प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 180, कुल 532 में से
संदर्भ में पढ़ें१५४ प्रमाणवार्त्तिके
जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः ।
तेनेच्छात्तः प्रवर्त्तेरन् नेक्षेरन् बाह्यमक्षजाः ॥ १७६ ॥
रूपं रूपमितीक्षेत तद्धियं किमितीक्षते ।
अस्ति चानुभवस्तस्याः सोऽविकल्पः कथं भवेत् ॥ १७७ ॥
तयैवानुभवे दृष्टं न विकल्पद्वयं सकृत् ।
एतेन तुल्यकालान्यविज्ञानानुभवो गतः ॥ १७८ ॥
स्मृतिर्भवेदतीते च साऽगृहीते कथं भवेत् ।
स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः ॥ १७९ ॥
किञ्च—तत्र विषये शब्दयोजनात्मिकाः कल्पना जायन्ते, यत्र
संकेतकाले शब्दो निवेशितः । न चेन्द्रियविषये शब्दसंकेत इति न तत् ज्ञानं
शब्दयोजनात्मकं प्राक् , अथेन्द्रियविषय एव शब्दनिवेशः, तदा तेन शब्द-
विषयत्वेन कारणेनेच्छात्तः प्रवर्त्तेरनक्षजाः प्रत्ययाविकल्पवत्, न चैतदस्ति;
इच्छाप्रभवत्वे वा बाह्यार्थसन्निधानानपेक्षत्वात्, बाह्यमर्थं नेक्षेरन्नक्षजाः,
प्रत्ययविकल्पवत् ॥ १७६ ॥
अपि च—सर्वविकल्पवादिनो मते रूपमिति प्रवृत्तविकल्पबुद्धौ रूपमी-
क्षेत, तद्धियं रूपधियमपि कल्प्यमानां किमितीक्षते ज्ञाता ! रूपबुद्ध्यनुभवो
नास्तीति न युक्तम्; यस्मादस्ति चानुभवस्तस्याः सर्वेषां प्रतिपत्तॄणाम् ।
न च रूप इव तद्बुद्धावपि कल्पनाऽनुभूयते । ततश्च रूपबुद्धेरनुभवोऽविकल्पः
कथं भवेत् ॥ १७७ ॥
तयैव रूपबुद्ध्या रूपस्य स्वात्मनश्चानुभवेऽभ्युपगम्यमाने—रूपमिति,
रूपानुभव इति च विकल्पद्वयं सकृत् स्यात्, तच्च नास्ति; अनुभवबाधितत्वात् ।
एतेन सकृत्कल्पनाद्वयनिषेधेन तुल्यकालेनान्येन निर्विकल्पज्ञानेनानुभवो
रूपबुद्धेर्गतो निर्णीतोत्तरो बोद्धव्यः ॥ १७८ ॥
उत्तरकालभाविना विकल्पज्ञानेनानुभव इति चेद् ? आह--अतीते च
रूपानुभवे स्मृतिः पश्चात्तनेन विकल्पेन न भवेन्नानुभवः । सा स्मृतिरगृहीते-
ऽनुभवे कथं भवेत् ! यदि चातीतबुद्धिर्विकल्प्यते, तदाऽन्यस्य पुंसो धियः