सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 182, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 182

१५६ प्रमाणवार्त्तिके
अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥ १८२ ॥
सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना ।
अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ १८३ ॥
अस्ति चेन्निर्विकल्पं च किञ्चित् तत्तुल्यहेतुकम् ।
सर्वं तथैव हेतोर्हि भेदाद् भेदः फलात्मनाम् ॥ १८४ ॥
अनपेक्षितबाह्यार्था योजना समयस्मृतेः ।
तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः ॥ १८५ ॥
संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि ।
स यथा, तद्वदन्यदपि ज्ञानमन्त्यमप्रतिबद्धवृत्ति चाविकल्पकं बोद्धव्यम् ।
यस्मात् सकलमेव स्वरूपमशक्यसमयं शब्दसंकेताविषयः, ततश्च न विकल्प-
ग्राह्यम् ॥ १८१-१८२ ॥
किञ्च—विशेषसंकेताभावात् व्यवहारकालानुयायित्वाच्च सामान्यवाचिनः
शब्दाः, तैः शब्दैरेकार्था एकविषया च कल्पना शब्दयोजनया शब्दार्थ एव
कल्पना । परमते च निर्विकल्पस्य ज्ञानस्याभावे विशेषस्य विकल्पाविषयस्या-
धिगमः कथम्, न कथञ्चिदित्यर्थः । विशेषानुभवदर्शनादस्ति किञ्चिन्निर्विकल्पं
च ज्ञानं यथाहुर्मीमांसकादय इति चेत् ? एवं तर्हि तेन निर्विकल्पेन तुल्य-
हेतुकं चक्षूरूपमनस्कारादिसमानहेतुकं विशेषविषयं सर्वं ज्ञानं तथैवाविकल्पक-
मस्तु, न तु स्वलक्षणविषयमपि किञ्चित् सविकल्पकम्; हि यस्माद्धेतोर्भेदात्
फलात्मनां भेदो भवति । हेत्वभेदे तु फलाभैद एव युक्तः, नान्यथा क्वचि-
दप्येकजातीयता स्यात् ॥ १८३-१८४ ॥
किञ्च—योजना कल्पनाऽनपेक्षितबाह्यार्था बहिरर्थसंकेतविषयमनपेक्ष्यैव
समयस्य प्राग्गृहीतस्य स्मृतेः सकाशाद् भवति तावत् । तथा समयमनपेक्ष्य
वस्तुनः स्वलक्षणस्य शक्त्या स्वाकारानुकारिविज्ञानजननसामर्थ्येनैव नेत्रधी-
र्जायते यदि, तदा को विरोधः ॥ १८५ ॥
स्यादेतद् । रूपमक्षचेतसि कर्तव्ये संकेतस्मरणापेक्षं तदनपेक्षं पुनर्ना-