प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 187, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १६१
नैकं स्वभावं चित्रं हि मणिरूपं यथैव तत् ।
नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु ॥ २०१ ॥
तत्रावयवरूपं चेत् केवलं दृश्यते तथा ।
नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे ॥ २०२ ॥
तुल्यार्थाकारकालत्वेनोपलक्षितयोर्द्वयोः ।
नानार्था क्रमवत्येका किमेकार्थाऽक्रमापरा ॥ २०३ ॥
वैश्वरूप्याद् धियामेव भावानां विश्वरूपता ।
तथा च चित्रमनेकरूपं हि यस्मात्, तस्मान्नैकं पतङ्गादि । यथैव संस्थान-
विशेषेण संनिविष्टानां बहूनां मणीनां रूपं तच्चित्रमनेकं नैकमवयवि द्रव्यम्;
विजातीयानां द्रव्याणारम्भाद् ।
चित्रबुद्धिरेकत्वान्मुख्या पतङ्गे, मणिरूपादिषु पुनरुपचरितेति चेत् ?
आह—नीलादिप्रतिभासश्चित्रप्रतिभासः स चित्रपट आदिर्येषां मणिरूपादीनां
तेषु, चित्रपतङ्गे च तुल्यः, न त्वग्निमाणवकयोर्दहनबुद्धिरिव स्खलदस्खलद्-
वृत्तिर्लक्ष्यते ॥ २०१ ॥
तत्र चित्रपटादिषु केवलमवयवरूपं तथा चित्रतया दृश्यते, नावयवी; विजा-
तीयानां द्रव्याणारम्भादिति चेत् ? चित्रपतङ्गादावपि नीलादीनि निरस्य पृथक्-
कृत्य तेभ्योऽन्यच्चित्रमवयविरूपं यदीक्षसे त्वम्, तच्चित्रमाश्चर्यम्, स्वसिद्धान्ता-
नुरागभेषजविशोधितचक्षुरीक्षसे त्वमेव यदीदृशमवयविनम्; परं नात्रान्येषा-
मधिकारः ॥ २०२ ॥
अपि च—तुल्यार्थाकारत्वेन तुल्यकालत्वेन चोपलक्षितयोः कृत्रिमा-
कृत्रिमपतङ्गविशेषणयोर्द्वयोर्मध्ये एका कृत्रिमपतङ्गविषया धीर्नानार्था, विजाती-
यात्मकद्रव्याणारम्भात् । क्रमवती च; नीलानां बहूनां क्रमेण ग्रहणात् । अपरा
अकृत्रिमपतङ्गविषया एकार्थायविविषया, अत एवाक्रमा च किं कस्मादिष्यते !
द्वयोरपि समानता युक्ता; निमित्तस्य साम्यात् ॥ २०३ ॥
किञ्च—धियामेव वैश्वरूप्याद् नानाकारत्वाद् भावानां ग्राह्याणां
विश्वरूपता व्यवस्थाप्यते । चित्रस्यावयविन एकतास्वीकारे तद्बुद्धिषु प्रतिभास-
प्र० वा० : ११