्भवेत् ।
स्वसंवेद्यमनिर्देश्यं रूपमिन्द्रियगोचरः ॥” ( प्र० समु० १. ५ )
इति प्रमाणसमुच्चयकारिकामाचार्यो व्याचष्टे ।