प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 179, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १५३
तस्माद् जात्यादितद्योगो नार्थे तेषु च न श्रुतिः ।
संयुज्यतेऽन्यव्यावृत्तौ १ शब्दानामेव योजनात् ॥ १७३ ॥
प्रत्यक्षे शब्दकल्पनानिराकरणम्
संकेतस्मरणोपायं दृष्टसंकलनात्मकम् ।
पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥ १७४ ॥
अन्यत्रगतचित्तोऽपि चक्षुषा रूपमीक्षते ।
तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना ॥ १७५ ॥
ततोऽन्यव्यवच्छेद एव प्रतिपाद्यत इति गम्यते । अन्यव्यवच्छेदः सामान्यादिकं
चापेक्ष्यते विपक्षपरिहारेण प्रतिपत्त्यर्थमिति चेत् ? अलं तदा सामान्येन; अन्यव्य-
वच्छेदेनैव व्यवहारपरिसमाप्तेः ॥ १७२ ॥
यतश्च जातिगुणक्रियादीनि विशेषणानि वस्तुग्राहिणि ज्ञाने नाभासन्ते;
तस्माज्जात्यादयस्तेषां योगाश्चार्थे न सन्ति, अतस्तेषु श्रुतिश्च नोप-
युज्यते; अन्यव्यावृत्तावेव प्रतीतिसिद्धायां शब्दानां योजनात् ॥ १७३ ॥
तदेवं जात्यादिकल्पना तत्सम्बन्धकल्पना च नास्तीत्युक्तम् । शब्दकल्पनापि
न सम्भवति ? इत्याह-- शब्दकल्पनं हि पूर्वगृहीतस्य संकेतस्य स्मरणमुपायो
यस्य संकेतस्मरणोपायं वाचकत्वेन दृष्टस्य शब्दस्य संकलनं तथायोजनमात्मा
यस्य तत् दृष्टसंकलनात्मकं प्रसिद्धम् । तच्च पूर्वस्य संकेतकालदृष्टवाचक-
शब्दस्यापरस्य दृश्यमानार्थस्य परामर्शो वाच्यवाचकतायोजनम्, तेन शून्या
शब्दामिश्रवस्तुस्वरूपग्राहिणि चाक्षुषे ज्ञाने कथं सम्भाव्यते । चाक्षुषं चाक्षज-
मात्रोपलक्षणमिन्द्रियज्ञानमित्यर्थः ॥ १७४ ॥
किञ्च--दृश्यमानादर्थादन्यत्रातीतादौ विकल्पनीये गतचित्तः प्रवृत्तवि-
कल्पोऽपि द्रष्टा चक्षुषा चक्षुर्विज्ञानेन रूपमीक्षते । तस्य दृश्यमानार्थस्य
संकेत: संकेतविषयो वाचकं नाम, तस्याग्रहोऽस्मरणं तत्र चाक्षुषे ज्ञाने
स्पष्टः । ततस्तज्जा वाचकनामस्मरणप्रभवा कल्पना च चाक्षुषे ज्ञाने
नास्तीति शेषः ॥ १७५ ॥
१. संयोज्यते--रा० । सम्बध्यते--पाठा० ।