सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 178, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 178

१५२ प्रमाणवार्त्तिके
मिथ्यावभासिनो वैते प्रत्ययाः शब्दनिर्मिताः ।
अनुयान्तीममर्थाशमिति चापोहकृत् श्रुतिः ॥ १७० ॥
तस्मात् संकेतकालेऽपि;
निर्दिष्टार्थेन संयुतः ।
स्वप्रतीतिफलेनान्यापोहः सम्बध्यते श्रुतौ ॥ १७१ ॥
अन्यत्रादृष्ट्यपेक्षत्वात् क्वचित्तद्दृष्ट्यपेक्षणात् ।
श्रुतौ सम्बध्यतेऽपोहो नैतद् वस्तुनि युज्यते ॥ १७२ ॥
मिथ्यावभासिनो वा शब्दनिर्मिता एते प्रत्ययाः । तथा हि—न
तावदर्थः शब्दबुद्धेर्विषयः; तत्स्वरूपानवभासतः, तत्र शब्दसंकेताभावच्च ।
नापि बुद्ध्याकारः; तस्य वेदनेऽपि विषयत्वेनानध्यवसायात्, स्वलक्षणत्वात्, संकेता-
भावाच्च । न हि बुद्ध्याकारस्य बहिष्ठं बाह्यस्य वा बुद्ध्याकारत्वमस्ति, येन तथेति
भासः सत्यप्रतिभासः स्यात् । तस्माद् वस्तुतोऽवस्तुप्रतिभासिनः शाब्दाः प्रत्ययाः ।
कथं तर्हीदानीमर्थांशापोहकृच्छ्रुतिरुक्ता ? इत्याह— इममन्यापोहमर्थांशं
शब्दा अतःप्रतिभासित्वेऽपि अनुयान्ति वृत्तिविषयत्वेन व्यवस्थापयन्ति । अर्थदर्श-
नायातत्वेन परस्परं या, तत्प्रतिबन्धनादिति चान्यापोहकृच्छ्रुतिरुक्ता¹ ॥ १७० ॥
यस्माद् व्यवहारकालेऽन्यव्यवच्छेदप्रतीतिः शब्दात्, तस्मात् संकेतकाले-
ऽप्यन्यापोहः श्रुतौ वाच्यतया सम्बध्यते, नान्यत् ।
नन्वर्थमुपदर्श्य संकेत: क्रियते, तत्कथमपोह उच्यते ? इत्याह— निर्दिष्टे-
नार्थेनान्याव्यावृत्तेन व्यवहारकाले स्वस्य प्रतीतिः फलं प्रयोजनं यस्य तेन
संयुतोऽभेदाध्यवसायादेकत्वमुपनीतोऽन्यापोहो बुद्ध्याकारस्वभावः श्रुतौ सम्ब-
ध्यते, न त्वर्थ एव ॥ १७१ ॥
तथा हि—संकेतस्यान्यत्र व्यवच्छेद्येऽवृक्षेऽदर्शनापेक्षत्वात्, क्वचि-
दन्यव्यवच्छेद्ये वृक्षैकदेशे दृष्ट्यपेक्षणात् श्रुतावपोहः सम्बध्यत इति निश्चीयते ।
वस्तुनि सामान्यादौ संकेतविषये एतत् व्यवच्छेद्याव्यवच्छेद्ययोर्दर्शनादर्शनापेक्षं
न युज्यते । वस्तुनि विधिमुखेन प्रतिपाद्ये किमन्यत्रादर्शनापेक्षया, अपेक्ष्यते च,
१. आचार्यदिङ्नागेनेति शेषः ।