प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 186, कुल 532 में से
संदर्भ में पढ़ेंअथैकायतनत्वेऽपि नानेकं दृश्यते सकृत् ।
सकृद्ग्रहावभासः किं वियुक्तेषु तिलादिषु ॥ १९७ ॥
प्रत्युक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु ।
किं नाक्रमग्रहस्तुल्यकालाः सर्वाश्च बुद्धयः ॥ १९८ ॥
काश्चित् तास्वक्रमाभासाः क्रमवत्योऽपराश्च किम् ।
सर्वार्थग्रहणे तस्मादक्रमोऽयं प्रसज्यते ॥ १९९ ॥
नैकं चित्रपतंगादि रूपं वा दृश्यते कथम् ।
चित्रं तदेकमिति चेदिदं चित्रतरं ततः ॥ २०० ॥
अथ एकेन्द्रियज्ञानजनकत्वात् नीलपीतादीनामेकायतनत्वे रूपायतनत्व-
संग्रहेऽपि नानेकं नीलादि सकृद् दृश्यते, किन्तु क्रमेण; तत् कथमणूनां
बहूनामेकदा ग्रहणम् ? अत्रोच्यते—यदि नानेकमेकदा गृह्यते, तदा तिला-
दिषु वियुक्तेषु विभिन्नदेशेषु सकृद्ग्रहावभासो युगपद्ग्रहणानुभवः किं
कस्माद्धेतोः ! ॥ १९७ ॥
ज्ञानानां लघुवृत्तित्वात् सकृद्ग्रहणभ्रमश्चेत् ? आह—प्रत्युक्तं प्रतिक्षिप्तं
चात्र सकृद्ग्रहावभासे लाघवं बुद्धीनाम्—“अन्यत्रापि समानं तद् वर्णयोर्वा
सकृच्छ्रुतिः” ( प्र० वा० २. १३५ ) इत्यादिना । तथाप्युच्यते—तेष्वेव
तिलादिषु हस्तादिभ्यः क्रमपातिषु किं कस्मान्नाक्रमग्रहणं भवति । सर्वाश्च
बुद्धयः सहावस्थितेषु सम्भवन्त्यस्तुल्यकालाः ॥ १९८ ॥
ततः तासु काश्चिदक्रमाभासाः१ सहस्थितवस्तुविषयाः१, अपराश्च
बुद्धयः क्रमवत्योऽयुगपत्प्रतिभासाः किं भवन्ति याः क्रमपातिवस्तुविषयाः,
अस्ति चायं भेदः, तस्मात् सर्वस्यार्थस्य क्रमिणोऽक्रमिणश्च ग्रहणेऽक्रमोऽयं
लाघवाविशेषात् प्रसज्यते ॥ १९९ ॥
किञ्च—चित्रपतङ्गादि नैकमनेकं नीलादिरूपं वा दृश्यते कथम् , यदि
नानेकमेकेन गृह्यते । चित्रं नीलपीताद्यात्मकं तत् पतङ्गादिकमेकमिति चेत् ? इदं
चित्रमेकं यदुच्यते तत् ततश्चित्रपतङ्गादपि चित्रतरमाश्चर्यतरम् । चित्रमिति
नानारूपाणि, तदेव पुनरेकमुच्यत इत्युपहसति ॥ २०० ॥
१-१. ०दक्रमाभासायाः सहस्थितवस्तुविषयायाः—रा० ।